तैत्तिरीयोपनिषत्, अरुणप्रश्नम्, तृणाचिकेतम्

कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यकम् (वेदमन्त्राः सस्वराः)

1. शीक्षा वल्ली

1.1 पूर्वशान्ति पाठः T.A.5.1.1

शन्नो॑ मि॒त्रः शं ँवरु॑णः । शन्नो॑ भवत्वर्य॒मा । शन्न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शन्नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं ँव॑दिष्यामि । स॒त्यं ँव॑दिष्यामि ( ) । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ मां । अव॑तु व॒क्तारं᳚ ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ 1.1

(स॒त्त्यम् ँव॑दिष्यामि॒ पञ्च॑ च) (A1)

1.2 शिक्षाशास्त्रार्थ सङ्ग्रहः T.A.5.2.1

शीक्षां ँव्या᳚ख्यास्या॒मः । वर्णः॒ स्वरः । मात्रा॒ बलं । साम॑ सन्ता॒नः ।

इत्युक्तः शी᳚क्षाद्ध्या॒यः ॥ 2.1

(शीक्षाम् पञ्च॑) (A2)

1.3 संहितोपासनं T.A.5.3.4

स॒ह नौ॒ यशः । स॒ह नौ ब्र॑ह्मव॒र्चसं ॥

अथातः सꣳहिताया उपनिषदं ँव्या᳚ख्यास्या॒मः ।

पञ्चस्वधि-क॑रणे॒षु । अधिलोकमधि-ज्यौतिष-मधिविद्य-मधिप्रज॑-मद्ध्या॒त्मं ।

ता महासꣳहिता इ॑त्याच॒क्षते ॥

अथा॑धि लो॒कं । पृथिवी पू᳚र्वरू॒पं । द्यौरुत्त॑ररू॒पं । आका॑शः स॒न्धिः । 3.1

वायुः॑ सन्धा॒नं । इत्य॑धि लो॒कं ॥

अथा॑धि ज्यौ॒तिषं । अग्निः पू᳚र्व रू॒पं ।

आदित्य उत्त॑ररू॒पं । आ॑पः स॒न्धिः । वैद्युतः॑ सन्धा॒नं । इत्य॑धि ज्यौ॒तिषं ॥

अथा॑धि वि॒द्यं । आचार्यः पू᳚र्व रू॒पं । 3.2

अन्तेवास्युत्त॑ररू॒पं । वि॑द्या स॒न्धिः ।

प्रवचनꣳ॑ सन्धा॒नं । इत्य॑धि वि॒द्यं ॥

अथाधि॒प्रजं । माता पू᳚र्वरू॒पं । पितोत्त॑ररू॒पं । प्र॑जा स॒न्धिः । प्रजननꣳ॑ सन्धा॒नं । इत्यधि॒प्रजं ॥ 3.3

अथाद्ध्या॒त्मं । अधराहनुः पू᳚र्व रू॒पं । उत्तराहनु-रुत्त॑ररू॒पं । वाख् स॒न्धिः । जिह्वा॑ सन्धा॒नं । इत्यद्ध्या॒त्मं ॥ इती माम॑हा स॒ꣳ॒हिताः ॥

य एवमेता महासꣳहिता व्याख्या॑ता वे॒द ।

सन्धीयते प्रज॑या प॒शुभिः । ब्रह्मवर्च-सेनान्नाद्येन सुवर्ग्येण॑ (सुवर्गेण॑) लोके॒न ( ) ॥ 3.4

(स॒न्धि - राचार्यः पू᳚र्वरू॒प - मित्यधि॒प्रजम् - ँलो॑के॒न) (A3)

1.4 मेघादि-सिद्ध्यर्था आवहन्ती होम मन्त्राः T.A.5.4.3

यः छन्द॑सा-मृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्यो-ऽद्ध्य॒मृता᳚थ् संब॒भूव॑ । स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु । अ॒मृत॑स्य देव॒ धार॑णो भूयासं ॥

शरी॑रं मे॒ विच॑र्.षणं । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा᳚भ्यां॒ भूरि॒ विशृ॑वं । ब्रह्म॑णः को॒शो॑ऽसि मे॒धया ऽपि॑हितः । शृ॒तं मे॑ गोपाय ॥

आ॒वह॑न्ती वितन्वा॒ना । 4.1

कु॒र्वा॒णा चीर॑-मा॒त्मनः॑ । वासाꣳ॑सि॒ मम॒ गाव॑श्च । अ॒न्न॒पा॒ने च॑ सर्व॒दा । ततो॑ मे॒ श्रिय॒-माव॑ह । लो॒म॒शां प॒शुभिः॑ स॒ह स्वाहा᳚ ॥ आमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚ ।

विमा॑ऽऽयन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚ । प्रमा॑ऽऽयन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚ ।

दमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚ ।

शमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚ ॥ 4.2

यशो॒ जने॑ऽसानि॒ स्वाहा᳚ । श्रेया॒न॒. वस्य॑सोऽसानि॒ स्वाहा᳚ ॥ तं त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा᳚ । स मा॑ भग॒ प्रवि॑श॒ स्वाहा᳚ । तस्मि᳚नथ् स॒हस्र॑ शाखे । निभ॑गा॒हं त्वयि॑ मृजे॒ स्वाहा᳚ ॥ यथाऽऽपः॒ प्रव॑ता॒ऽऽयन्ति॑ । यथा॒ मासा॑ अहर्ज॒रं ।

ए॒वं मां ब्र॑ह्मचा॒रिणः॑ । धात॒राय॑न्तु स॒र्वतः॒ स्वाहा᳚ ( ) ॥ प्र॒ति॒वे॒शो॑ऽसि॒ प्र मा॑ भाहि॒ प्र मा॑ पद्यस्व ॥ 4.3

(वि॒त॒न्वा॒ना - शमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा॒-धात॒राय॑न्तु स॒र्वतः॒ स्वाहैक॑म् च) (A4)

1.5 व्याहृत्युपासनं T.A.5.5.3

भू-र्भुव॒-स्सुव॒-रिति॒ वा ए॒ता स्ति॒स्रो व्याहृ॑तयः ॥

तासा॑मुहस्मै॒ तां च॑तु॒र्त्थीं । माहा॑चमस्यः॒ प्रवे॑दयते । मह॒ इति॑ ॥ तद् ब्रह्म॑ । स आ॒त्मा ।

अङ्गा᳚न्य॒न्या दे॒वताः᳚ ॥ भूरिति॒ वा अ॒यं ँलो॒कः । भुव॒ इत्य॒न्तरि॑क्षं । सुव॒-रित्य॒सौ लो॒कः । 5.1

मह॒ इत्या॑दि॒त्यः । आ॒दि॒त्येन॒ वाव सर्वे॑ लो॒का मही॑यन्ते ॥ भूरिति॒ वा अ॒ग्निः । भुव॒ इति॑ वा॒युः । सुव॒रित्या॑दि॒त्यः । मह॒ इति॑ च॒न्द्रमाः᳚ । च॒न्द्रम॑सा॒ वाव सर्वा॑णि॒ ज्योतीꣳ॑षि॒ मही॑यन्ते ॥

भू-रिति॒ वा ऋचः॑ । भुव॒ इति॒ सामा॑नि ।

सुव॒ रिति॒ यजूꣳ॑षि । 5.2

मह॒ इति॒ ब्रह्म॑ । ब्रह्म॑णा॒ वाव सर्वे॑ वे॒दा मही॑यन्ते ॥ भूरिति॒ वै प्रा॒णः । भुव॒ इत्य॑पा॒नः । सुव॒रिति॑ व्या॒नः । मह॒ इत्यन्नं᳚ । अन्ने॑न॒ वाव सर्वे᳚ प्रा॒णा मही॑यन्ते ॥ ता वा ए॒ता-श्चत॑स्र श्चतु॒द्‌र्धा ।

चत॑स्र-श्चतस्रो॒ व्याहृ॑तयः । ता यो वेद॑ ( ) । स वे॑द॒ ब्रह्म॑ । सर्वे᳚ऽस्मै दे॒वा ब॒लिमाव॑हन्ति ॥ 5.3

(अ॒सौ लो॒को - यजूꣳ॑षि॒ - वेद॒ द्वे च॑) (A5)

1.6 मनोमयत्वादि-गुणक-ब्रह्मोपासनया स्वाराज्य-सिद्धिः T.A.5.6.2

स य ए॒षो᳚ऽन्तर्.-हृ॑दय आका॒शः । तस्मि॑न्न॒यं पुरु॑षो मनो॒मयः॑ । अमृ॑तो हिर॒ण्मयः॑ ॥ अन्त॑रेण॒ तालु॑के । य ए॒ष स्तन॑ इवाव॒लंब॑ते ।

से᳚न्द्र यो॒निः । यत्रा॒सौ के॑शा॒न्तो वि॒वर्त॑ते । व्य॒पोह्य॑ शीर्.षकपा॒ले ॥ भूरित्य॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ । 6.1

सुव॒रित्या॑दि॒त्ये । मह॒ इति॒ ब्रह्म॑णि । आ॒प्नोति॒ स्वारा᳚ज्यं । आ॒प्नोति॒ मन॑स॒स्पतिं᳚ । वाक्प॑ति॒ श्चक्षु॑ष्पतिः । श्रोत्र॑पति र्वि॒ज्ञ्आन॑पतिः ।

ए॒तत् ततो॑ भवति । आ॒का॒श श॑रीरं॒ ब्रह्म॑ ।

स॒त्यात्म॑ प्रा॒णारा॑मं॒ मन॑ आनन्दं । शान्ति॑ समृद्ध-म॒मृतं᳚ ( ) ॥

इति॑ प्राचीन यो॒ग्योपा᳚स्व ॥ 6.2

(वा॒या-व॒मृत॒ मेक॑म् च) (A6)

1.7 पृथिव्या द्युपाधिक-पञ्च-ब्रह्मोपासनं T.A.5.7.1

पृ॒थि॒व्य॑न्तरि॑क्षं॒ द्यौर्-दिशो॑ऽवान्तरदि॒शाः ।

अ॒ग्निर्-वा॒यु-रा॑दि॒त्य-श्च॒न्द्रमा॒ नक्ष॑त्राणि ।

आप॒ ओष॑धयो॒ वन॒स्पत॑य आका॒श आ॒त्मा । इत्य॑धिभू॒तं ॥ अथाद्ध्या॒त्मं । प्रा॒णो व्या॒नो॑ऽपा॒न उ॑दा॒नः स॑मा॒नः । चक्षुः॒ श्रोत्रं॒ मनो॒ वाक् त्वक् । चर्म॑ मा॒ꣳ॒ सᳺस्नावास्थि॑ म॒ज्जा ॥

ए॒त द॑धिवि॒धाय॒र्॒.षि॒ रवो॑चत् । पाङ्क्तं॒ ँवा इ॒दꣳ सर्वं᳚ ( ) । पाङ्क्त॑नै॒व पाङ्क्तᳺ॑ स्पृणो॒तीति॑ ॥ 7.1

(सर्व॒मेक॑म् च) (A7)

1.8 प्रणवोपासनम् T.A.5.8.1

ओ-मिति॒ ब्रह्म॑ ॥ ओ-मिती॒दꣳ सर्वं᳚ ॥

ओमित्ये॒त-द॑नुकृति हस्म॒ वा अ॒प्यो श्रा॑व॒येत्या-श्रा॑वयन्ति । ओ-मिति॒ सामा॑नि गायन्ति । ओꣳ शोमिति॑ श॒स्त्राणि॑ शꣳसन्ति । ओ-मित्य॑द्ध्व॒र्युः प्र॑तिग॒रं प्रति॑गृणाति । ओ-मिति॒ ब्रह्मा॒ प्रसौ॑ति ।

ओ-मित्य॑ग्निहो॒त्र-मनु॑जानाति ।

ओ-मिति॑ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒ ब्रह्मोपा᳚प्नवा॒नीति॑ । ब्रह्मै॒वो-पा᳚प्नोति ॥ 8.1

(ओम् दश॑) (A8)

1.9 स्वाध्याय-प्रशंसा T.A.5.9.1

ऋतं च स्वाद्ध्याय प्रव॑चने॒ च । सत्यं च स्वाद्ध्याय प्रव॑चने॒ च । तपश्च स्वाद्ध्याय प्रव॑चने॒ च । दमश्च स्वाद्ध्याय प्रव॑चने॒ च ।

शमश्च स्वाद्ध्याय प्रव॑चने॒ च । अग्नयश्च स्वाद्ध्याय प्रव॑चने॒ च । अग्निहोत्रं च स्वाद्ध्याय प्रव॑चने॒ च । अतिथयश्च स्वाद्ध्याय प्रव॑चने॒ च ।

मानुषं च स्वाद्ध्याय प्रव॑चने॒ च ।

प्रजा च स्वाद्ध्याय प्रव॑चने॒ च ( ) ।

प्रजनश्च स्वाद्ध्याय प्रव॑चने॒ च । प्रजातिश्च स्वाद्ध्याय प्रव॑चने॒ च ॥ सत्यमिति सत्यवचा॑ राथी॒ तरः । तप इति तपोनित्यः पौ॑रुशि॒ष्टिः ।

स्वाद्ध्याय प्रवचने एवेति नाको॑ मौद्ग॒ल्यः ।

तद्धि तप॑स्तद्धि॒ तपः ॥ 9.1

(प्रजा च स्वाद्ध्यायप्रव॑चने॒ च षट्च॑) (A9)

1.10 ब्रह्मज्ञ्आन-प्रकाशक-मन्त्रः T.A.5.10.1

अ॒हं ँवृ॒क्षस्य॒ रेरि॑वा । की॒र्तिः पृ॒ष्ठं गि॒रेरि॑व । ऊ॒द्‌र्ध्व प॑वित्रो वा॒जिनी॑व स्व॒मृत॑मस्मि । द्रवि॑ण॒ꣳ॒ सव॑र्चसं । सुमेधा अ॑मृतो॒क्षितः । इति त्रिशङ्कोर्-वेदा॑नुव॒चनं ॥ 10.1

(अ॒हꣳ षट्) (A10)

1.11 शिष्यानुशासनम् T.A.5.12.1

वेदमनूच्या- ऽचार्योन्तेवासिन-म॑नुशा॒स्ति ॥

सत्यं॒ ँवद । धर्मं॒ चर ॥ स्वाद्ध्याया᳚न्मा प्र॒मदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्य॑वच्छे॒थ्सीः । सत्यान्न प्रम॑दित॒व्यं । धर्मान्न प्रम॑दित॒व्यं । कुशलान्न प्रम॑दित॒व्यं । भूत्यै न प्रम॑दित॒व्यं । स्वाद्ध्याय प्रवचनाभ्यां न प्रम॑दित॒व्यं । 11.1

देवपितृकार्याभ्यां न प्रम॑दित॒व्यं ॥

मातृ॑देवो॒ भव । पितृ॑देवो॒ भव ।

आचार्य॑ देवो॒ भव । अतिथि॑देवो॒ भव ॥

यान्यनवद्यानि॑ कर्मा॒णि । तानि सेवि॑तव्या॒नि ।

नो इ॑तरा॒णि ॥ यान्यस्माकꣳ सुच॑रिता॒नि । तानि त्वयो॑पास्या॒नि । 11.2

नो इ॑तरा॒णि ॥ ये के चास्म-च्छ्रेयाꣳ॑सो ब्रा॒ह्मणाः ।

तेषां त्वयाऽऽसने न प्रश्व॑सित॒व्यं ॥ श्रद्ध॑या दे॒यं । अश्रद्ध॑याऽदे॒यं । श्रि॑या दे॒यं । ह्रि॑या दे॒यं । भि॑या दे॒यं । सम् ँवि॑दा दे॒यं ॥

अथ यदि ते कर्मविचिकिथ्सा वा वृत्त विचिकि॑थ्सा वा॒ स्यात् । 11.3

ये तत्र ब्राह्मणाः᳚ सम्म॒र॒.शिनः । युक्ता॑ आयु॒क्ताः ।

अलूक्षा॑ धर्म॑कामाः॒ स्युः । यथा ते॑ तत्र॑ वर्ते॒रन्न् । तथा तत्र॑ वर्ते॒थाः ॥ अथाभ्या᳚ख्याते॒षु । ये तत्र ब्राह्मणाः᳚ सम्म॒र्॒.शिनः । युक्ता॑ आयु॒क्ताः ।

अलूक्षा॑ धर्म॑ कामाः॒ स्युः । यथा ते॑ तेषु॑ वर्ते॒रन्न् ( ) । 11.4अ

तथा तेषु॑ वर्ते॒थाः ॥ एष॑ आदे॒शः । एष उ॑पदे॒शः । एषा वे॑दोप॒निषत् । एतद॑नुशा॒सनं । एव मुपा॑सित॒व्यं । एव मुचैत॑दुपा॒स्यं ॥ 11.4ब्

(स्वाद्ध्यायप्रवचनाभ्याम् न प्रम॑दित॒व्यम् - तानित्वयो॑पास्या॒नि - स्यात् - तेषु॑ वर्ते॒रन्थ् - +स॒प्त च॑) (A11)

शन्नो॑ मि॒त्रः शं ँवरु॑णः । शन्नो॑ भवत्वर्य॒मा ।

शन्न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शन्नो॒ विष्णु॑ रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्मा वा॑दिषं । ऋ॒तम॑वादिषं । स॒त्यम॑वादिषं ( ) । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् । आवी॒न्मां ।

आवी᳚द्व॒क्तारं᳚ ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ 12.1

(स॒त्यम॑वादिष॒म् पञ्च॑ च) (A12)

॥ इति शीक्षावल्ली समाप्ता ॥

==================

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

2. ब्रह्मानन्द वल्ली

स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु ।

स॒ह वी॒र्यं॑ करवावहै ।

ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥

ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

(स॒ह पञ्च॑) (A13)

2.1 उपनिषत्सार सङ्ग्रहः T.A.5.14.1

ब्र॒ह्म॒विदा᳚प्नोति॒ परं᳚ ॥

तदे॒षाऽभ्यु॑क्ता । स॒त्यं ज्ञ्आ॒न-म॑न॒न्तं ब्रह्म॑ ।

यो वेद॒ निहि॑तं॒ गुहा॑यां पर॒मे व्यो॑मन्न् ।

सो᳚ऽश्नुते॒ सर्वा॒न् कामा᳚न्थ् स॒ह । ब्रह्म॑णा विप॒श्चितेति॑ ॥ तस्मा॒द्वा ए॒तस्मा॑दा॒त्मन॑ आका॒शः संभू॑तः । आ॒का॒शाद् वा॒युः । वा॒योर॒ग्निः । अ॒ग्नेरापः॑ । अ॒द्भ्यः पृ॑थि॒वी । पृ॒थि॒व्या ओष॑धयः । ओष॑धी॒भ्योऽन्नं᳚ । अन्ना॒त् पुरु॑षः ॥

स वा एष पुरुषोऽन्न॑रस॒मयः ॥ तस्येद॑मेव॒ शिरः । अयं दक्षि॑णः प॒क्षः । अयमुत्त॑रः प॒क्षः । अयमात्मा᳚ । इदं पुच्छं॑ प्रति॒ष्ठा ॥ तदप्येष श्लो॑को भ॒वति ॥ 1.1

2.2 पञ्चकोश-विवरणं T.A.5.14.6

अन्ना॒द्वै प्र॒जाः प्र॒जाय॑न्ते । याः काश्च॑ पृथि॒वीᳺ श्रि॒ताः । अथो॒ अन्ने॑नै॒व जी॑वन्ति ।

अथै॑न॒दपि॑यन्त्यन्त॒तः । अन्न॒ꣳ॒ हि भू॒तानां॒ ज्येष्ठं᳚ । तस्मा᳚थ् सर्वौष॒ध मु॑च्यते ।

सर्वं॒ ँवै तेऽन्न॑माप्नुवन्ति । येऽन्नं॒ ब्रह्मो॒पास॑ते । अन्न॒ꣳ॒ हि भू॒तानां॒ ज्येष्ठं᳚ । तस्मा᳚थ् सर्वौष॒ध मु॑च्यते । अन्ना᳚द् भू॒तानि॒ जाय॑न्ते । जाता॒न्यन्ने॑न वर्द्धन्ते ।

अद्यतेऽत्ति च॑ भूता॒नि । तस्मादन्नं तदुच्य॑त इ॒ति ॥

तस्माद्वा एतस्मा-दन्न॑रस॒मयात् ।

अन्योऽन्तर आत्मा᳚ प्राण॒ मयः । तेनै॑ष पू॒र्णः ॥

स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑ष वि॒धतां ।

अन्वयं॑ पुरुष॒ विधः । तस्य प्राण॑ एव॒ शिरः ॥

व्यानो दक्षि॑णः प॒क्षः । अपान उत्त॑रः प॒क्षः । आका॑श आ॒त्मा । पृथिवी पुच्छं॑ प्रति॒ष्ठा ॥ तदप्येष श्लो॑को भ॒वति ॥ 2.1

प्रा॒णं दे॒वा अनु॒प्राण॑न्ति । म॒नु॒ष्याः᳚ प॒शव॑श्च॒ ये । प्रा॒णो हि भू॒ताना॒मायुः॑ । तस्मा᳚थ् सर्वायु॒ष मु॑च्यते । सर्व॑मे॒व त॒ आयु॑र्यन्ति ।

ये प्रा॒णं ब्रह्मो॒पास॑ते । प्राणो हि भूता॑नामा॒युः । तस्माथ् सर्वायुष-मुच्य॑त इ॒ति ॥ तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य ॥ तस्माद्वा एतस्मा᳚त् प्राण॒मयात् । अन्योऽन्तर आत्मा॑ मनो॒मयः । तेनै॑ष पू॒र्णः ॥

स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धतां ।

अन्वयं॑ पुरुष॒विधः । तस्य यजु॑रेव॒ शिरः । ऋग् दक्षि॑णः प॒क्षः । सामोत्त॑रः प॒क्षः ।

आदे॑श आ॒त्मा । अथर्वाङ्गिरसः पुच्छं॑ प्रति॒ष्ठा ॥

तदप्येष श्लो॑को भ॒वति ॥ 3.1

यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा᳚प्य॒ मन॑सा स॒ह । आनन्दं ब्रह्म॑णो वि॒द्वान् । न बिभेति कदा॑चने॒ति ॥

तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य ॥

तस्माद्वा एतस्मा᳚न् मनो॒मयात् । अन्योऽन्तर आत्मा वि॑ज्ञ्आन॒मयः । तेनै॑ष पू॒र्णः ॥ स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑ष वि॒धतां ।

अन्वयं॑ पुरुष॒ विधः । तस्य श्र॑द्धैव॒ शिरः । ऋतं दक्षि॑णः प॒क्षः ।

सत्यमुत्त॑रः प॒क्षः । यो॑ग आ॒त्मा ।

महः पुच्छं॑ प्रति॒ष्ठा ॥ तदप्येष श्लो॑को भ॒वति ॥ 4.1

वि॒ज्ञ्आनं॑ ँय॒ज्ञ्अं त॑नुते । कर्मा॑णि तनु॒तेऽपि॑ च । वि॒ज्ञ्आनं॑ दे॒वाः सर्वे᳚ । ब्रह्म॒ ज्येष्ठ॒-मुपा॑सते । वि॒ज्ञ्आनं॒ ब्रह्म॒ चेद् वेद॑ । तस्मा॒च्चेन्न प्र॒माद्य॑ति । श॒रीरे॑ पाप्म॑नो हि॒त्वा । सर्वान्-कामान्थ्-समश्नु॑त इ॒ति ॥ तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य ॥ तस्माद्वा एतस्माद्-वि॑ज्ञ्आन॒मयात् । अन्योऽन्तर आत्मा॑ऽऽनन्द॒मयः । तेनै॑ष पू॒र्णः ॥ स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धतां ।

अन्वयं॑ पुरुष॒विधः । तस्य प्रिय॑-मेव॒ शिरः । मोदो दक्षि॑णः प॒क्षः । प्रमोद उत्त॑रः प॒क्षः । आन॑न्द आ॒त्मा । ब्रह्म पुच्छं॑ प्रति॒ष्ठा ॥

तदप्येष श्लो॑को भ॒वति ॥ 5.1

अस॑न्ने॒व स॑ भवति । अस॒द् ब्रह्मेति॒ वेद॒ चेत् ।

अस्ति ब्रह्मेति॑ चेद् वे॒द । सन्तमेनं ततो वि॑दुरि॒ति ॥

तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य ॥ अथातो॑ऽनु प्र॒श्नाः ॥ उ॒ता वि॒द्वा न॒मुं ँलो॒कं प्रेत्य॑ । कश्च॒न ग॑च्छ॒ती(3) । आहो॑ वि॒द्वान॒मुं ँलो॒कं प्रेत्य॑ । कश्चि॒त् सम॑श्नु॒ता(3) उ॒ ॥ सो॑ऽकामयत ।

ब॒हुस्यां॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत ।

स तप॑स्त॒प्त्वा । इ॒दꣳ सर्व॑-मसृजत ॥ यदि॒दं किञ्च॑ । तथ्सृ॒ष्ट्वा । तदे॒वानु॒ प्रावि॑शत् ॥ तद॑नुप्र॒विश्य॑ । सच्च॒ त्यच्चा॑भवत् ।

नि॒रुक्तं॒ चा नि॑रुक्तं च । नि॒लय॑नं॒ चा नि॑लयनं च । वि॒ज्ञ्आनं॒ चा वि॑ज्ञ्आनं च । सत्यं चानृतं च स॑त्य-म॒भवत् ॥ यदि॑दं कि॒ञ्च । तथ्सत्य-मि॑त्या च॒क्षते ॥ तदप्येष श्लो॑को भ॒वति ॥ 6.1

2.3 अभयप्रतिष्ठा T.A.5.14.7

अस॒द्वा इ॒दमग्र॑ आसीत् । ततो॒ वै सद॑जायत ।

तदात्मानᳺ स्वय॑-मकु॒रुत । तस्मात् तथ् सुकृतमुच्य॑त इ॒ति ॥ यद्वै॑ तथ् सु॒कृतं । र॑सो वै॒ सः । रसᳺ ह्येवायं ँलब्ध्वाऽऽन॑न्दी भ॒वति ॥

को ह्येवान्या᳚त् कः प्रा॒ण्यात् । यदेष आकाश आन॑न्दो न॒ स्यात् । एष ह्येवान॑न्दया॒ति ॥

य॒दा ह्ये॑वैष॒ एतस्मिन्-नदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयने ऽभयं प्रति॑ष्ठां ँवि॒न्दते ।

अथ सोऽभयं ग॑तो भ॒वति ॥ य॒दा ह्ये॑वैष॒ एतस्मिन्-नुदर-मन्त॑रं कु॒रुते । अथ तस्य भ॑यं भ॒वति ॥

तत्त्वेव भयं ँविदुषो-ऽम॑न्वान॒स्य ॥ तदप्येष श्लो॑को भ॒वति ॥ 7.1

2.4 ब्रह्मानन्दमीमांसा T.A.5.14.9

भी॒षाऽस्मा॒-द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ ।

भीषाऽस्मा-दग्नि॑-श्चेन्द्र॒श्च । मृत्युर् धावति पञ्च॑म इ॒ति ॥ सैषाऽऽनन्दस्य मीमाꣳ॑सा भ॒वति ॥ युवा स्याथ् साधु यु॑वाऽद्ध्या॒यकः । आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात् ।

स एको मानुष॑ आन॒न्दः ॥ ते ये शतं मानुषा॑ आन॒न्दाः । 8.1

स एको मनुष्य-गन्धर्वाणा॑-मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥ ते ये शतं मनुष्य-गन्धर्वाणा॑-मान॒न्दाः । स एको देव-गन्धर्वाणा॑-मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥ ते ये शतं देव-गन्धर्वाणा॑-मान॒न्दाः । स एकः पितृणां चिरलोक-लोकाना॑-मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥

ते ये शतं पितृणां चिरलोक-लोकाना॑-मान॒न्दाः ।

स एक आजानजानां देवाना॑-मान॒न्दः । 8.2

श्रोत्रियस्य चाकाम॑हत॒स्य ॥

ते ये शत-माजान-जानां देवाना॑ मान॒न्दाः ।

स एकः कर्म-देवानां देवाना॑-मान॒न्दः ।

ये कर्मणा देवान॑पि य॒न्ति । श्रोत्रियस्य चाकाम॑हत॒स्य ॥ ते ये शतं कर्मदेवानां देवाना॑-मान॒न्दाः । स एको देवाना॑-मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥ ते ये शतं देवाना॑-मान॒न्दाः । स एक इन्द्र॑स्यान॒न्दः । 8.3

श्रोत्रियस्य चाकाम॑हत॒स्य ॥ ते ये शतमिन्द्र॑-स्याऽऽन॒न्दाः । स एको बृहस्पते॑-रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥ ते ये शतं बृहस्पते॑ रान॒न्दाः । स एकः प्रजापते॑-रान॒न्दः ।

श्रोत्रियस्य चाकाम॑हत॒स्य ॥ ते ये शतं प्रजापते॑-रान॒न्दाः । स एको ब्रह्मण॑ आन॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥ 8.4

स यश्चा॑यं पु॒रुषे । यश्चासा॑-वादि॒त्ये । स एकः॑ ॥

स य॑ एवं॒ ँवित् । अस्माल्लो॑कात् प्रे॒त्य । एतमन्नमय-मात्मान-मुप॑सङ्क्रा॒मति । एतं प्राणमय-मात्मान-मुप॑सङ्क्रा॒मति । एतं मनोमय-मात्मान-मुप॑सङ्क्रा॒मति । एतं ँविज्ञ्आनमय-मात्मान-मुप॑सङ्क्रा॒मति ।

एतमानन्दमय-मात्मान-मुप॑सङ्क्रा॒मति ॥

तदप्येष श्लो॑को भ॒वति ॥ 8.5

यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा᳚प्य॒ मन॑सा स॒ह । आनन्दं ब्रह्म॑णो वि॒द्वान् । न बिभेति कुत॑श्चने॒ति ॥ एतꣳ ह वा व॑ न त॒पति । किमहꣳ साधु॑ नाक॒रवं । किमहं पाप-मकर॑व-मि॒ति ॥

स य एवं ँविद्वानेते आत्मा॑नᳺ स्पृ॒णुते ॥

उ॒भे ह्ये॑वैष॒ एते आत्मा॑नᳺ स्पृ॒णुते ।

य ए॒वं ँवेद॑ ॥ इत्यु॑प॒निष॑त् ॥ 9.1

स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

श्पेचिअल् खोर्वै

(ब्र॒ह्म॒विदिदमयमिदमेक॑विꣳशतिः ।

अन्ना॒ दन्न॑रस॒मयात् प्राणो॒ व्यानोऽपान आका॑शः॒ पृथिवी पुच्छ॒ꣳ॒ षड्विꣳ॑शतिः ।

प्रा॒णम् प्रा॑ण॒मयान् म॑नो॒ यजु॒र्.॒ ऋख् सामादे॒शोऽथर्वाङ्गिरसः पुच्छ॒म् द्वाविꣳ॑शतिः ।

यतः॑ श्र॒द्धर्तꣳ सत्यम् ँयो॑गो॒ महो॑ऽष्टाद॑श । वि॒ज्ञ्आन॒म् प्रिय॒म् मोदः प्रमोद आन॑न्दो॒ ब्रह्म पुच्छ॒म् द्वाविꣳ॑शतिः ।

अस॑न्ने॒वाथाष्टावि ꣳ॑शतिः । अस॒थ् षोड॑श ।

भी॒षाऽस्मा॒न् मानुषो॒ मनुष्यगन्धर्वाणा॒म् देवगन्धर्वाणा॒म् पितृणाम्‌चिरलोकलोकाना॒ माजानजानाम् कर्मदेवानाम् ँये कर्मणा देवाना॒मिन्द्र॑स्य॒ बृहस्पतेः॒ प्रजापते॒र् ब्रह्मणः॒ स यश्व॑ संक्रा॒मत्येक॑पञ्चा॒शत् ।

यतः॒ कुत॑श्च॒ नैतमेका॑दश॒ नव॑) (A14)

॥ इति ब्रह्मानन्दवल्ली समाप्ता ॥

=================================

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

3. भृगु वल्ली

स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥

ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

3.1 ब्रह्मजिज्ञ्आसा T.A.5.15.1

भृगु॒र्वै वा॑रु॒णिः । वरु॑णं॒ पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ ॥ तस्मा॑ ए॒तत् प्रो॑वाच । अन्नं॑ प्रा॒णं चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒मिति॑ ॥

तꣳ हो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते ।

येन॒ जाता॑नि॒ जीव॑न्ति । यत् प्रय॑न्त्य॒भि सम् ँवि॑शन्ति ।

तद् विजि॑ज्ञ्आसस्व । तद् ब्रह्मेति॑ ॥

स तपो॑ऽतप्यत । स तप॑-स्त॒प्त्वा ॥ 1.1

3.2 पञ्चकोशान्तः स्थित-ब्रह्मनिरूपणम् T.A.5.15.6

भृगु॒र्वै वा॑रु॒णिः । वरु॑णं॒ पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ ॥ तस्मा॑ ए॒तत् प्रो॑वाच ।

अन्नं॑ प्रा॒णं चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒मिति॑ ॥

तꣳ हो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते ।

येन॒ जाता॑नि॒ जीव॑न्ति । यत् प्रय॑न्त्य॒भि सम् ँवि॑शन्ति ।

तद् विजि॑ज्ञ्आसस्व । तद् ब्रह्मेति॑ ॥

स तपो॑ऽतप्यत । स तप॑-स्त॒प्त्वा ॥ 2.1

प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात् ।

प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति ।

प्रा॒णं प्रय॑न्त्य॒भि-सम् ँवि॑श॒न्तीति॑ ॥ तद् वि॒ज्ञ्आय॑ ।

पुन॑रे॒व वरु॑णं॒ पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञ्आसस्व । तपो॒ ब्रह्मेति॑ ।

स तपो॑ऽतप्यत । स तप॑-स्त॒प्त्वा ॥ 3.1

मनो॒ ब्रह्मेति॒ व्य॑जानात् । मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । मन॑सा॒ जाता॑नि॒ जीव॑न्ति । मनः॒ प्रय॑न्त्य॒भि-सम् ँवि॑श॒न्तीति॑ ॥ तद् वि॒ज्ञ्आय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञ्आसस्व ।

तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑-स्त॒प्त्वा ॥ 4.1

वि॒ज्ञ्आनं॒ ब्रह्मेति॒ व्य॑जानात् ।

वि॒ज्ञ्आना॒-द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।

वि॒ज्ञ्आने॑न॒ जाता॑नि॒ जीव॑न्ति । वि॒ज्ञ्आनं॒ प्रय॑न्त्य॒भि-सम् ँवि॑श॒न्तीति॑ ॥ तद् वि॒ज्ञ्आय॑ । पुन॑रे॒व वरु॑णं॒ पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञ्आसस्व ।

तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑-स्त॒प्त्वा ॥ 5.1

आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् ।

आ॒नन्दा॒-द्ध्ये॑व-खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।

आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति । आ॒न॒न्दं प्रय॑न्त्य॒भि-सम् ँवि॑श॒न्तीति॑ ॥ सैषा भा᳚र्ग॒वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्यो॑म॒न् प्रति॑ष्ठिता ॥ य ए॒वं ँवेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति ।

म॒हान् भ॑वति प्र॒जया॑ प॒शुभि॑र् ब्रह्मवर्च॒सेन॑ ।

म॒हान् की॒र्त्या ॥ 6.1

3.3 अन्नब्रह्मोपासनम् T.A.5.15.9

अन्नं॒ न नि॑न्द्यात् । तद् व्र॒तं ॥ प्रा॒णो वा अन्नं᳚ । शरी॑रमन्ना॒दं । प्रा॒णे शरी॑रं॒ प्रति॑ष्ठितं । शरी॑रे प्रा॒णः प्रति॑ष्ठितः ।

तदे॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितं ॥

स य ए॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितं॒ ँवेद॒ प्रति॑तिष्ठति । अन्न॑वा-नन्ना॒दो भ॑वति ।

म॒हान् भ॑वति प्र॒जया॑ प॒शुभि॑र्-ब्रह्मवर्च॒सेन॑ ।

म॒हान् की॒र्त्या ॥ 7.1

अन्नं॒ न परि॑चक्षीत । तद् व्र॒तं । आपो॒ वा अन्नं᳚ । ज्योति॑रन्ना॒दं । अ॒फ्सु ज्योतिः॒ प्रति॑ष्ठितं । ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः ।

तदे॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितं ॥

स य ए॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितं॒ ँवेद॒ प्रति॑तिष्ठति । अन्न॑वा-नन्ना॒दो भ॑वति ।

म॒हान् भ॑वति प्र॒जया॑ प॒शुभि॑र् ब्रह्मवर्च॒सेन॑ ।

म॒हान् कीर्त्या ॥ 8.1

अन्नं॑ ब॒हु कु॑र्वीत । तद् व्र॒तं ॥ पृ॒थि॒वी वा अन्नं᳚ । आ॒का॒शो᳚ऽन्ना॒दः । पृ॒थि॒व्या-मा॑का॒शः प्रति॑ष्ठितः । आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता ।

तदे॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितं ॥

स य ए॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितं॒ ँवेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान् भ॑वति प्र॒जया॑ प॒शुभि॑र् ब्रह्मवर्च॒सेन॑ ।

म॒हान् की॒र्त्या ॥ 9.1

3.4 सदाचारप्रदर्.शनम् । ब्रह्मानन्दानुभवः T.A.5.15.10

न कञ्चन वसतौ प्रत्या॑चक्षी॒त । तद् व्र॒तं ॥

तस्माद्यया कया च विधया बह्व॑न्नं प्रा॒प्नुयात् ॥

अराद्ध्यस्मा अन्नमि॑त्याच॒क्षते ॥

एतद्वै मुखतो᳚ऽन्नꣳ रा॒द्धं ।

मुखतोऽस्मा अ॑न्नꣳ रा॒द्ध्यते ।

एतद्वै मद्ध्यतो᳚ऽन्नꣳ रा॒द्धं ।

मद्ध्यतोऽस्मा अ॑न्नꣳ रा॒द्ध्यते ।

एदद्वा अन्ततो᳚ऽन्नꣳ रा॒द्धं ।

अन्ततोऽस्मा अ॑न्नꣳ रा॒द्ध्यते । 10.1

य ए॑वं ँवे॒द ॥ क्षेम इ॑ति वा॒चि । योगक्षेम इति प्रा॑णापा॒नयोः । कर्मे॑ति ह॒स्तयोः । गति-रि॑ति पा॒दयोः । विमुक्ति-रि॑ति पा॒यौ । इति मानुषीः᳚ समा॒ज्ञ्आः ॥ अथ दै॒वीः । तृप्ति-रि॑ति वृ॒ष्टौ । बल-मि॑ति वि॒द्युति । 10.2

यश इ॑ति प॒शुषु । ज्योतिरिति न॑क्षत्रे॒षु ।

प्रजाति-रमृत-मानन्द इ॑त्युप॒स्थे । सर्व मि॑त्याका॒शे ॥

तत् प्रतिष्ठे-त्यु॑पासी॒त । प्रतिष्ठा॑वान् भ॒वति । तन्मह इत्यु॑पासी॒त । म॑हान् भ॒वति । तन्मन इत्यु॑पासी॒त । मान॑वान् भ॒वति । 10.3

तन्नम इत्यु॑पासी॒त । नम्यन्ते᳚ऽस्मै का॒माः । तद्ब्रह्मे-त्यु॑पासी॒त । ब्रह्म॑वान् भ॒वति । तद् ब्रह्मणः परिमर इत्यु॑पासी॒त । पर्येणं म्रियन्ते द्विषन्तः॑ सप॒त्नाः । परि ये᳚ऽप्रिया᳚ भ्रातृ॒व्याः ॥ स यश्चा॑यं पु॒रुषे । यश्चासा॑-वादि॒त्ये । स एकः॑ । 10.4

स य॑ एवं॒ ँवित् । अस्माल्-लो॑कात् प्रे॒त्य ।

एतमन्नमय-मात्मान-मुप॑सङ्क्र॒म्य ।

एतं प्राणमय-मात्मान-मुप॑सङ्क्र॒म्य ।

एतं मनोमय-मात्मान-मुप॑सङ्क्र॒म्य ।

एतं ँविज्ञ्आनमय-मात्मान-मुप॑सङ्क्र॒म्य ।

एत मानन्दमय मात्मान मुप॑सङ्क्र॒म्य ।

इमान् ँलोकान् कामान्नी काम-रूप्य॑नुस॒ञ्चरन् ।

एतथ् साम गा॑यन्ना॒स्ते ॥ हा(3) वु॒ हा(3) वु॒ हा(3) वु॑ । 10.5

अ॒ह-मन्न-म॒ह-मन्न-म॒हमन्नं ।

अ॒हमन्ना॒दो(2)ऽहमन्ना॒दो(2) ऽहमन्ना॒दः ।

अ॒हᳺ श्लोक॒कृ-द॒हᳺ श्लोक॒कृ-द॒हᳺ श्लोक॒कृत् । अ॒हमस्मि प्रथमजा ऋता(3) स्य॒ ।

पूर्वं देवेभ्यो अमृतस्य ना(3) भा॒ इ॒ ।

यो मा ददाति स इदेव मा(3)वाः॒ ।

अ॒ह-मन्न॒-मन्न॑-म॒दन्त॒-मा(3) द्मि॒ ।

अ॒हं ँविश्वं॒ भुव॑न॒-मभ्य॑भ॒वां । सुव॒र्न ज्योतीः᳚ ॥ य ए॒वं ँवेद॑ ॥ इत्यु॑प॒निष॑त् ॥ 10.6

स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥

ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

(भृगु॒स्त्रयो॑द॒शा - न्न॑म् - प्रा॒णो - मनो॑ - वि॒ज्ञ्आन॒म् द्वाद॑श द्वादशा - न॒न्दो दशा - न्न॒म् न नि॑न्द्या॒ - दन्न॒म् न परि॑चक्षी॒ता -/न्न॑म् ब॒हुकु॑र्वि॒ तैका॑दशैकादश॒ - न कंच नैक॑षष्टि॒र्दश॑ ) (A15)

॥ इति भृगुवल्ली समाप्ता ॥

Prapaataka Korvai with starting Padams of 1 to 15 Anuvaakams :-

(शम् नः॒ - शीक्षाꣳ - स॒ह नौ॒ - यः छन्द॑सा॒म् - भूः - स यः - पृ॑थि॒ - व्योमि - त्यृतम् चा॒ - हम् - ँवेदमनुच्य - शम् नः॑ - स॒ह ना॑ववतु - ब्रह्म॒विद् - भृगुः॒ पञ्च॑दश)

Korvai with starting Padams of 1, 11, 21 Series of Dasinis :-

(शम् नो॒ - मह॒ इत्या॑दि॒त्यो - नो इ॑तरा॒ण्य - स॑न्ने॒वा - न्न॒म् न नि॑न्द्या॒च्चतु॑श्चत्वारिꣳशत् )

First and Last Padam in TA, 5th Prapaatakam :-

(शन्न॒ - इत्यु॑प॒निष॑त् )

===========================

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

4. महा नारायणोपनिषत्

स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

4.1 अम्भस्यपारे T.A.6.1.5

अंभ॑स्य पा॒रे भुव॑नस्य॒ मद्ध्ये॒ नाक॑स्य पृ॒ष्ठे म॑ह॒तो मही॑यान् । शु॒क्रेण॒ ज्योतीꣳ॑षि समनु॒प्रवि॑ष्टः प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः ॥ 1.1

यस्मि॑न्नि॒दꣳ सञ्च॒ विचैति॒ सर्वं॒ ँयस्मि॑न् दे॒वा अधि॒ विश्वे॑ निषे॒दुः ।

तदे॒व भू॒॒तं तदु॒ भव्य॑मा इ॒दं तद॒क्षरे॑ पर॒मे व्यो॑मन्न् ॥ 1.2

येना॑ वृ॒तं खञ्च॒ दिवं॑ म॒हीञ्च॒ येना॑दि॒त्य-स्तप॑ति॒ तेज॑सा॒ भ्राज॑सा च । यम॒न्तः स॑मु॒द्रे क॒वयो॒ वय॑न्ति॒ यद॒क्षरे॑ पर॒मे प्र॒जाः ॥ 1.3

यतः॑ प्रसू॒ता ज॒गतः॑ प्रसूती॒ तोये॑न जी॒वान् व्यच॑सर्ज॒ (व्यस॑सर्ज॒) भूम्यां᳚ ।

यदोष॑धीभिः पु॒रुषा᳚न् प॒शूᳺश्च॒ विवे॑श भू॒तानि॑ चराच॒राणि॑ ॥ 1.4

अतः॑ परं॒ नान्य॒-दणी॑यसहि॒ परा᳚त् परं॒ ँयन् मह॑तो म॒हान्तं᳚ । यदे॑क-म॒व्यक्त॒-मन॑न्तरूपं॒ ँविश्वं॑ पुरा॒णं तम॑सः॒ पर॑स्तात् ॥ 1.5

तदे॒वर्त्तं तदु॑ स॒त्यमा॑हु॒-स्तदे॒व ब्रह्म॑ पर॒मं क॑वी॒नां । इ॒ष्टा॒पू॒र्त्तं ब॑हु॒धा जा॒तं जाय॑मानं ँवि॒श्वं बि॑भर्त्ति॒ भुव॑नस्य॒ नाभिः॑ ॥ 1.6

तदे॒वाग्नि-स्तद्वा॒यु-स्तथ्सूर्य॒स्तदु॑ च॒न्द्रमाः᳚ ।

तदे॒व शु॒क्रम॒मृतं॒ तद्ब्रह्म॒ तदापः॒ स प्र॒जाप॑तिः ॥ 1.7

सर्वे॑ निमे॒षा ज॒ज्ञ्इरे॑ वि॒द्युतः॒ पुरु॑षा॒दधि॑ ।

क॒ला मु॑हू॒र्त्ताः काष्ठा᳚श्चाहो-रा॒त्राश्च॑ सर्व॒शः ॥ 1.8

अ॒द्‌र्ध॒मा॒सा मासा॑ ऋ॒तवः॑ सम् ँवथ्स॒रश्च॑ कल्पन्तां । स आपः॑ प्रदु॒घे उ॒भे इ॒मे अ॒न्तरि॑क्ष॒-मथो॒ सुवः॑ ॥ 1.9

नैन॑-मू॒द्‌र्ध्वं न ति॒र्यं च॒ न मद्ध्ये॒ परि॑जग्रभत् । न तस्ये॑शे॒ कश्च॒न तस्य॑ नाम म॒हद्यशः॑ ॥ 1.10

न स॒दृंशे॑ तिष्ठति॒ रूप॑मस्य॒ न चक्षु॑षा पश्यति॒ कश्च॒नैनं᳚ ।

हृ॒दा म॑नी॒षा मन॑सा॒ऽभि क्लृ॑प्तो॒ य ए॑नं ँवि॒दु-रमृ॑ता॒स्ते भ॑वन्ति ॥ 1.11

Expansion of अ॒द्भ्यः संभू॑तः (Appearing in T.A.3.13.1)

अ॒द्भ्यः संभू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त्त॒ताधि॑ ।

तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति ॥ तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ ॥ 1

वेदा॒हमे॒तं पुरु॑षं म॒हान्तं᳚ । आ॒दि॒त्य व॑र्णं॒ तम॑सः॒ पर॑स्तात् ।

तमे॒वं ँवि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेऽय॑नाय ॥ 2

प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते ।

तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिं᳚ । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ ॥ 3

यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां᳚ पु॒रोहि॑तः ।

पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये ॥ 4

रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑बृवन् ।

यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न्. वशे᳚ ॥ 5

ह्रीश्च॑ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ । अ॒हो॒रा॒त्रे पा॒र्श्वे । नक्ष॑त्राणि रू॒पं ।

अ॒श्विनौ॒ व्यात्तं᳚ । इ॒ष्टं म॑निषाण । अ॒मुं म॑निषाण । सर्वं॑ मनिषाण ॥ 6

Ref: TA 3.13.1 to TA 3.13.2

Expansion of हिरण्यगर्भः इत्यष्टौ

हि॒र॒ण्य॒ग॒र्भः सम॑वर्त्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ 1

यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒-श्चतु॑ष्प॒दः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ 2

य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उपा॒स॑ते प्र॒शिषं॒ ँयस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ ँयस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ 3

‘यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रꣳ र॒सया॑ स॒हाऽऽहुः । यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ 4

यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने । यत्राधि॒सूर॒ उदि॑तौ॒ व्येति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ 5

येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ढे येन॒ सुव॑स् स्तभि॒तं ँयेन॒ नाकः॑ । यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ 6

आपो॑ ह॒ यन्म॑ह॒ती विश्व॒माय॒न्-दक्ष॒न्दधा॑ना ज॒नय॑न्ती-र॒ग्निं । ततो॑ दे॒वाना॒-न्निर॑वर्त्त॒ता-सु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ 7

यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्-द्क्ष॒न्दधा॑ना ज॒नय॑न्ती-र॒ग्निं । यो दे॒वेष्वधि॑ दे॒व येक॒ आसी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ 8

Ref - T.S.4.1.8.3 to 4.1.8.6

अ॒द्भ्यः संभू॑तो हिरण्यग॒र्भ इत्य॒ष्टौ ॥

ए॒ष हि दे॒वः प्र॒दिशोऽनु॒ सर्वाः॒ पूर्वो॑ हि जा॒तः स उ॒ गर्भे॑ अ॒न्तः । स वि॒जाय॑मानः सजनि॒ष्यमा॑णः प्र॒त्यङ्-मुखा᳚ स्तिष्ठति वि॒श्वतो॑मुखः ॥ 1.12

वि॒श्वत॑श्च-क्षुरु॒त वि॒श्वतो॑ मुखो वि॒श्वतो॑ हस्त उ॒त वि॒श्वत॑स्पात् ।

सं बा॒हुभ्यां॒ नम॑ति॒ सं पत॑त्रै॒र्-द्यावा॑ पृथि॒वी ज॒नय॑न् दे॒व एकः॑ ॥ 1.13

वे॒नस्तत् पश्य॒न्. विश्वा॒ भुव॑नानि वि॒द्वान्. यत्र॒ विश्वं॒ भव॒त्येक॑-नीळं । यस्मि॑न्नि॒दꣳ सञ्च॒ विचैक॒ꣳ॒ स ओतः॒ प्रोत॑श्च वि॒भुः प्र॒जासु॑ ॥ 1.14

प्रतद्वो॑चे अ॒मृत॒न्नु वि॒द्वान् ग॑न्ध॒र्वो नाम॒ निहि॑तं॒ गुहा॑सु ।

त्रीणि॑ प॒दा निहि॑ता॒ गुहा॑सु॒ यस्तद्वेद॑ सवि॒तुः पि॒ताऽस॑त् ॥ 1.15

स नो॒ बन्धु॑र्-जनि॒ता स वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा᳚ । यत्र॑ दे॒वा अ॒मृत॑मान-शा॒नास्तृ॒तीये॒ धामा᳚न्य॒-भ्यैर॑यन्त ॥ 1.16

परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः परि॑ लो॒कान् परि॒ दिशः॒ परि॒ सुवः॑ । ऋ॒तस्य॒ तन्तुं॑ ँविततं ँवि॒चृत्य॒ तद॑पश्य॒त् तद॑भवत् प्र॒जासु॑ ॥ 1.17

प॒रीत्य॑ लो॒कान् प॒रीत्य॑ भू॒तानि॑ प॒रीत्य॒ सर्वाः᳚ प्र॒दिशो॒ दिश॑श्च । प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्या॒त्मना॒-ऽऽत्मान॑-म॒भि-संब॑भूव ॥ 1.18

सद॑स॒स्पति॒-मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्यं᳚ । सनिं॑ मे॒धा म॑यासिषं ॥ 1.19

उद्दी᳚प्यस्व जातवेदो ऽप॒घ्नन्निर्.ऋ॑तिं॒ मम॑ ।

प॒शूᳺश्च॒ मह्य॒माव॑ह॒ जीव॑नञ्च॒ दिशो॑ दिश ॥ 1.20

मानो॑ हिꣳसी ज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त् ।

अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय ॥ 1.21

4.2 गायत्री मन्त्राः T.A.6.1.7

पुरु॑षस्य विद्म सहस्रा॒क्षस्य॑ महादे॒वस्य॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ 1.22

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।

तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ 1.23

तत्पुरु॑षाय वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि ।

तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥ 1.24

तत्पुरु॑षाय वि॒द्महे॑ चक्रतु॒ण्डाय॑ धीमहि ।

तन्नो॑ नन्दिः प्रचो॒दया᳚त् ॥ 1.25

तत्पुरु॑षाय वि॒द्महे॑ महासे॒नाय॑ धीमहि ।

तन्नः॑ षण्मुखः प्रचो॒दया᳚त् ॥ 1.26

तत्पुरु॑षाय वि॒द्महे॑ सुवर्णप॒क्षाय॑ धीमहि ।

तन्नो॑ गरुडः प्रचो॒दया᳚त् ॥ 1.27

वे॒दा॒त्म॒नाय॑ वि॒द्महे॑ हिरण्यग॒र्भाय॑ धीमहि ।

तन्नो᳚ ब्रह्म प्रचो॒दया᳚त् ॥ 1.28

ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।

तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥ 1.29

व॒ज्र॒न॒खाय॑ वि॒द्महे॑ तीक्ष्ण-द॒ᳺ॒ष्ट्राय॑ धीमहि ।

तन्नो॑ नारसिꣳहः प्रचो॒दया᳚त् ॥ 1.30

भा॒स्क॒राय॑ वि॒द्महे॑ महद्द्युतिक॒राय॑ धीमहि ।

तन्नो॑ आदित्यः प्रचो॒दया᳚त् ॥ 1.31

वै॒श्वा॒न॒राय॑ वि॒द्महे॑ लाली॒लाय॑ धीमहि ।

तन्नो॑ अग्निः प्रचो॒दया᳚त् ॥ 1.32

का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि ।

तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ॥ 1.33

4.3 दूर्वा सूक्तं T.A.6.1.8

स॒ह॒स्र॒पर॑मा दे॒वी॒ श॒तमू॑ला श॒ताङ्कु॑रा ।

सर्वꣳ॑ हरतु॑ मे पा॒पं॒ दू॒र्वा दुः॑स्वप्न॒ नाश॑नी ॥ 1.34

काण्डा᳚त् काण्डात् प्र॒रोह॑न्ती॒ परु॑षः परुषः॒ परि॑ ।

ए॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च ॥ 1.35

या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि ।

तस्या᳚स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यं ॥ 1.36

अश्व॑क्रा॒न्ते र॑थक्रा॒न्ते॒ वि॒ष्णुक्रा᳚न्ते व॒सुन्ध॑रा ।

शिरसा॑ धार॑यिष्या॒मि॒ र॒क्ष॒स्व मां᳚ पदे॒ पदे ॥ 1.37

4.4 मृत्तिका सूक्तं T.A.6.1.9

भूमिर्-धेनुर् धरणी लो॑कधा॒रिणी ।

उ॒धृता॑ऽसि व॑राहे॒ण॒ कृ॒ष्णे॒न श॑त बा॒हुना ॥

मृ॒त्तिके॑ हन॑ मे पा॒पं॒ ँय॒न्म॒या दु॑ष्कृतं॒ कृतं । 1.38

मृ॒त्तिके᳚ ब्रह्म॑दत्ता॒ऽसि॒ का॒श्यपे॑नाभि॒मन्त्रि॑ता ।

मृ॒त्तिके॑ देहि॑ मे पु॒ष्टिं॒ त्व॒यि स॑र्वं प्र॒तिष्ठि॑तं ॥ 1.39

मृ॒त्तिके᳚ प्रतिष्ठि॑ते स॒र्वं॒ त॒न्मे नि॑र्णुद॒ मृत्ति॑के । तया॑ ह॒तेन॑ पापे॒न॒ ग॒च्छा॒मि प॑रमां॒ गतिं ॥ 1.40

4.5 शतृजय मन्त्राः T.A.6.1.12

यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि ।

मघ॑वन् छ॒ग्धि तव॒ तन्न॑ ऊ॒तये॒ विद्विषो॒ विमृधो॑ जहि ॥ 1.41

स्व॒स्ति॒दा वि॒शस्पति॑र्-वृत्र॒हा विमृधो॑ व॒शी ।

वृषेन्द्रः॑ पु॒र ए॑तु नः स्वस्ति॒दा अ॑भयङ्क॒रः ॥ 1.42

स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र् दधातु ॥ 1.43

आपा᳚न्त-मन्युस्तृ॒पल॑प्रभर्मा॒ धुनिः॒ शिमी॑वा॒ञ्-छरु॑माꣳ ऋजी॒षी । सोमो॒ विश्वा᳚न्यत॒सा वना॑नि॒ नार्वागिन्द्रं॑ प्रति॒माना॑नि देभुः ॥ 1.44

ब्रह्म॑ जज्ञ्आ॒नं प्र॑थ॒मं पु॒रस्ता॒द्-विसी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒-मस॑तश्च॒ विवः॑ ॥ 1.45

स्यो॒ना पृ॑थिवि॒ भवा॑ नृक्ष॒रा नि॒वेश॑नी ।

यच्छा॑ नः॒ शर्म॑ स॒प्रथाः᳚ ॥ 1.46

ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणीं᳚ । ई॒श्वरीꣳ॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियं ॥ 1.47

श्री᳚र्मे भ॒जतु । अलक्ष्मी᳚र्मे न॒श्यतु ।

विष्णु॑मुखा॒ वै दे॒वाः छन्दो॑-भिरि॒मान् ँलो॒का-न॑नपज॒य्य-म॒भ्य॑जयन्न् । 1.48

म॒हाꣳ इन्द्रो॒ वज्र॑बाहुः षोड॒शी शर्म॑ यच्छतु ॥

स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑ पा॒प्मानं॒ ँयो᳚ऽस्मान् द्वेष्टि॑ ॥ 1.49

सो॒मान॒ᳺ॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ ँय औ॑शि॒जं ।

शरी॑रं ँयज्ञ्अशम॒लं कुसी॑दं॒ तस्मि᳚न् थ्सीदतु॒ यो᳚ऽस्मान् द्वेष्टि॑ ॥ 1.50

चर॑णं प॒वित्रं॒ ँवित॑तं पुरा॒णं ँयेन॑ पू॒त-स्तर॑ति दुष्कृ॒तानि॑ । तेन॑ प॒वित्रे॑ण शु॒द्धेन॑ पू॒ता अति॑ पा॒प्मान॒-मरा॑तिं तरेम ॥ 1.51

स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्रहञ्छूर वि॒द्वान् । ज॒हि शत्रू॒ꣳ॒ रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥ 1.52

सु॒मि॒त्रा न॒ आप॒ ओष॑धयः सन्तु दुर्मि॒त्रास्तस्मै॑

भूयासु॒र् या᳚ऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यं द्वि॒ष्मः ॥ 1.53

आपो॒ हिष्ठा म॑यो॒ भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।

म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒-स्तस्य॑ भाजयते॒ ह नः॑ । उ॒श॒ती-रि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।

आपो॑ ज॒नय॑था च नः ॥ 1.54

4.6 अघमर्.षण सूक्तं T.A.6.1.15

हिर॑ण्यशृङ्गं॒ ँवरु॑णं॒ प्रप॑द्ये ती॒र्थं मे॑ देहि॒ याचि॑तः । य॒न्मया॑ भु॒क्त-म॒साधू॑नां पा॒पेभ्य॑श्च प्र॒तिग्र॑हः ॥ 1.55

यन्मे॒ मन॑सा वा॒चा॒ क॒र्म॒णा वा दु॑ष्कृतं॒ कृतं । तन्न॒ इन्द्रो॒ वरु॑णो॒ बृह॒स्पतिः॑ सवि॒ता च॑ पुनन्तु॒ पुनः॑ पुनः ॥ 1.56

नमो॒ऽग्नये᳚-ऽफ्सु॒मते॒ नम॒ इन्द्रा॑य॒ नमो॒ वरु॑णाय॒ नमो वारुण्यै॑ नमो॒ऽद्भ्यः ॥ 1.57

यद॒पां क्रू॒रं ँयद॑मे॒द्ध्यं ँयद॑शा॒न्तं तदप॑गच्छतात् ॥ 1.58

अ॒त्या॒श॒ना-द॑तीपा॒ना॒-द्य॒च्च उ॒ग्रात् प्र॑ति॒ग्रहा᳚त् ।

तन्नो॒ वरु॑णो रा॒जा॒ पा॒णिना᳚ ह्यव॒मर्.श॑तु ॥ 1.59

सो॑ऽहम॑पा॒पो वि॒रजो॒ निर्मु॒क्तो मु॑क्तकि॒ल्बिषः ।

नाक॑स्य पृ॒ष्ठमारु॑ह्य॒ गच्छे॒द् ब्रह्म॑सलो॒कतां ॥ 1.60

यश्चा॒॑फ्सु वरु॑णः॒ स पु॒नात्व॑घमर्.ष॒णः ॥ 1.61

इ॒मं मे॑ गंगे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमꣳ॑ सचता॒ परु॒ष्णिया । अ॒सि॒क्नि॒या म॑रुद्वृधे वि॒तस्त॒या-ऽऽर्जी॑कीये शृणु॒ह्या सु॒षोम॑या ॥ 1.62

ऋ॒तञ्च॑ स॒त्यञ्चा॒-भी᳚द्धा॒ त्तप॒सोऽद्ध्य॑जायत ।

ततो॒ रात्रि॑-रजायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥ 1.63

स॒मु॒द्रा-द॑र्ण॒वा-दधि॑ सम् ँवथ्स॒रो अ॑जायत ।

अ॒हो॒रा॒त्राणि॑ वि॒दध॒द् (मि॒दध॒द्) विश्व॑स्य मिष॒तो व॒शी ॥ 1.64

सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑था पू॒र्व म॑कल्पयत् ।

दिव॑ञ्च पृथि॒वीं चा॒न्तरि॑क्ष॒ मथो॒ सुवः॑ ॥ 1.65

यत् पृ॑थि॒व्याꣳ रज॑स्स्व॒ मान्तरि॑क्षे वि॒रोद॑सी ।

इ॒माᳺ स्तदा॒पो व॑रुणः पु॒नात्व॑घमर्.ष॒णः ॥ 1.66a

पु॒नन्तु॒ वस॑वः पु॒नातु॒ वरु॑णः पु॒नात्व॑घमर्.ष॒णः ।

ए॒ष भू॒तस्य॑ म॒द्ध्ये भुव॑नस्य गो॒प्ता ॥ 1.66ब्

ए॒ष पु॒ण्यकृ॑तां ँलो॒का॒ने॒ष मृ॒त्योर्. हि॑र॒ण्मयं᳚ । द्यावा॑पृथि॒व्योर्. हि॑र॒ण्मय॒ꣳ॒ सᳺश्रि॑त॒ꣳ॒ सुवः॑ ।

स नः॒ सुवः॒ सꣳ शि॑शाधि ॥ 1.66च्

आर्द्रं॒ ज्वल॑ति॒ ज्योति॑-र॒हम॑स्मि । ज्योति॒र्-ज्वल॑ति॒ ब्रह्मा॒हम॑स्मि । यो॑ऽहम॑स्मि॒ ब्रह्मा॒हम॑स्मि । अ॒हम॑स्मि॒ ब्रह्मा॒हम॑स्मि ।

अ॒हमे॒वाहं मां जु॑होमि॒ स्वाहा᳚ ॥ 1.67

अ॒का॒र्य॒-का॒र्य॑व की॒र्णी स्ते॒नो भ्रू॑ण॒हा गु॑रुत॒ल्पगः । वरु॑णो॒-ऽपाम॑घमर्.ष॒ण-स्तस्मा᳚त् पा॒पात् प्रमु॑च्यते ॥ 1.68

र॒जोभूमि॑स्त्व॒माꣳ रोद॑यस्व॒ प्रव॑दन्ति॒ धीराः᳚ ॥ 1.69

आक्रा᳚न्थ्-समु॒द्रः प्र॑थ॒मे विध॑र्म-ञ्ज॒नय॑न् प्र॒जा भुव॑नस्य॒ राजा᳚ ( ) ।

वृषा॑ प॒वित्रे॒ अधि॒सानो॒ अव्ये॑ बृ॒हथ् सोमो॑

वावृधे सुवा॒न इन्दुः॑ ॥ 1.70

(पुर॑स्ता॒द् - यशो॒ - गुहा॑सु॒ - मम॑ - चक्रतु॒ण्डाय॑ धीमहि - तीक्षद॒ᳺ॒ष्ठ्राय॑ धीमहि॒ - परि॑ - प्र॒तिष्ठि॑तं - देभुर् - यच्छतु - दधातना॒- द्भ्यो᳚ - ऽर्ण॒वः - सुवो॒ - राजैकं॑ च) (A1)

श्पेचिअल् खोर्वै

रु॒द्रो॒ रु॒द्रश्च॒ दन्ति॒श्च॒ न॒न्दिः॒ ष॒ण्मु॒ख॒ ए॒व च॑ । ग॒रु॒डो॒ ब्र॒ह्म॒ वि॒ष्णु॒श्च॒ ना॒र॒सि॒ꣳ॒ह॒स्त॒थै॒व च॑ ।

आ॒दि॒त्यो॒ऽग्नि॒श्च॒ दु॒र्गि॒श्च॒ क्र॒मे॒ण॒ द्वाद॒शाम्भ॑सि ।

श्पेचिअल् खोर्वै

म॒ म॒ व॒ च॒ म॒ सु॒ वे॒ ना॒ व॒ भा॒ वै॒ का॒त्या॒य॒नाय॑ ।

4.7 दुर्गा सूक्तं T.A.6.2.1

जा॒तवे॑दसे सुनवाम॒ सोम॑-मरातीय॒तो निद॑हाति॒ वेदः॑ । स नः॑ पर्.ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ॥ 2.1

ताम॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं ँवै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टां᳚ । दु॒र्गां दे॒वीꣳ शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नमः॑ ॥ 2.2

अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्थ् स्व॒स्ति-भि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शम् ँयोः ॥ 2.3

विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिन्धुं॒ न ना॒वा दु॑रि॒ताऽति॑पर्.षि । अग्ने॑ अत्रि॒वन् मन॑सा गृणा॒नो᳚ऽस्माकं॑ बोद्ध्यवि॒ता त॒नूनां᳚ ॥ 2.4

पृ॒त॒ना॒जित॒ꣳ॒ सह॑मान-मु॒ग्रम॒ग्निꣳ हु॑वेम पर॒माथ् स॒धस्था᳚त् । स नः॑ पर्.ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वो अति॑ दुरि॒ताऽत्य॒ग्निः ( ) ॥ 2.5

प्र॒त्नोषि॑-क॒मीड्यो॑ अद्ध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सथ्सि॑ । स्वाञ्चा᳚ग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्य॑ञ्च॒ सौभ॑ग॒माय॑जस्व ॥ 2.6

गोभि॒र्-जुष्ट॑म॒युजो॒ निषि॑क्तं॒ तवे᳚न्द्र विष्णो॒-रनु॒सञ्च॑रेम । नाक॑स्य पृ॒ष्ठम॒भि स॒म् ँवसा॑नो॒ वैष्ण॑वीं ँलो॒क इ॒ह मा॑दयन्तां ॥ 2.7 (दु॒रि॒ताऽत्य॒ग्निश्च॒त्वारि॑ च) (A2)

4.8 व्याहृति होम मन्त्राः T.A.6.5.1

भू-रन्न॑-म॒ग्नये॑ पृथि॒व्यै स्वाहा॒ ,

भुवोऽन्नं॑ ँवा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा॒,

सुव॒रन्न॑-मादि॒त्याय॑ दि॒वे स्वाहा॒ ,

भूर्भुव॒स्सुव॒-रन्नं॑ च॒न्द्रम॑से दि॒ग्भ्यः स्वाहा॒ ,

नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒-रन्न॒मों ॥ 3.1

भू-र॒ग्नये॑ पृथि॒व्यै स्वाहा॒,

भुवो॑ वा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा॒ ,

सुव॑रादि॒त्याय॑ दि॒वे स्वाहा॒ ,

भू-र्भुव॒स्सुव॑-श्च॒न्द्रम॑से दि॒ग्भ्यः स्वाहा॒,

नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒-रग्न॒ ओं ॥ 4.1

भू-र॒ग्नये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा॒ ,

भुवो॑ वा॒यवे॑ चा॒न्तरि॑क्षाय च मह॒ते च॒ स्वाहा॒ ,

सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते च॒ स्वाहा॒ ,

भू-र्भुव॒स्सुव॑-श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा॒,

नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुव॒र् मह॒रों ॥ 5.1

4.9 ज्ञ्आनप्राप्त्यर्था होममन्त्राः T.A.6.7.1

पाहि नो अग्न एन॑से स्वा॒हा । पाहि नो विश्ववेद॑से स्वा॒हा । यज्ञ्अं पाहि विभाव॑सो स्वा॒हा । सर्वं पाहि शतक्र॑तो स्वा॒हा ॥ 6.1

पा॒हि नो॑ अग्न॒ एक॑या । पा॒ह्यु॑त द्वि॒तीय॑या । पा॒ह्यूर्जं॑ तृ॒तीय॑या ।

पा॒हि गी॒र्भि-श्च॑त॒सृभि॑र् वसो॒ स्वाहा᳚ ॥ 7.1

4.10 वेदाविस्मरणाय जपमन्त्राः T.A.6.9.1

यः छन्द॑सा-मृष॒भो वि॒श्वरू॑पः॒ छन्दो᳚भ्यः॒ छन्दाᳺ॑स्या वि॒वेश॑ । सचाꣳ शिक्यः पुरो वाचो॑पनि॒ष-दिन्द्रो᳚ ज्ये॒ष्ठ इ॑न्द्रि॒याय॒ ऋषि॑भ्यो॒

नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुव॒स्सुवः॒ छन्द॒ ओं ॥ 8.1

नमो॒ ब्रह्म॑णे धा॒रणं॑ मे अ॒स्त्व-नि॑राकरणं-धा॒रयि॑ता भूयासं॒ कर्ण॑योः शृ॒तं माच्यो᳚ढ्वं॒ ममा॒मुष्य॒ ओं ॥ 9.1

4.11 तपः प्रशंसा T.A.6.10.1

ऋ॒तं तपः॑ स॒त्यं तपः॑ शृ॒तं तपः॑ शा॒न्तं तपो॒ दम॒ स्तपः॒ शम॒स्तपो॒ दानं॒ तपो॒ यज्ञ्अं॒ तपो॒ भूर्भुव॒स्सुव॒र्-ब्रह्मै॒-तदुपा᳚स्यै॒-तत्तपः॑ ॥ 10.1

4.12 विहिताचरण प्रशंसा निषिद्धाचरण निन्दा च T.A.6.11.1

यथा॑ वृ॒क्षस्य॑ स॒पुंष्पि॑तस्य दू॒राद् ग॒न्धो वा᳚त्ये॒वं पुण्य॑स्य क॒र्मणो॑

दू॒राद् ग॒न्धो वा॑ति॒ यथा॑ऽसिधा॒रां क॒र्त्तेऽव॑हिता-मव॒क्रामे॒ यद्युवे॒ युवे॒

हवा॑ वि॒ह्वयि॑ष्यामि क॒र्त्तं प॑तिष्या॒मीत्ये॒व-म॒मृता॑-दा॒त्मानं॑ जु॒गुफ्से᳚त् ॥ 11.1

4.13 दहर विद्या T.A.6.12.3

अ॒णो-रणी॑यान् मह॒तो मही॑या-ना॒त्मा गुहा॑यां॒ निहि॑तोऽस्य ज॒न्तोः । तम॑क्रतुं पश्यति वीतशो॒को धा॒तुः प्र॒सादा᳚न्-महि॒मान॑मीशं ॥ 12.1

स॒प्त प्रा॒णाः प्र॒भव॑न्ति॒ तस्मा᳚थ् स॒प्तार्चिषः॑ स॒मिधः॑ स॒प्त जि॒ह्वाः । स॒प्त इ॒मे लो॒का येषु॒ चर॑न्ति प्रा॒णा गु॒हाश॑या॒-न्निहि॑ताः स॒प्त स॑प्त ॥ 12.2

अतः॑ समु॒द्रा गि॒रय॑श्च॒ सर्वे॒ऽस्माथ् स्यन्द॑न्ते॒ सिन्ध॑वः॒ सर्व॑रूपाः । अत॑श्च॒ विश्वा॒ ओष॑धयो॒ रसा᳚च्च॒ येनै॑ष भू॒त-स्ति॑ष्ठत्यन्तरा॒त्मा ॥ 12.3

ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒ना-मृषि॒र्-विप्रा॑णां महि॒षो मृ॒गाणां᳚ ।

श्ये॒नो गृध्रा॑णा॒ᳺ॒ स्वधि॑ति॒र्-वना॑ना॒ꣳ॒ सोमः॑ प॒वित्र॒ मत्ये॑ति॒ रेभन्न्॑ ॥ 12.4

अ॒जा मेकां॒ ँलोहि॑ta-Sउक्ल-कृ॒ष्णां ब॒ह्वीं प्र॒जां ज॒नय॑न्ती॒ꣳ॒ सरू॑पां । अ॒जो ह्येको॑ जु॒षमा॑णोऽनु॒शेते॒ जहा᳚त्येनां भु॒क्त-भो॑गा॒मजो᳚ऽन्यः ॥ 12.5

ह॒ꣳ॒सः शु॑चि॒षद् वसु॑-रन्तरिक्ष॒-सद्धोता॑ वेदि॒ष-दति॑थिर्-दुरोण॒सत् । नृ॒षद्व॑र॒-सदृ॑त॒-सद् व्यो॑म॒-सद॒ब्जा गो॒जा ऋ॑त॒जा

अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥ 12.6

घृ॒तं मि॑मिक्षिरे घृ॒तम॑स्य॒ योनि॑र्-घृ॒ते श्रि॒तो घृ॒तमु॑वस्य॒ धाम॑ । अ॒नु॒ष्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑ कृतं ँवृषभ वक्षि

ह॒व्यं ॥ 12.7

स॒मु॒द्रा दू॒र्मिर्-मधु॑मा॒ꣳ॒ उदा॑र-दुपा॒ꣳ॒शुना॒ सम॑मृत॒त्व मा॑नट् ।

घृ॒तस्य॒ नाम॒ गुह्यं॒ ँयदस्ति॑ जि॒ह्वा दे॒वाना॑-म॒मृत॑स्य॒ नाभिः॑ ॥ 12.8

व॒यं नाम॒ प्रब्र॑वामा घृ॒तेना॒स्मिन्. य॒ज्ञ्ए धा॑रयामा॒ नमो॑भिः ।

उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑ शृङ्गो ऽवमीद् गौ॒र ए॒तत् ॥ 12.9

च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र॒.षे स॒प्त हस्ता॑सो अ॒स्य । त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्या॒ꣳ॒ आवि॑वेश ॥ 12.10

त्रिधा॑ हि॒तं प॒णिभि॑र् गु॒ह्यमा॑नं॒ गवि॑-दे॒वासो॑ घृ॒तमन्व॑विन्दन्न् । इन्द्र॒ एक॒ꣳ॒ सूर्य॒ एकं॑ जजान वे॒ना देकᳺ॑ स्व॒धया॒ निष्ट॑तक्षुः ॥ 12.11

यो दे॒वानां᳚ प्रथ॒मं पु॒रस्ता॒द् विश्वा॒धियो॑ रु॒द्रो म॒हर्.षिः॑ । हि॒र॒ण्य॒ग॒र्भं प॑श्यत॒ जाय॑मान॒ꣳ॒ सनो॑ दे॒वः शु॒भया॒ स्मृत्या॒

सम् ँयु॑नक्तु ॥ 12.12

यस्मा॒त्परं॒ नाप॑र॒ मस्ति॒ किञ्चि॒द्यस्मा॒न् नाणी॑यो॒ न ज्यायो᳚ऽस्ति॒ कश्चि॑त् । वृ॒क्ष इ॑व स्तब्धो दि॒वि ति॑ष्ठ॒-त्येक॒स्तेने॒दं पू॒र्णं पुरु॑षेण॒ सर्वं᳚ ॥ 12.13

(सन्यास सूक्तम्)

न कर्म॑णा न प्र॒जया॒ धने॑न॒ त्यागे॑नैके अमृत॒त्व-मा॑न॒शुः । परे॑ण॒ नाकं॒ निहि॑तं॒ गुहा॑यां ँवि॒भ्राज॑दे॒तद् यत॑यो वि॒शन्ति॑ ॥ 12.14

वे॒दा॒न्त॒ वि॒ज्ञ्आन॒-सुनि॑श्चिता॒र्थाः सन्या॑स यो॒गाद्यत॑यः शुद्ध॒ सत्त्वाः᳚ । ते ब्र॑ह्मलो॒के तु॒ परा᳚न्तकाले॒ परा॑मृता॒त् परि॑मुच्यन्ति॒ सर्वे᳚ ( ) ॥ 12.15

द॒ह्रं॒ ँवि॒पा॒पं प॒रमे᳚श्म भूतं॒ ँयत् पु॑ण्डरी॒कं पु॒रम॑द्ध्य स॒ᳺ॒स्थं ।

त॒त्रा॒पि॒ द॒ह्रं ग॒गनं॑ ँविशोक॒-स्तस्मि॑न्. यद॒न्तस्त-दुपा॑सित॒व्यं ॥ 12.16

यो वेदादौ स्व॑रः प्रो॒क्तो॒ वे॒दान्ते॑ च प्र॒तिष्ठि॑तः । तस्य॑ प्र॒कृति॑-लीन॒स्य॒ यः॒ परः॑ स॒ म॒हेश्व॑रः ॥ 12.17

(अजो᳚ऽन्य॒ - आवि॑वेश॒ - सर्वे॑ च॒त्वारि॑ च) (A12)

4.14 नारायण सूक्तं T.A.6.13.2

स॒ह॒स्र॒शीर्.षं॑ दे॒वं॒ ँवि॒श्वाक्षं॑ ँवि॒श्व शं॑ भुवं । विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं प॒दं ॥ 13.1

वि॒श्वतः॒ पर॑मान्नि॒त्यं॒ ँवि॒श्वं ना॑राय॒णꣳ ह॑रिं । विश्व॑मे॒वेदं पुरु॑ष॒-स्तद् विश्व॒मुप॑जीवति ॥ 13.2

पतिं॒ ँविश्व॑स्या॒त्मेश्व॑र॒ꣳ॒ शाश्व॑तꣳ शि॒वम॑च्युतं । ना॒राय॒णं म॑हाज्ञ्ए॒यं॒ ँवि॒श्वात्मा॑नं प॒राय॑णं ॥ 13.3

ना॒राय॒ण प॑रो ज्यो॒ति॒रा॒त्मा ना॑रय॒णः प॑रः ।

ना॒राय॒ण प॑रं ब्र॒ह्म॒ त॒त्त्वं ना॑राय॒णः प॑रः । ना॒राय॒ण प॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः ॥ 13.4

यच्च॑ कि॒ञ्चिज्-ज॑गथ् स॒र्वं॒ दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा ।

अन्त॑र् ब॒हिश्च॑ तथ् स॒र्वं॒ ँव्या॒प्य ना॑राय॒णः स्थि॑तः ॥ 13.5

अन॑न्त॒ मव्य॑यं क॒विꣳ स॑मु॒द्रेऽन्तं॑ ँवि॒श्व श॑भुंवं । प॒द्म॒को॒श-प्र॑तीका॒श॒ꣳ॒ हृ॒दयं॑ चाप्य॒धोमु॑खं ॥ 13.6

अधो॑ नि॒ष्ट्या वि॑तस्त्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति ।

ज्वा॒ल॒मा॒ला कु॑लं भा॒ती॒ वि॒श्वस्या॑यत॒नं म॑हत् ॥ 13.7

सन्त॑तꣳ शि॒लाभि॑स्तु॒ लंब॑त्या कोश॒सन्नि॑भं ।

तस्यान्ते॑ सुषि॒रꣳ सू॒क्ष्मं तस्मि᳚न्थ् स॒र्वं प्रति॑ष्ठितं ॥ 13.8

तस्य॒ मद्ध्ये॑ म॒हान॑ग्निर् वि॒श्वार्चि॑र् वि॒श्वतो॑ मुखः । सोऽग्र॑भु॒ग् विभ॑जन् ति॒ष्ठ॒न्-नाहा॑र-मज॒रः क॒विः । ति॒र्य॒गू॒र्ध्व म॑धः शा॒यी॒ र॒श्मय॑स्तस्य॒ सन्त॑ता ( ) ॥ 13.9

स॒न्ता॒पय॑ति स्वं दे॒हमापा॑दतल॒ मस्त॑कः ।

तस्य॒ मद्ध्ये॒ वह्नि॑शिखा अ॒णीयो᳚द्‌र्ध्वा व्य॒वस्थि॑तः ॥ 13.10

नी॒लतो॑ यद॑ मद्ध्य॒स्था॒द् वि॒द्युल्ले॑खेव॒ भास्व॑रा ।

नी॒वार॒ शूक॑वत्त॒न्वी॒ पी॒ता भा᳚स्वत्य॒णूप॑मा ॥ 13.11

तस्याः᳚ शिखा॒या म॑द्ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः ।

स ब्रह्म॒ स शिवः॒ स हरिः॒ सेन्द्रः॒ सोऽक्ष॑रः पर॒मः स्व॒राट् ॥ 13.12

(अपि॑ वा॒ - सन्त॑ता॒ षट् च॑) (A13)

4.15 आदित्य मण्डले परब्रह्मोपासनं T.A.6.14.1

आ॒दि॒त्यो वा ए॒ष ए॒तन् म॒ण्डलं॒ तप॑ति॒ तत्र॒ ता ऋच॒स्तदृ॒चा म॑ण्डल॒ꣳ॒ स ऋ॒चां ँलो॒कोऽथ॒य ए॒ष ए॒तस्मि॑न् म॒ण्डले॒ऽर्‌चिर् दी॒प्यते॒ तानि॒ सामा॑नि॒ स सा॒म्नां ँलो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न् म॒ण्डले॒ऽर्चिषि॒ पुरु॑ष॒स्तानि॒ यजूꣳ॑षि॒ स यजु॑षा मण्डल॒ꣳ॒ स यजु॑षां ँलो॒कः सैषा त्र॒य्येव॑ वि॒द्या त॑पति॒ य ए॒षो᳚ऽन्त-रा॑दि॒त्ये हि॑र॒ण्मयः॒ पुरु॑षः ॥ 14.1

4.16 आदित्यपुरुषस्य सर्वात्मकत्व प्रदर्.शनं T.A.6.15.1

आ॒दि॒त्यो वै तेज॒ ओजो॒ बलं॒ ँयश॒-श्चक्षुः॒ श्रोत्र॑मा॒त्मा मनो॑ म॒न्युर्-मनु॑र्-मृ॒त्युः स॒त्यो मि॒त्रो वा॒युरा॑का॒शः प्रा॒णो लो॑कपा॒लः

कः किं कं तथ् स॒त्यमन्न॑-म॒मृता॑ जी॒वो विश्वः॑ कत॒मः स्व॑य॒भुं ब्रह्मै॒ तदमृ॑त ए॒ष पुरु॑ष ए॒ष भू॒ताना॒-मधि॑पति॒र्-ब्रह्म॑णः॒ सायु॑ज्यꣳ सलो॒कता॑-माप्नो-त्ये॒तासा॑मे॒व दे॒वता॑ना॒ꣳ॒ सायु॑ज्यꣳ सा॒र्ष्टिताꣳ॑ समान लो॒कता॑-माप्नोति॒ य ए॒वं ँवेदे᳚त्युप॒निषत् ॥ 15.1

4.17 शिवोपासन मन्त्राः T.A.6.16.2

निध॑नपतये॒ नमः । निध॑नपतान्तिकाय॒ नमः ।

ऊद्‌र्ध्वाय॒ नमः । ऊद्‌र्ध्वलिङ्गाय॒ नमः ।

हिरण्याय॒ नमः । हिरण्यलिङ्गाय॒ नमः ।

सुवर्णाय॒ नमः । सुवर्णलिङ्गाय॒ नमः ।

दिव्याय॒ नमः । दिव्यलिङ्गाय॒ नमः । 16.1अ

भवाय॒ नमः । भवलिङ्गाय॒ नमः ।

शर्वाय॒ नमः । शर्वलिङ्गाय॒ नमः ।

शिवाय॒ नमः । शिवलिङ्गाय॒ नमः ।

ज्वलाय॒ नमः । ज्वललिङ्गाय॒ नमः ।

आत्माय॒ नमः । आत्मलिङ्गाय॒ नमः ।

परमाय॒ नमः । परमलिङ्गाय॒ नमः ।

एतथ्सोमस्य॑ सूर्य॒स्य॒ सर्वलिङ्गᳺ॑ स्थाप॒य॒ति॒ पाणिमन्त्रं॑ पवि॒त्रं ॥ 16.1ब्

4.18 पश्चिमवक्त्र प्रतिपादक मन्त्रः T.A.6.17.1

स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ । भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ मां । भ॒वोद्भ॑वाय॒ नमः॑ ॥ 17.1

4.19 उत्तर वक्त्र प्रतिपादक मन्त्रः T.A.6.18.1

वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नमः॒ सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ॥ 18.1

4.20 दक्षिण वक्त्र प्रतिपादक मन्त्रः T.A.6.19.1

अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।

सर्वे᳚भ्यः सर्व॒ शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥ 19.1

4.21 प्राग्वक्त्र प्रतिपादक मन्त्रः T.A.6.20.1

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।

तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ 20.1

4.22 ऊर्ध्व वक्त्र प्रतिपादक मन्त्रः T.A.6.21.1

ईशानः सर्व॑विद्या॒ना॒- मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र् ब्रह्म॒णोऽधि॑पति॒र्

ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वों ॥ 21.1

4.23 नमस्कारार्त्थ मन्त्राः T.A.6.25.1

नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये ऽबिंकापतय उमापतये पशुपतये॑

नमो॒ नमः ॥ 22.1

ऋ॒तꣳ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लं । ऊ॒द्‌र्ध्वरे॑तं ँवि॑रूपा॒क्षं॒ ँवि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥ 23.1

सर्वो॒ वै रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ।

पुरु॑षो॒ वै रु॒द्रः सन्म॒हो नमो॒ नमः॑ ।

विश्वं॑ भू॒तं भुव॑नं चि॒त्रं ब॑हु॒धा जा॒तं जाय॑मानं च॒ यत् । सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ 24.1

कदृ॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शन्त॑मꣳ हृ॒दे ॥

सर्वो॒ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ 25.1

4.24 अग्निहोत्र हवण्याः उपयुक्तस्य वृक्ष विशेष-स्याभिधानम् T.A.6.26.1

यस्य॒ वै क॑ङ्कत्यग्नि-होत्र॒हव॑णी भवति॒ प्रत्ये॒वा-स्याहु॑तय-स्तिष्ठ॒न्त्यथो॒ प्रति॑ष्ठित्यै ॥ 26.1

4.25 रक्षोघ्न मन्त्र निरूपणं T.A.6.27.1

(This Expansion is appearing in T.S.1.2.14.1 for

कृ॒णु॒ष्व पाज॒ इति॒ पञ्च॑ )

कृ॒णु॒ष्व पाजः॒ प्रसि॑ति॒न्न पृ॒थ्वीं ँया॒हि राजे॒ वा॑मवा॒ꣳ॒ इभे॑न । तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑ऽसि॒ विद्ध्य॑ र॒क्ष स॒स्तपि॑ष्ठैः ॥ 27.1

तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः । तपूᳺ॑ष्यग्ने जु॒ह्वा॑ पत॒गांन स॑न्दितो॒ विसृ॑ज॒ विष्व॑ गु॒ल्काः ॥ 27.2

प्रति॒स्पशो॒ विसृ॑ज॒ तूर्णि॑ तमो॒ भवा॑ पा॒युर् वि॒शो अ॒स्या अद॑ब्धः । यो नो॑ दू॒रे अ॒घशꣳ॑सो॒ यो अन्त्य॑ग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्.षीत् ॥ 27.3

उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒न्य॑ मित्राꣳ॑ ओषतात् तिग्महेते । यो नो॒ अरा॑तिꣳ समिधान च॒क्रे नी॒चातं ध॑क्ष्यत॒ सन्न शुष्कं᳚ ॥ 27.4

ऊ॒द्‌र्ध्वो भ॑व॒ प्रति॑विद्॒ध्या-ध्य॒स्मदा॒ विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने । अव॑स्थि॒रा त॑नुहि यातु॒ जूनां᳚ जा॒मिमजा॑मिं॒ प्रमृ॑णीहि॒ शत्रून्॑ ॥ 27.5

कृ॒णु॒ष्व पाज॒ इति॒ पञ्च॑ ॥ 27

4.26 भूदेवताक मन्त्रः T.A.6.28.1

अदि॑तिर्-दे॒वा ग॑न्ध॒र्वा म॑नु॒ष्याः᳚ पि॒तरो-ऽसु॑रा॒-स्तेषाꣳ॑ सर्व भू॒तानां᳚ मा॒ता मे॒दिनी॑ मह॒ता म॒ही सा॑वि॒त्री गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हु॒ला विश्वा॑ भू॒ता क॑त॒मा काया सा स॒त्ये-त्य॒मृतेति॑ वसि॒ष्ठः ॥ 28.1

4.27 सर्वा देवता आपः T.A.6.29.1

आपो॒ वा इ॒दꣳ सर्वं॒ ँविश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापो -ऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडापः॒

छन्दा॒ᳺ॒स्यापो॒ ज्योती॒ᳺ॒ष्यापो॒ यजू॒ᳺ॒ष्यापः॑ स॒त्यमापः॒ सर्वा॑

दे॒वता॒ आपो॒ भूर्भुव॒स्सुव॒राप॒ ओं ॥ 29.1

4.28 सन्ध्यावन्दन मन्त्राः T.A.6.32.1

आपः॑ पुनन्तु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ मां ।

पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र् ब्रह्म॑ पू॒ता

पु॑नातु॒ मां ॥ 30.1

यदुच्छि॑ष्ट॒-मभो᳚ज्यं॒ ँयद्वा॑ दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनन्तु॒ मामापो॑-ऽस॒ताञ्च॑ प्रति॒ग्रह॒ᳺ॒ स्वाहा᳚ ॥ 30.2

अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः ।

पापेभ्यो॑ रक्ष॒न्तां । यदह्ना पाप॑मका॒र्॒.षं ।

मनसा वाचा॑ हस्ता॒भ्यां । पद्भ्या-मुदरे॑ण शि॒श्ना ।

अह॒स्तद॑वलु॒पंतु । यत्किञ्च॑ दुरि॒तं मयि॑ ।

इदमह-माममृ॑त यो॒नौ । सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ॥ 31.1

सूर्यश्च मा मन्युश्च मन्युपतयश्च

मन्यु॑कृते॒भ्यः । पापेभ्यो॑ रक्ष॒न्तां । यद्रात्रिया पाप॑मका॒र्॒.षं । मनसा वाचा॑ हस्ता॒भ्यां ।

पद्भ्या-मुदरे॑ण शि॒श्ना । रात्रि॒-स्तद॑वलु॒पंतु । यत्किञ्च॑ दुरि॒तं मयि॑ । इदमह-माममृ॑त यो॒नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा ॥ 32.1

4.29 प्रणवस्य ऋष्यादि विवरणं T.A.6.33.1

ओमित्येकाक्ष॑रं ब्र॒ह्म । अग्निर्देवता ब्रह्म॑ इत्या॒र्.षं । गायत्रं छन्दं परमात्मं॑ सरू॒पं । सायुज्यं ँवि॑नियो॒गं ॥ 33.1

4.30 गायत्र्यावाहन मन्त्राः T.A.6.35.1

आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒ संमि॑तं ।

गा॒य॒त्रीं᳚ छन्द॑सां मा॒तेदं ब्र॑ह्म जु॒षस्व॑ मे । 34.1

यदह्ना᳚त् कुरु॑ते पा॒पं॒ तदह्ना᳚त् प्रति॒मुच्य॑ते ।

यद् रात्रिया᳚त् कुरु॑ते पा॒पं॒ तद् रात्रिया᳚त् प्रति॒मुच्य॑ते ।

सर्व॑ व॒र्णे म॑हादे॒वि॒ स॒न्ध्या वि॑द्ये स॒रस्व॑ति ॥ 34.2

ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒नामा॑॑ऽसि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि स॒र्वायु-रभिभूरों-गायत्री-मावा॑हया॒मि॒

सावित्री-मावा॑हया॒मि॒ सरस्वती-मावा॑हया॒मि॒ छन्दर्.षी-नावा॑हया॒मि॒ श्रिय-मावा॑हया॒मि॒ गायत्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता देवताऽग्निर्मुखं ब्रह्मा शिरो विष्णुर्.हृदयꣳ रुद्रः शिखा पृथिवीयोनिः प्राणापान-व्यानोदान-समाना सप्राणा श्वेतवर्णा

साङ्ख्यायन-सगोत्रा गायत्री चतुर्विꣳशत्यक्षरा त्रिपदा॑ षट्कु॒क्षिः॒ पञ्च शीर्.षोपनयने वि॑नियो॒ग॒, 35.1

ओं भूः । ओं भुवः । ओꣳ सुवः । ओं महः । ओं जनः ।

ओं तपः । ओꣳ स॒त्यं । ओं तथ् स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया᳚त् ।

ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रों ॥ 35.2

4.31 गायत्री उपस्थान मन्त्राः T.A.6.36.1

उ॒त्तमे॑ शिख॑रे जा॒ते॒ भू॒म्यां प॑र्वत॒ मूद्‌र्ध॑नि ।

ब्रा॒ह्मणे᳚भ्यो-ऽभ्य॑नुज्ञ्आ॒ता॒ ग॒च्छ दे॑वि य॒थासु॑खं ॥ 36.1

स्तुतो मया वरदा वे॑दमा॒ता॒ प्रचोदयन्ती पवने᳚ द्विजा॒ता । आयुः पृथिव्यां-द्रविणं ब्र॑ह्मव॒र्च॒सं॒ मह्यं दत्वा प्रजातुं ब्र॑ह्मलो॒कं ॥ 36.2

4.32 आदित्यदेवता मन्त्रः T.A.6.37.1

घृणिः॒ सूर्य॑ आदि॒त्यो न प्रभा॑-वा॒त्यक्ष॑रं । मधु॑क्षरन्ति॒ तद् र॑सं ।

स॒त्यं ँवै तद् रस॒-मापो॒ ज्योती॒रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रों ॥ 37.1

4.33 त्रिसुपर्णमन्त्राः T.A.6.40.1

ब्रह्म॑ मेतु॒॒ मां । मधु॑ मेतु॒ मां । ब्रह्म॑-मे॒व मधु॑ मेतु॒ मां ॥ यास्ते॑ सोम प्र॒जाव॒थ्सो-ऽभि॒सो अ॒हं । दुःष्व॑प्न॒हन् दु॑रुष्वह ।

यास्ते॑ सोम प्रा॒णाᳺस्तां जु॑होमि ॥

त्रिसु॑पर्ण॒ मया॑चितं ब्राह्म॒णाय॑ दद्यात् । ब्र॒ह्म॒ह॒त्यां ँवा ए॒ते घ्न॑न्ति ।

ये ब्रा᳚ह्म॒णा-स्त्रिसु॑पर्णं॒ पठ॑न्ति । ते सोमं॒ प्राप्नु॑वन्ति । आ॒स॒ह॒स्रात् प॒क्तिं पुन॑न्ति । ओं ॥ 38.1

ब्रह्म॑ मे॒धया᳚ । मधु॑ मे॒धया᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धया᳚ । अ॒द्या नो॑ देव सवितः प्र॒जाव॑थ्सावीः॒ सौभ॑गं । परा॑ दुः॒ष्वप्नि॑यꣳ सुव । विश्वा॑नि देव सवितर्-दुरि॒तानि॒ परा॑सुव । यद् भ॒द्रं तन्म॒ आसु॑व ॥ 39.1

मधु॒वाता॑ ऋताय॒ते मधु॑क्षरन्ति॒ सिन्ध॑वः । माद्ध्वी᳚र्नः स॒न्त्वोष॑धीः ॥ 39.2

मधु॒नक्त॑ मु॒तोषसि॒ मधु॑म॒त् पार्थि॑व॒ꣳ॒ रजः॑ । मधु॒द्यौर॑स्तु नः पि॒ता ॥ 39.3

मधु॑मान्नो॒ वन॒स्पति॒र्-मधु॑माꣳ अस्तु॒ सूर्यः॑ ।

माद्ध्वी॒ र्गावो॑ भवन्तु नः ॥ 39.4

य इ॒मं त्रिसु॑पर्ण॒-मया॑चितं ब्राह्म॒णाय॑ दद्यात् ॥ 39.5

भ्रू॒ण॒ह॒त्यां ँवा ए॒ते घ्न॑न्ति । ये ब्रा᳚ह्म॒णा-स्त्रिसु॑पर्णं॒ पठ॑न्ति ॥ 39.6

ते सोमं॒ प्राप्नु॑वन्ति । आ॒स॒ह॒स्रात् प॒क्तिं पुन॑न्ति । ओं ॥ 39.7

ब्रह्म॑ मे॒धवा᳚ । मधु॑ मे॒धवा᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धवा᳚ ॥ 40.1

ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒ना-मृषि॒र् विप्रा॑णां महि॒षो मृ॒गाणां᳚ ।

श्ये॒नो गृद्ध्रा॑णा॒ᳺ॒ स्वधि॑ति॒र्-वना॑ना॒ꣳ॒ सोमः॑ प॒वित्र॒॒-मत्ये॑ति॒ रेभन्न्॑ ॥ 40.2

ह॒ꣳ॒सः शु॑चि॒षद् वसु॑रन्तरिक्ष॒ सद्धोता॑- वेदि॒ष-दति॑थिर्-दुरोण॒सत् ।

नृ॒षद्व॑र॒-सदृ॑त॒-सद् व्यो॑म॒-सद॒ब्जा- गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥ 40.3

ऋ॒चेत्वा॑ रु॒चेत्वा॒ समिथ् स्र॑वन्ति स॒रितो॒ न धेनाः᳚ ।

अ॒न्तर्. हृ॒दा मन॑सा पू॒यमा॑नाः ।

घृ॒तस्य॒ धारा॑ अ॒भिचा॑कशीमि ।

हि॒र॒ण्ययो॑ वेत॒सो मद्ध्य॑ आसां ॥ 40.4

तस्मि᳚न्थ् सुप॒र्णो म॑धु॒कृत् कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता᳚भ्यः ।

तस्या॑ सते॒ हर॑यः स॒प्ततीरे᳚ स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारां᳚ ॥ 40.5

य इ॒दं त्रिसु॑पर्ण॒-मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।

वी॒र॒ह॒त्यां ँवा ए॒ते घ्न॑न्ति । ये ब्रा᳚ह्म॒णा-स्त्रिसु॑पर्णं॒ पठ॑न्ति ।

ते सोमं॒ प्राप्नु॑वन्ति । आ॒स॒ह॒स्रात् पं॒क्तिं पुन॑न्ति । ओं ॥ 40.6

4.34 मेधा सूक्तं T.A.6.44.1

मे॒धादे॒वी जु॒षमा॑णा न॒ आगा᳚द् वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्य मा॑ना । त्वया॒ जुष्टा॑ नु॒दमा॑ना दु॒रुक्ता᳚न् बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚ ॥

त्वया॒ जुष्ट॑ ऋ॒षिर् भ॑वति देवि॒ त्वया॒ ब्रह्मा॑ऽऽग॒तश्री॑ रु॒त त्वया᳚ ।

त्वया॒ जुष्ट॑श्चि॒त्रं ँवि॑न्दते वसु॒ सा नो॑ जुषस्व॒ द्रवि॑णो नमेधे ॥ 41.1

मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती ।

मे॒धां मे॑ अ॒श्विना॑-वु॒भावाध॑त्तां॒ पुष्क॑रस्रजा ॥

अ॒फ्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यन्मनः॑ । दैवीं᳚ मे॒धा सर॑स्वती॒ सा मां᳚ मे॒धा सु॒रभि॑र् जुषता॒ᳺ॒ स्वाहा᳚ ॥ 42.1

आमां᳚ मे॒धा सु॒रभि॑र् वि॒श्वरू॑पा॒ हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ सा मां᳚ मे॒धा सु॒प्रती॑का जुषन्तां ॥ 43.1

मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ 44.1

4.35 मृत्युनिवारण मन्त्राः T.A.6.53.1

अपै॑तु मृ॒त्यु-र॒मृत॑न्न॒ आग॑न्. वैवस्व॒तो नो॒ अभ॑यङ्कृणोतु । प॒र्णं ँवन॒स्पते॑ रिवा॒भिनः॑ शीयताꣳ र॒यिः सच॑तान्नः॒ शची॒पतिः॑ ॥ 45.1

परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ ँयस्ते॒स्व इत॑रो देव॒याना᳚त् । चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि॒ मानः॑ प्र॒जाꣳ री॑रिषो॒ मोत वी॒रान् ॥ 46.1

वातं॑ प्रा॒णं मन॑सा॒ न्वार॑भामहे प्र॒जाप॑तिं॒ ँयो भुव॑नस्य गो॒पाः । सनो॑ मृ॒त्यो स्त्रा॑यतां॒ पात्वꣳह॑सो॒ ज्योग् जी॒वा ज॒राम॑शीमहि ॥ 47.1

अ॒मु॒त्र॒ भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒र मु॑ञ्चः । प्रत्यौ॑हता म॒श्विना॑ मृ॒त्यु म॑स्माद् दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ॥ 48.1

हरि॒ꣳ॒ हर॑न्त॒- मनु॑यन्ति दे॒वा विश्व॒स्येशा॑नं ँवृष॒भं म॑ती॒नां । ब्रह्म॒ सरू॑प॒-मनु॑मे॒दमा॑गा॒-दय॑नं॒ मा विव॑धी॒र् विक्र॑मस्व ॥ 49.1

शल्कै॑र॒ग्नि-मि॑न्धा॒न उ॒भौ लो॒कौ स॑नेम॒हं ।

उ॒भयो᳚ र्लो॒कया॑र्. ऋ॒ध्द्वाऽति॑ मृ॒त्युं त॑राम्य॒हं ॥ 50.1

मा छि॑दो मृत्यो॒ मा व॑धी॒र्‌मा मे॒ बलं॒ ँविवृ॑हो॒ मा प्रमो॑षीः । प्र॒जां मा मे॑ रीरिष॒ आयु॑रुग्र नृ॒चक्ष॑सं त्वा ह॒विषा॑ विधेम ॥ 51.1

मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तं ।

मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ॥ 52.1

मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तोव॑धीर्.-ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥ 53.1

4.36 प्रजापति-प्रार्त्थना मन्त्रः T.A.6.54.1

प्रजा॑पते॒ न त्वदे॒ता-न्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव । यत् का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यᳺ स्या॑म॒ पत॑यो रयी॒णां ॥ 54.1

4.37 इन्द्रप्रार्थना मन्त्रः T.A.6.55.1

स्व॒स्ति॒दा वि॒शस्पति॑र् वृत्र॒हा विमृधो॑ व॒शी ।

वृषेन्द्रः॑ पु॒र ए॑तु नस्स्वस्ति॒दा अ॑भयं क॒रः ॥ 55.1

4.38 मृत्युञ्जय मन्त्राः T.A.6.58.1

त्र्यं॑बकं ँयजामहे सुग॒न्धिं पु॑ष्टि॒वद्‌र्ध॑नं ।

उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्-मृ॒त्योर् मु॑क्षीय॒ माऽमृता᳚त् ॥ 56.1

ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे ।

तान्. य॒ज्ञ्अस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे ॥ 57.1

मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा᳚ ॥ 58.1

4.39 पापनिवारका मन्त्राः T.A.6.59.1

दे॒वकृ॑त॒स्यैन॑सो-ऽव॒यज॑नमसि॒ स्वाहा᳚ ।

म॒नु॒ष्य॑कृत॒स्यैन॑सो ऽव॒यज॑नमसि॒ स्वाहा᳚ ।

पि॒तृकृ॑त॒स्यैन॑सो ऽव॒यज॑नमसि॒ स्वाहा᳚ ।

आ॒त्मकृ॑त॒स्यैन॑सो ऽव॒यज॑नमसि॒ स्वाहा᳚ ।

अ॒न्यकृ॑त॒स्यैन॑सो ऽव॒यज॑नमसि॒ स्वाहा᳚ ।

अ॒स्मत्कृ॑त॒स्यैन॑सो ऽव॒यज॑नमसि॒ स्वाहा᳚ ।

यद्दि॒वा च॒ नक्तं॒ चैन॑श्चकृ॒म तस्या॑ व॒यज॑नमसि॒ स्वाहा᳚ ।

यथ् स्व॒पन्त॑श्च॒ जाग्र॑त॒-श्चैन॑श्च-कृ॒म तस्या॑ व॒यज॑नमसि॒ स्वाहा᳚ ।

यथ् सु॒षुप्त॑श्च॒ जाग्र॑त॒-श्चैन॑श्च-कृ॒म तस्या॑ व॒यज॑नमसि॒ स्वाहा᳚ ।

यद् वि॒द्वाꣳस॒श्चा वि॑द्वाꣳस॒श्चैन॑श्च-कृ॒म तस्या॑ व॒यज॑नमसि॒ स्वाहा᳚ ।

एनस एनसो वयजनम॑सि स्वा॒हा ॥ 59.1

4.40 वसु-प्रार्थना मन्त्रः T.A.6.60.1

यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रुमन॑सो वा॒ प्रयु॑ती देव॒ हेड॑नं । अरा॑वा॒यो नो॑ अ॒भिदु॑च्छुना॒यते॒ तस्मि॒न् तदेनो॑ वसवो॒

निधे॑तन॒ स्वाहा᳚ ॥ 60.1

4.41 कामोऽकार्.षीत् - मन्युरकार्.षीत् मन्त्रः T.A.6.62.1

कामोऽकार्.षी᳚न् नमो॒ नमः ।

कामोऽकार्.षीत् कामः करोति नाहं करोमि कामः कर्त्ता नाहं कर्त्ता कामः॑ कार॒यिता नाहं॑ कार॒यिता एष ते काम कामा॑य स्वा॒हा ॥ 61.1

मन्युरकार्.षी᳚न् नमो॒ नमः ।

मन्युरकार्.षीन् मन्युः करोति नाहं करोमि मन्युः कर्त्ता नाहं कर्त्ता मन्युः॑ कार॒यिता नाहं॑ कार॒यिता एष ते मन्यो मन्य॑वे स्वा॒हा ॥ 62.1

4.42 विरजा होम मन्त्राः T.A.6.66.1

तिलाञ्जुहोमि सरसाꣳ सपिष्टान् गन्धार मम चित्ते रम॑न्तु स्वा॒हा ॥ 63.1

गावो हिरण्यं धनमन्नपानꣳ सर्वेषाᳺ श्रि॑यै स्वा॒हा ॥ 63.2

श्रियञ्च लक्ष्मिञ्च पुष्टिञ्च कीर्त्तिं॑ चा नृ॒ण्यतां ।

ब्रह्मण्यं ब॑हुपु॒त्रतां । श्रद्धामेधे प्रजाः सन्ददा॑तु स्वा॒हा ॥ 63.3

तिलाः कृष्णा-स्ति॑लाः श्वे॒ता॒-स्तिलाः सौम्या व॑शानु॒गाः ।

तिलाः पुनन्तु॑ मे पा॒पं॒ ँयत्किञ्चिद् दुरितं म॑यि स्वा॒हा ॥ 64.1

चोर॒स्यान्नं न॑वश्रा॒द्धं॒ ब्र॒ह्म॒हा गु॑रुत॒ल्पगः ।

गोस्तेयꣳ स॑रापा॒नं॒ भ्रूणहत्या तिला शान्तिꣳ शमय॑न्तु स्वा॒हा ॥ 64.2

श्रीश्च लक्ष्मीश्च पुष्टीश्च कीर्त्तिं॑ चा नृ॒ण्यतां । ब्रह्मण्यं ब॑हुपु॒त्रतां ।

श्रद्धामेधे प्रज्ञ्आतु जातवेदः संददा॑तु स्वा॒हा ॥ 64.3

प्राणापान-व्यानोदान-समाना मे॑ शुद्ध्य॒न्तां॒

ज्योति॑ र॒हं ँवि॒रजा॑ विपा॒प्मा भू॑यास॒ᳺ॒ स्वाहा᳚ ॥ 65.1

वाङ्-मन-श्चक्षुः-श्रोत्र-जिह्वा-घ्राण-रेतो-बुद्ध्याकूतिः सङ्कल्पा

मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं ँवि॒रजा॑ विपा॒प्मा भू॑यास॒ᳺ॒ स्वाहा᳚ ॥ 65.2

त्वक्-चर्म-माꣳस-रुधिर-मेदो-मज्जा-स्नायवो-ऽस्थीनि

मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं ँवि॒रजा॑ विपा॒प्मा भू॑यास॒ᳺ॒ स्वाहा᳚ ॥ 65.3

शिरः पाणि पाद पार्श्व पृष्ठो-रूदर-जङ्घ-शिश्र्नोपस्थ पायवो

मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं ँवि॒रजा॑ विपा॒प्मा भू॑यास॒ᳺ॒ स्वाहा᳚ ॥ 65.4

उत्तिष्ठ पुरुष हरित-पिङ्गल लोहिताक्षि देहि देहि ददापयिता

मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं ँवि॒रजा॑ विपा॒प्मा भू॑यास॒ᳺ॒ स्वाहा᳚ ॥ 65.5

पृथिव्याप स्तेजो वायु-राकाशा मे॑ शुद्ध्य॒न्तां॒

ज्योति॑ र॒हं ँवि॒रजा॑ विपा॒प्मा भू॑यास॒ᳺ॒ स्वाहा᳚ ॥ 66.1

शब्द-स्पर्.श-रूपरस-गन्धा मे॑ शुद्ध्य॒न्तां॒

ज्योति॑ र॒हं ँवि॒रजा॑ विपा॒प्मा भू॑यास॒ᳺ॒ स्वाहा᳚ ॥ 66.2

मनो-वाक्-काय-कर्माणि मे॑ शुद्ध्य॒न्तां॒

ज्योति॑ र॒हं ँवि॒रजा॑ विपा॒प्मा भू॑यास॒ᳺ॒ स्वाहा᳚ ॥ 66.3

अव्यक्तभावै-र॑हङ्का॒र॒र् ज्योति॑ र॒हं ँवि॒रजा॑ विपा॒प्मा भू॑यास॒ᳺ॒ स्वाहा᳚ ॥ 66.4

आत्मा मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं ँवि॒रजा॑ विपा॒प्मा भू॑यास॒ᳺ॒ स्वाहा᳚ ॥ 66.5

अन्तरात्मा मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं ँवि॒रजा॑ विपा॒प्मा भू॑यास॒ᳺ॒ स्वाहा᳚ ॥ 66.6

परमात्मा मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं ँवि॒रजा॑ विपा॒प्मा भू॑यास॒ᳺ॒ स्वाहा᳚ ॥ 66.7

क्षु॒धे स्वाहा᳚ । क्षुत्पि॑पासाय॒ स्वाहा᳚ ।

विवि॑ट्यै॒ स्वाहा᳚ । ऋग्वि॑धानाय॒ स्वाहा᳚ ।

क॒षो᳚त्काय॒ स्वाहा᳚ ॥ 66.8

क्षु॒त्पि॒पा॒साम॑लं ज्ये॒ष्ठा॒म॒ल॒क्ष्मीर् ना॑शया॒म्यहं । अभू॑ति॒-मस॑मृद्धि॒ञ्च॒ सर्वां (सर्वा) निर्णुद मे पाप्मा॑नᳺ स्वा॒हा ॥ 66.9

अन्नमय-प्राणमय-मनोमय-विज्ञ्आनमय-मानन्दमय-मात्मा मे॑ शुद्ध्य॒न्तां॒ ज्योति॑ र॒हं ँवि॒रजा॑ विपा॒प्मा भू॑यास॒ᳺ॒ स्वाहा᳚ ॥ 66.10

4.43 वैश्वदेव मन्त्राः T.A.6.68.1

अ॒ग्नये॒ स्वाहा᳚ । विश्वे᳚भ्यो दे॒वेभ्यः॒ स्वाहा᳚ । धृ॒वाय॑ भू॒माय॒ स्वाहा᳚ ।

धृ॒व॒क्षित॑ये॒ स्वाहा᳚ । अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा᳚ । अ॒ग्नये᳚ स्विष्ट॒कृते॒ स्वाहा᳚ ॥

धर्मा॑य॒ स्वाहा᳚ । अध॑र्माय॒ स्वाहा᳚ । अ॒द्भ्यः स्वाहा᳚ । ओ॒ष॒धि॒व॒न॒स्प॒तिभ्यः॒ स्वाहा᳚ । 67.1

र॒क्षो॒दे॒व॒ज॒नेभ्यः॒ स्वाहा᳚ ।

गृह्या᳚भ्यः॒ स्वाहा᳚ । अ॒व॒साने᳚भ्यः॒ स्वाहा᳚ । अ॒व॒सान॑पतिभ्यः॒ स्वाहा᳚ ।

स॒र्व॒भू॒तेभ्यः॒ स्वाहा᳚ । कामा॑य॒ स्वाहा᳚ । अ॒न्तरि॑क्षाय॒ स्वाहा᳚ । यदेज॑ति॒ जग॑ति॒ यच्च॒ चेष्ट॑ति॒ नाम्नो॑ भा॒गोऽयं नाम्ने॒ स्वाहा᳚ ।

पृ॒थि॒व्यै स्वाहा᳚ । अ॒न्तरि॑क्षाय॒ स्वाहा᳚ । 67.2

दि॒वे स्वाहा᳚ । सूर्या॑य॒ स्वाहा᳚ । च॒न्द्रम॑से॒ स्वाहा᳚ । नक्ष॑त्रेभ्यः॒ स्वाहा᳚ । इन्द्रा॑य॒ स्वाहा᳚ । बृह॒स्पत॑ये॒ स्वाहा᳚ । प्र॒जाप॑तये॒ स्वाहा᳚ ।

ब्रह्म॑णे॒ स्वाहा᳚ । स्व॒धा पि॒तृभ्यः॒ स्वाहा᳚ ।

नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा᳚ । 67.3

दे॒वेभ्यः॒ स्वाहा᳚ । पि॒तृभ्यः॑ स्व॒धाऽस्तु॑ । भू॒तेभ्यो॒ नमः॑ । म॒नु॒ष्ये᳚भ्यो॒ हन्ता᳚ । प्र॒जाप॑तये॒ स्वाहा᳚ । प॒र॒मे॒ष्ठिने॒ स्वाहा᳚ ॥

यथा कू॑पः श॒तधा॑रः स॒हस्र॑धारो॒ अक्षि॑तः ।

ए॒वा मे॑ अस्तु धा॒न्यꣳ स॒हस्र॑धार॒-मक्षि॑तं । धन॑धान्यै॒ स्वाहा᳚ ॥ ये भू॒ताः प्र॒चर॑न्ति॒ दिवा॒नक्तं॒ बलि॑-मि॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः᳚ ( ) ।

तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒ मयि॒ पुष्टिं॒ पुष्टि॑पतिर् दधातु॒ स्वाहा᳚ ॥ 67.4

(ओ॒ष॒धि॒व॒न॒स्प॒तिभ्यः॒ स्वाहा॒ - ऽन्तरि॑क्षाय॒ स्वाहा॒ - नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑ - वि॒तुद॑स्य॒ प्रेष्या॒ एकं॑ च) (A67)

ओं᳚ तद् ब्र॒ह्म । ओं᳚ तद् वा॒युः । ओं᳚ तदा॒त्मा । ओं᳚ तथ् स॒त्यं । ओं᳚ तथ् सर्वं᳚ । ओं᳚ तत् पुरो॒र् नमः ॥ 68.1

अन्तश्चरति॑ भूते॒षु॒ गुहायां ँवि॑श्व मू॒र्त्तिषु ।

त्वं ँयज्ञ्अस्त्वं ँवषट्कारस्त्व-मिद्रस्त्वꣳ रुद्रस्त्वं- ँविष्णुस्त्वं ब्रह्मत्वं॑ प्रजा॒पतिः ।

त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रों ॥ 68.2

4.44 प्राणाहुति मन्त्राः T.A.6.69.1

श्र॒द्धायां᳚ प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।

श्र॒द्धाया॑मपा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।

श्र॒द्धायां᳚ ँव्या॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।

श्र॒द्धाया॑मुदा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।

श्र॒द्धायाꣳ॑ समा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।

ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ ॥ 69.1

अ॒मृ॒तो॒प॒स्तर॑णमसि ॥ 69.2

श्र॒द्धायां᳚ प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।

शि॒वो मा॑ वि॒शाप्र॑दाहाय । प्रा॒णाय॒ स्वाहा᳚ ।

श्र॒द्धाया॑मपा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।

शि॒वो मा॑ वि॒शाप्र॑दाहाय । अ॒पा॒नाय॒ स्वाहा᳚ ।

श्र॒द्धायां᳚ ँव्या॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।

शि॒वो मा॑ वि॒शाप्र॑दाहाय । व्या॒नाय॒ स्वाहा᳚ ।

श्र॒द्धाया॑-मुदा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।

शि॒वो मा॑ वि॒शाप्र॑दाहाय । उ॒दा॒नाय॒ स्वाहा᳚ ।

श्र॒द्धायाꣳ॑ समा॒ने निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।

शि॒वो मा॑ वि॒शाप्र॑दाहाय । स॒मा॒नाय॒ स्वाहा᳚ ।

ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ ॥ 69.3

अ॒मृ॒ता॒पि॒धा॒नम॑सि ॥ 69.4

4.45 भुक्तान्नाभिमन्त्रण मन्त्राः T.A.6.70.1

श्र॒द्धायां᳚ प्रा॒णे निवि॑श्या॒ऽमृतꣳ॑ हु॒तं । प्रा॒ण मन्ने॑नाप्यायस्व ।

श्र॒द्धाया॑मपा॒ने निवि॑श्या॒ऽमृतꣳ॑ हु॒तं । अ॒पा॒न मन्ने॑नाप्यायस्व ।

श्र॒द्धायां᳚ ँव्या॒ने निवि॑श्या॒ऽमृतꣳ॑ हु॒तं । व्या॒न मन्ने॑नाप्यायस्व ।

श्र॒द्धाया॑-मुदा॒ने निवि॑श्या॒ऽमृतꣳ॑ हु॒तं । उ॒दा॒न मन्ने॑नाप्यायस्व ।

श्र॒द्धायाꣳ॑ समा॒ने निवि॑श्या॒ऽमृतꣳ॑ हु॒तं ।

स॒मान॒ मन्ने॑नाप्यायस्व ॥ 70.1

4.46 भोजनान्ते आत्मानुसन्धान मन्त्राः T.A.6.71.1

अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठञ्च॑ समा॒श्रितः ।

ईशः सर्वस्य जगतः प्रभुः प्रीणाति॑ विश्व॒भुक् ॥ 71.1

4.47 अवयवस्वस्थता प्रार्त्थना मन्त्रः T.A.6.72.1

वाङ्म॑ आ॒सन्न् । न॒सोः प्रा॒णः । अ॒क्ष्यो-श्चक्षुः॑ । कर्ण॑योः॒ श्रोत्रं᳚ । बा॒हु॒वोर् बलं᳚ । ऊ॒रु॒वो रोजः॑ । अरि॑ष्टा॒ विश्वा॒न्यङ्गा॑नि त॒नूः ।

त॒नुवा॑ मे स॒ह नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः ॥ 72.1

4.48 इन्द्र सप्तर्.षि सं ँवाद मन्त्रः T.A.6.73.1

वयः॑ सुप॒र्णा उप॑सेदु॒रिन्द्रं॑ प्रि॒य मे॑धा॒ ऋष॑यो॒ नाध॑मानाः । अप॑द्ध्वा॒न्त मू᳚र्णु॒हि पू॒र्धि चक्षु॑र्-मुमु॒ग्ध्य॑स्मान् नि॒धये॑ ऽवब॒द्धान् ॥ 73.1

4.49 हृदयालंभन मन्त्रः T.A.6.74.1

प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः ।

तेनान्नेना᳚-प्याय॒स्व ॥ 74.1

4.50 देवता प्राणनिरूपण मन्त्रः T.A.6.75.1

नमो रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥ 75.1

4.51 अग्नि स्तुति मन्त्रः T.A.6.76.1

त्वम॑ग्ने॒ द्युभि॒-स्त्वमा॑शु-शु॒क्षणि॒-स्त्वम॒द्भ्य-स्त्वमश्म॑न॒स्परि॑ ।

त्वं ँवने᳚भ्य॒-स्त्वमोष॑धीभ्य॒-स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥ 76.1

4.52 अभीष्ट याचना मन्त्रः T.A.6.77.1

शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्व सुभू॒तेन॑ मे॒ सन्ति॑ष्ठस्व ब्रह्मवर्च॒सेन॑ मे॒ सन्ति॑ष्ठस्व य॒ज्ञ्अस्यर्द्धि॒ मनु॒ सन्ति॑ष्ठ॒ स्वोप॑ ते यज्ञ्अ॒ नम॒ उप॑ ते॒ नम॒ उप॑ ते॒ नमः॑ ॥ 77.1

4.53 पर तत्त्व निरूपणं T.A.6.78.1

स॒त्यं परं॒ परꣳ॑ स॒त्यꣳ स॒त्येन॒ न सु॑व॒र्गा-ल्लो॒काच्च्य॑वन्ते

क॒दाच॒न स॒ताꣳ हि स॒त्यं तस्मा᳚थ् स॒त्ये र॑मन्ते॒, (78.1)

तप॒ इति॒ तपो॒ नानश॑ना॒त् परं॒ ँयद्धि परं॒ तप॒स्तद् दुध॑र्.षं॒

तद् दुरा॑धर्.षं॒ तस्मा॒त् तप॑सि रमन्ते॒, (78.2)

दम॒ इति॒ निय॑तं ब्रह्मचा॒रिण॒-स्तस्मा॒द् दमे॑ रमन्ते॒, (78.3)

शम॒ इत्यर॑ण्ये मु॒नय॒-स्तस्मा॒च्छमे॑ रमन्ते, (78.4)

दा॒नमिति॒ सर्वा॑णि भू॒तानि॑ प्र॒शꣳस॑न्ति दा॒नान्नाति॑ दु॒श्चरं॒ तस्मा᳚द् दा॒ने र॑मन्ते, (78.5)

ध॒र्म इति॒ धर्मे॑ण॒ सर्व॑मि॒दं परि॑गृहीतं ध॒र्मान्नाति॑-दु॒ष्करं॒ तस्मा᳚द् -ध॒र्मे र॑मन्ते, (78.6)

प्र॒जन॒ इति॒ भूयाꣳ॑॑स॒-स्तस्मा॒द् भूयि॑ष्ठाः॒ प्रजा॑यन्ते॒ तस्मा॒द् भूयि॑ष्ठाः प्र॒जन॑ने रमन्ते॒, (78.7)

ऽग्नय॒ इत्या॑ह॒ तस्मा॑-द॒ग्नय॒ आधा॑तव्या अग्निहो॒त्र-मित्या॑ह॒ तस्मा॑-दग्निहो॒त्रे र॑मन्ते, (78.8)

य॒ज्ञ्अ इति॑ य॒ज्ञ्ओ हि दे॒वा स्तस्मा᳚द् य॒ज्ञ्ए र॑मन्ते, (78.9)

मान॒स-मिति॑ वि॒द्वाꣳस॒-स्तस्मा᳚द् वि॒द्वाꣳस॑ ए॒व मा॑न॒से र॑मन्ते, (78.10)

न्या॒स इति॑ ब्र॒ह्मा ब्र॒ह्मा हि परः॒ परो॑ हि ब्र॒ह्मा तानि॒ वा ए॒तान्यव॑राणि॒

पराꣳ॑सि न्या॒स ए॒वात्य॑रेचय॒द् य ए॒वं ँवेदे᳚त्युप॒निषत् ॥ (78.11)

4.54 ज्ञ्आन साधन निरूपणं T.A.6.79.1

प्रा॒जा॒प॒त्यो हारु॑णिः सुप॒र्णेयः॑ प्र॒जाप॑तिं पि॒तर॒-मुप॑ससार॒ किं

भ॑गव॒न्तः प॑र॒मं ँव॑द॒न्तीति॒ तस्मै॒ प्रो॑वाच, (79.1)

स॒त्येन॑ वा॒युरावा॑ति स॒त्ये-ना॑दि॒त्यो रो॑चते दि॒वि स॒त्यं ँवा॒चः प्र॑ति॒ष्ठा

स॒त्ये स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚थ् स॒त्यं प॑र॒मं ँवद॑न्ति॒, (79.2)

तप॑सा दे॒वा दे॒वता॒-मग्र॑ आय॒न् तप॒सर्.ष॑यः॒ सुव॒रन्व॑-विन्द॒न् तप॑सा

स॒पत्ना॒न् प्रणु॑दा॒-मारा॑ती॒ स्तप॑सि स॒र्वं प्रति॑ष्ठितं॒ तस्मा॒त् तपः॑ पर॒मं ँवद॑न्ति॒, (79.3)

दमे॑न दा॒न्ताः कि॒ल्बिष॑-मवधू॒न्वन्ति॒ दमे॑न ब्रह्मचा॒रिणः॒ सुव॑रगच्छ॒न्

दमो॑ भू॒तानां᳚ दुरा॒धर्.षं॒ दमे॑ स॒र्वं प्रति॑ष्ठितं॒ तस्मा॒द् दमः॑ पर॒मं ँवद॑न्ति॒, (79.4)

शमे॑न शा॒न्ताः शि॒व-मा॒चर॑न्ति॒ शमे॑न ना॒कं मु॒नयो॒-ऽन्ववि॑न्द॒न् छमो॑

भू॒तानां᳚ दुरा॒धर्.षं॒ छमे॑ स॒र्वं प्रति॑ष्ठितं॒ तस्मा॒च्छमः॑ पर॒मं ँवद॑न्ति, (79.5)

दा॒नं ँय॒ज्ञ्आनां॒ ँवरू॑थं॒ दक्षि॑णा लो॒के दा॒तारꣳ॑ सर्व भू॒तान्यु॑पजी॒वन्ति॑

दा॒नेनारा॑ती॒-रपा॑नुदन्त दा॒नेन॑ द्विष॒न्तो मि॒त्रा भ॑वन्ति दा॒ने स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚द् दा॒नं प॑र॒मं ँवद॑न्ति, (79.6)

ध॒र्मो विश्व॑स्य॒ जग॑तः प्रति॒ष्ठा लो॒के ध॒र्मिष्ठं॑ प्र॒जा उ॑पस॒र्पन्ति॑ ध॒र्मेण॑

पा॒प-म॑प॒नुद॑ति ध॒र्मे स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚द् ध॒र्मं प॑र॒मं ँवद॑न्ति, (79.7)

प्र॒जन॑नं॒ ँवै प्र॑ति॒ष्ठा लो॒के सा॒धु प्र॒जाया᳚ स्त॒न्तुं-त॑न्वा॒नः पि॑तृ॒णा

म॑नृ॒णो भव॑ति॒ तदे॑व त॒स्या अनृ॑णं॒ तस्मा᳚त् प्र॒जन॑नं पर॒मं ँवद॑न्त्य॒, (79.8)

ग्नयो॒ वै त्रयी॑ वि॒द्या दे॑व॒यानः॒ पन्था॑ गार्.हप॒त्य ऋक्-पृ॑थि॒वी र॑थन्त॒र-म॑न्वाहार् य॒पच॑नं॒ ँयजु॑र॒न्तरि॑क्षं ँवामदे॒व्य मा॑हव॒नीयः॒ साम॑सुव॒र्गो लो॒को बृ॒हत्-तस्मा॑-द॒ग्नीन् प॑र॒मं ँवद॑न्त्य, (79.9)

ग्निहो॒त्रꣳ सा॑यं प्रा॒तर्-गृ॒हाणां॒-निष्कृ॑तिः॒ स्वि॑ष्टꣳ सुहु॒तं ँय॑ज्ञ्अक्रतू॒नां प्राय॑णꣳ सुव॒र्गस्य॑ लो॒कस्य॒ ज्योति॒-स्तस्मा॑-दग्निहो॒त्रं प॑र॒मं ँवद॑न्ति, (79.10)

य॒ज्ञ्अ इति॑ य॒ज्ञ्एन॒ हि दे॒वा दिवं॑ ग॒ता य॒ज्ञ्एनासु॑रा॒-नपा॑नुदन्त य॒ज्ञ्एन॑

द्विष॒न्तो मि॒त्रा भ॑वन्ति य॒ज्ञ्ए स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚द् य॒ज्ञ्अं प॑र॒मं ँवद॑न्ति, (79.11)

मान॒सं ँवै प्रा॑जाप॒त्यं प॒वित्रं॑ मान॒सेन॒ मन॑सा सा॒धु प॑श्यति मान॒सा

ऋष॑यः प्र॒जा अ॑सृजन्त मान॒से स॒र्वं प्रति॑ष्ठितं॒ तस्मा᳚न् मान॒सं प॑र॒मं ँवद॑न्ति, (79.12)

न्या॒स इ॒त्याहु॑र् मनी॒षिणो᳚ ब्र॒ह्माणं॑ ब्र॒ह्मा विश्वः॑ कत॒मः स्व॑य॒भुंः प्र॒जाप॑तिः सम् ँवथ्सर॒ इति॑, (79.13)

सम् ँवथ्स॒रो॑ ऽसावा॑दि॒त्यो य ए॒ष आ॑दि॒त्ये पुरु॑षः॒ स प॑रमे॒ष्ठी ब्रह्मा॒त्मा, (79.14)

याभि॑रादि॒त्य-स्तप॑ति र॒श्मिभि॒स्ताभिः॑ प॒र्जन्यो॑ वर्.षति प॒र्जन्ये॑-नौषधि-वनस्प॒तयः॒ प्रजा॑यन्त ओषधि-वनस्प॒तिभि॒-रन्नं॑ भव॒त्यन्ने॑न प्रा॒णाः प्रा॒णैर् बलं॒ बले॑न॒ तप॒-स्तप॑सा श्र॒द्धा श्र॒द्धया॑ मे॒धा मे॒धया॑ मनी॒षा म॑नी॒षया॒ मनो॒ मन॑सा॒ शान्तिः॒ शान्त्या॑ चि॒त्तं चि॒त्तेन॒ स्मृति॒ᳺ॒ स्मृत्या॒ स्मार॒ᳺ॒ स्मारे॑ण वि॒ज्ञ्आनं॑ ँवि॒ज्ञ्आने॑-ना॒त्मानं॑ ँवेदयति॒ तस्मा॑द॒न्नं दद॒न्थ् सर्वा᳚ण्ये॒तानि॑ ददा॒-त्यन्ना᳚त् प्रा॒णा भ॑वन्ति भू॒तानां᳚ प्रा॒णैर् मनो॒ मन॑सश्च वि॒ज्ञ्आनं॑ ँवि॒ज्ञ्आना॑-दान॒न्दो ब्र॑ह्म यो॒निः, (79.15)

स वा ए॒ष पुरु॑षः पञ्च॒धा प॑ञ्चा॒त्मा येन॒ सर्व॑मि॒दं प्रोतं॑ पृथि॒वी चा॒न्तरि॑क्षं च॒ द्यौश्च॒ दिश॑श्चावान्तरदि॒शाश्च॒ स वै सर्व॑मि॒दं जग॒थ्स स॒भूतꣳ॑ स भ॒व्यं जि॑ज्ञ्आस क्लृ॒प्त ऋ॑त॒जा रयि॑ष्ठा श्र॒द्धा स॒त्यो मह॑स्वान् त॒पसो॒ परि॑ष्ठा॒द्, (वरि॑ष्ठा॒द्) (79.16)

ज्ञ्आत्वा॑ तमे॒वं मन॑सा हृ॒दा च॒ भूयो॑ न मृ॒त्यु-मुप॑याहि वि॒द्वान् (79.17)

तस्मा᳚-न्न्या॒स-मे॒षां तप॑सा-मतिरिक्त॒माहु॑र्, (79.18)

वसुर॒ण्वो॑ वि॒भूर॑सि प्रा॒णे त्वमसि॑ सन्धा॒ता ब्रह्म॑न् त्वमसि॑ विश्व॒धृत्ते॑-जो॒दास् त्वम॑स्य॒ग्नि-र॑सि वर्चो॒दा-स्त्वम॑सि॒ सूर्य॑स्य द्युम्नो॒दा स्त्वम॑सि च॒न्द्रम॑स उपया॒मगृ॑हीतोऽसि ब्र॒ह्मणे᳚

त्वा॒ महस॒, (79.19)

ओमित्या॒त्मानं॑ ँयुञ्जीतै॒तद्वै म॑होप॒निष॑दं दे॒वानां॒ गुह्यं॒ ँय ए॒वं ँवेद॑

ब्र॒ह्मणो॑ महि॒मान॑-माप्नोति॒ तस्मा᳚द् ब्र॒ह्मणो॑ महि॒मान॑-मित्युप॒निषत् ॥ (79.20)

4.55 ज्ञ्आनयज्ञ्अः T.A.6.80.1

तस्यै॒वं ँवि॒दुषो॑ य॒ज्ञ्अस्या॒त्मा यज॑मानः-श्र॒ध्दापत्नी॒ शरी॑र-मि॒द्ध्ममुरो॒

वेदि॒र्-लोमा॑नि ब॒र॒.हिर्-वे॒दः-शिखा॒ हृद॑यं॒ ँयूपः॒ काम॒ आज्यं॑ म॒न्युः प॒शु-स्तपो॒ऽग्निर्-दमः॑ शमयि॒ता दक्षि॑णा॒-वाग्घोता᳚ प्रा॒ण

उ॑द्ग॒ता चक्षु॑रध्व॒र्युर्-मनो॒ ब्रह्मा॒ श्रोत्र॑म॒ग्नी-

ध्याव॒ध्द्रिय॑ते॒ सा दी॒क्षा यदश्र्ना॑ति॒ तध्दवि॒र्-यत्पिब॑ति॒ तद॑स्य सोमपा॒नं ँयद्रम॑ते॒ तदु॑प॒सदो॒ यथ् सं॒चर॑-त्युप॒विश॑-त्यु॒त्तिष्ठ॑ते च॒ सप्र॑व॒र्ग्यो॑ यन्मुखं॒ तदा॑हव॒नीयो॒ या व्याहृ॑ति-राहु॒तिर्-यद॑स्य वि॒ज्ञ्आनं॒ तज्जु॒होति॒ यथ्सा॒यं प्रा॒तर॑त्ति॒ तथ्स॒मिधं॒ ँयत्प्रा॒तर् म॒द्ध्यन्दि॑नꣳ सा॒यं च॒ तानि॒ सव॑नानि॒ ये अ॑होरा॒त्रे ते द॑र्.शपूर्णमा॒सौ ये᳚ऽर्द्धमा॒साश्च॒ मासा᳚श्च॒ ते चा॑तुर्मा॒स्यानि॒ य ऋ॒तव॒स्ते प॑शुब॒न्धा ये सं॑ ँवथ्स॒राश्च॑ परिवथ्स॒राश्च॒ तेऽह॑र्‌ग॒णाः स॑र्व वेद॒सं ँवा ए॒तथ् स॒त्रं ँयन्मर॑णं॒ तद॑व॒भृथ॑

ए॒तद्वै ज॑रामर्य-मग्निहो॒त्रꣳ स॒त्रं ँय ए॒वं ँवि॒द्वा-नु॑द॒गय॑ने प्र॒मीय॑ते

दे॒वाना॑मे॒व म॑हि॒मानं॑ ग॒त्वाऽऽदि॒त्यस्य॒ सायु॑ज्यं गच्छ॒त्यथ॒ यो द॑क्षि॒णे प्र॒मीय॑ते पितृ॒णा-मे॒व म॑हि॒मानं॑ ग॒त्वा च॒न्द्रम॑सः॒ सायु॑ज्यꣳ सलो॒कता॑-माप्नोत्ये॒तौ वै सू᳚र्या चन्द्र॒मसौ᳚र्-महि॒मानौ᳚ ब्राह्म॒णो वि॒द्वा-न॒भिज॑यति॒ तस्मा᳚द् ब्र॒ह्मणो॑ महि॒मान॑माप्नोति॒ तस्मा᳚द् ब्र॒ह्मणो॑ महि॒मान॑-मित्युप॒निषत् ॥ 80.1

स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥

॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

इति महानारायणोपनिषत् समाप्ता

Prapaataka Korvai with starting Padams of 1 to 80 Anuvaakams :-

(अम्भ॒स्यैक॑पञ्चा॒शच्छ॒तं - जा॒तवे॑दसे॒ चतु॑र्दश॒ - भूरन्नं॒ - भूर॒ग्नये॒ - भूर॒ग्नये॒ चैक॑मेकं - पाहि - पा॒हि च॒त्वारि॑ चत्वारि॒ - यः छन्द॑सां॒ द्वे - नमो॒ ब्रह्म॑णे - ऋ॒तं तपो॒ - यथा॑ वृ॒क्षस्यैक॑ मेक - म॒णोरणी॑या॒ᳺ॒ श्चतु॑स्त्रिꣳशथ् - सहस्र॒शी॑ष॒ꣳ॒ षट्वि॑ꣳशति - रादि॒त्यो वा ए॒ष - आ॑दि॒त्यो वै तेज॒ एक॑मेकं॒ - निध॑नपतये॒ त्रयो॑विꣳशतिः - स॒द्योजा॒तं त्रीणि॑ - वामदे॒वायैक॑ - म॒घोरे᳚भ्य॒ - स्तत्पुरु॑षाय॒ द्वे द्वे॒ - ईशानो - नमो हिरण्यबाहव॒ एक॑मेक - मृ॒तꣳ स॒त्यं द्वे - सर्वो॒ वै च॒त्वारि॒ - कदृ॒द्राय॒ त्रीणि॒ - यस्य॒ वै कङ्क॑ती - कृणु॒ष्व पाजो - ऽदि॑ति॒ - रापो॒ वा इ॒दꣳ सर्व॒ मेक॑मेक॒ - मापः॑ पुनन्तु च॒त्वा - र्यग्निश्च - सूर्यश्च नव॑ - न॒वोमिति॑ च॒त्वा - र्याया॑तु॒ पचौ - जो॑ऽसि॒ दशो॒ - त्तमे॑ च॒त्वारि॒ - घृणि॒स्त्रीणि॒ - ब्रह्म॑मेतु॒ मां ँयास्ते᳚ ब्रह्मह॒त्यां द्वाद॑श॒ - ब्रह्म॑ मे॒धया॒ऽद्या न॑ इ॒मं भ्रू॑षह॒त्यां - ब्रह्म॑ मे॒धवा᳚ ब्र॒ह्मा दे॒वाना॑मि॒दं ँवी॑रह॒त्यामेका॒न्न वि॑ꣳशति॒ रेका॒न्नवि॑ꣳशतिर् - मे॒धा दे॒वी - मे॒धां म॒ इन्द्र॑श्च॒त्वारि॑ चत्वा॒र्या - मां᳚ मे॒धा द्वे - मयि॑ मे॒धा मेक॒- मपै॑तु॒ - परं॒ - ँवातं॑ प्रा॒ण - म॑मुत्र॒भूया॒द् - द्धरि॒ꣳ॒ - शल्कै॑र॒ग्निं - मा छि॑दो मृत्यो॒ - मा नो॑ म॒हान्तं॒ - मान॑स्तो॒के - प्रजा॑पते - स्वस्ति॒दा - त्र्य॑म्बकं॒ - ँये ते॑ स॒हस्रं॒ द्वे द्वे - मृ॒त्यवे॒ स्वाहैकं॑ - दे॒वकृ॑त॒स्यैका॑दश॒ - यद्वो॑ देवाः॒ - कामोऽकार्.षी॒न् - मन्युरकार्.षी॒द् द्वे द्वे॒ - तिलाञ्जुहोमि गावः श्रियं प्र॑जाः पञ्च॒ - तिलाः कृण्षाश्चोर॑स्य॒ श्रीः प्रज्ञ्आतु जातवे॑दः स॒प्त - प्राण वाक् त्वक् छिर उत्तिष्ठ पुरुष॑ पञ्च॒ - पृथिवी शब्द मनो वाग् व्यक्ताऽऽत्माऽन्तरात्मा परमात्मा मे᳚ क्षु॒धेऽन्नमय॒ पञ्च॑दशा॒ - ग्नये॒ स्वाहैक॑चत्वारि॒ꣳ॒श - र्दो᳚ न्तद्ब्र॒ह्म नव॑ - श्र॒द्धायां᳚ प्रा॒णे निविष्ट॒ श्चतु॑र्विꣳशतिः - श्र॒द्धायां॒ दशा - ङ्गुष्ठ मात्रः पुरुषो द्वे - वाङ्म॑ आ॒सन्न॒ष्टौ - वयः॑ सुप॒र्.षाः - प्राणानां ग्रन्थिरसि द्वे द्वे - नमो रुद्रायैकं॒ - त्वम॑ग्ने॒ द्युभिर्॒ द्वे - शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व - स॒त्यं - प्रा॑जाप॒त्य - स्तस्यै॒व मेक॑ मेक॒ मशतिः)

Korvai with starting Padams of 1, 11, 21 Series of Dasinis :-

(अम्भ॑स्यपा॒रे - स्व॒स्ति नः॑ - पा॒हि नो॑ अग्न॒ एक॑या - ऽऽदि॒त्यो वा ए॒ष - ऋ॒तꣳ स॒त्य - मो मित्या - मां᳚ मे॒धा - मा न॑स्तो॒के - तिलाजुहोमि - श्र॒द्धायां᳚ प्रा॒णे निवि॑श्य॒ - तस्यै॒व मेकोत्त॑रश॒तम्)

===============================================

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

5. अरुणप्रश्नः-तैत्तिरीयारण्यकं

भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र् यज॑त्राः ।

स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳ स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ ँयदायुः॑ ॥

स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्-दधातु ॥

ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

1.1.1 अनुवाकं-1 T.A.1.1.3

भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र् यज॑त्राः ।

स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳ स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ ँयदायुः॑ ॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।

स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्-दधातु ॥ आप॑मापाम॒पः सर्वाः᳚ । अ॒स्मा-द॒स्मा-दि॒तोऽमुतः॑ । 1 (10)

अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒ह स॑ञ्च-स्क॒रर्द्धि॑या ॥

वा॒य्वश्वा॑ रश्मि॒पत॑यः । मरी᳚च्यात्मानो॒ अदृ॑हः । दे॒वीर् भु॑वन॒ सूव॑रीः । पु॒त्र॒व॒त्वाय॑ मे सुत ॥ महानाम्नीर्-म॑हामा॒नाः । म॒ह॒सो म॑हसः॒ स्वः॑ ।

दे॒वीः प॑र्जन्य॒ सूव॑रीः । पु॒त्र॒व॒त्वाय॑ मे सुत ॥ 2 (10)

अ॒पाश्न्यु॑ष्णि-म॒पा रक्षः॑ । अ॒पाश्न्यु॑ष्णि-म॒पा रघं᳚ । अपा᳚घ्रा॒मप॑ चा॒वर्तिं᳚ । अप॑ दे॒वीरि॒तो हि॑त ॥ वज्रं॑ दे॒वीरजी॑ताᳺश्च । भुव॑नं देव॒सूव॑रीः । आ॒दि॒त्यानदि॑तिं दे॒वीं । योनि॑नोद्‌र्ध्व-मु॒दीष॑त ॥

शि॒वा नः॒ शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः( ) । सु॒मृ॒डी॒का सर॑स्वति । मा ते॒ व्यो॑म स॒न्दृशि॑ ॥ 3 (12)

(अ॒मुतः॑ - सु॒ - तौष॑धयो॒ द्वे च॑ ) (A1)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 1 ॥

1.1.2 अनुवाकं-2 T.A.1.2.4

स्मृतिः॑ प्र॒त्यक्ष॑-मैति॒ह्यं᳚ । अनु॑मान-श्चतुष्ट॒यं । ए॒तैरादि॑त्य मण्डलं ।

सर्वै॑रेव॒ विधा᳚स्यते ॥ सूर्यो॒ मरी॑चि॒माद॑त्ते । सर्वस्मा᳚द् भुव॑नाद॒धि । तस्याः पाक वि॑शेषे॒ण । स्मृ॒तं का॑ल वि॒शेष॑णं ॥

न॒दीव॒ प्रभ॑वात् का॒चित् । अ॒क्षय्या᳚थ् स्यन्द॒ते य॑था । 4 (10)

तान्नद्योऽभि स॑माय॒न्ति । सो॒रुः सती॑ न नि॒वर्त॑ते ॥

ए॒वन्ना॒ना स॑मुत्था॒नाः । का॒लाः स॑म् ँवथ्स॒रᳺ श्रि॑ताः । अणुशश्च म॑हश॒श्च । सर्वे॑ समव॒यन्त्रि॑ तं ॥ स तैः᳚ स॒र्वैः स॑मावि॒ष्टः । ऊ॒रुः स॑न्न नि॒वर्त॑ते । अधिसम् ँवथ्स॑रं ँवि॒द्यात् । तदेव॑ लक्ष॒णे ॥ 5 (10)

अणुभिश्च म॑हद्भि॒श्च । स॒मारू॑ढः प्र॒दृश्य॑ते । सम् ँवथ्सरः प्र॑त्यक्षे॒ण । ना॒धिस॑वः प्र॒दृश्य॑ते ॥ प॒टरो॑ विक्लि॑धः पि॒ङ्गः ।

ए॒तद् व॑रुण॒ लक्ष॑णं । यत्रैत॑-दुप॒दृश्य॑ते । स॒हस्रं॑ तत्र॒ नीय॑ते ॥ एकꣳ हि शिरो ना॑ना मु॒खे । कृ॒थ्स्नं त॑दृत॒ लक्ष॑णं । 6 (10)

उभयतः सप्ते᳚न्द्रिया॒णि । ज॒ल्पितं॑ त्वेव॒ दिह्य॑ते ॥

शुक्लकृष्णे सम् ँव॑थ्सर॒स्य । दक्षिण वाम॑योः पा॒र्श्वयोः । तस्यै॒षा भव॑ति ॥ शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावः ।

भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॒स्त्विति॑ ॥

नात्र॒ भुव॑नं ( ) । न पू॒षा । न प॒शवः॑ ।

नादित्यः सम् ँवथ्सर एव प्रत्यक्षेण प्रियत॑मं ँवि॒द्यात् । एतद्वै सम् ँवथ्सरस्य प्रियत॑मꣳ रू॒पं । योऽस्य महानर्थ उत्पथ्स्यमा॑नो भ॒वति । इदं पुण्यं कु॑रुष्वे॒ति । तमाहर॑णं द॒द्यात् ॥ 7 (17)

(य॒था॒ - ल॒क्ष॒ण - ऋ॑तु॒लक्ष॑णं॒ - भुव॑नꣳ स॒प्त च॑ (A2)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः ।

ओउम् नमो नारायणाय ॥ 2 ॥

1.1.3 अनुवाकं-3 T.A.1.3.4

सा॒क॒ञ्जानाꣳ॑ स॒प्तथ॑माहु-रेक॒जं । षडु॑द्य॒मा ऋष॑यो देव॒जा इति॑ ।

तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः । स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ॥ कोनु॑ मर्या॒ अमि॑थितः ।

सखा॒ सखा॑यमब्रवीत् । जहा॑को अ॒स्मदी॑षते ॥

यस्ति॒त्याज॑ सखि॒विद॒ꣳ॒ सखा॑यं । न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति ।

यदीꣳ॑ शृ॒णोत्य॒लकꣳ॑ शृणोति । 8 (10)

न हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॒मिति॑ ॥ ऋ॒तुर्. ऋ॑तुना नु॒द्यमा॑नः । विन॑नादा॒भिधा॑वः । षष्टिश्च त्रिꣳश॑का व॒ल्गाः । शु॒क्लकृ॑ष्णौ च॒ षाष्टि॑कौ ॥ सा॒रा॒ग॒व॒स्त्रैर्-ज॒रद॑क्षः । व॒स॒न्तो वसु॑भिः स॒ह । स॒म् ँव॒थ्स॒रस्य॑ सवि॒तुः ।

प्रै॒ष॒कृत् प्र॑थ॒मः स्मृ॑तः ॥

अ॒मूना॒दय॑-तेत्य॒न्यान् । 9 (10)

अ॒मूᳺश्च॑ परि॒रक्ष॑तः । ए॒ता वा॒चः प्र॑युज्य॒न्ते । यत्रै त॑दुप॒दृश्य॑ते ॥ ए॒तदे॒व वि॑जानी॒यात् । प्र॒माणं॑ काल॒पर्य॑ये । वि॒शे॒ष॒णं तु॑ वक्ष्या॒मः । ऋ॒तूनां᳚ तन्नि॒बोध॑त ॥ शुक्लवासा॑ रुद्र॒गणः । ग्री॒ष्मेणा॑वर्त॒ते स॑ह ।

नि॒जह॑न् पृथि॑वीꣳ स॒र्वां । 10 (10)

ज्यो॒तिषा᳚ ऽप्रति॒ख्येन॑ सः ॥ वि॒श्व॒रू॒पाणि॑ वासा॒ꣳ॒सि । आ॒दि॒त्यानां᳚ नि॒बोध॑त । सम् ँवथ्सरीणं॑ कर्म॒फलं ।

वर्.षाभिर् द॑दता॒ꣳ॒ सह ॥ अदुःखो॑ दुःख च॑क्षुरि॒व । तद्मा॑ पीत इव॒ दृश्य॑ते । शीतेना᳚ व्यथ॑यन्नि॒व । रु॒रुद॑क्ष इव॒ दृश्य॑ते ॥ ह्लादयते᳚ ज्वल॑तश्चै॒व ( ) । शा॒म्यत॑श्चास्य॒ चक्षु॑षी । यावै प्रजा भ्रᳺ॑श्य॒न्ते । सम् ँवथ्सरात्ता भ्रᳺ॑श्य॒न्ते ॥ याः॒ प्रति॑तिष्ठ॒न्ति ।

सं ँवथ्सरे ताः प्रति॑तिष्ठ॒न्ति । व॒॒र्॒.षाभ्य॑ इत्य॒र्थः ॥ 11 (16)

(शृ॒णो॒ - त्य॒न्यान्थ् - स॒र्वा - मे॒व षट्च॑) (A3)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः ।

ओउम् नमो नारायणाय ॥ 3 ॥

1.1.4 अनुवाकं-4 T.A.1.4.3

अक्षि॑दुः॒खोत्थि॑तस्यै॒व । वि॒प्रस॑न्ने क॒नीनि॑के । आङ्क्ते चाद्ग॑णं ना॒स्ति । ऋ॒भूणां᳚ तन्नि॒बोध॑त ॥ क॒न॒का॒भानि॑ वासा॒ꣳ॒सि । अ॒हता॑नि नि॒बोध॑त ।

अन्नमश्र्नीत॑ मृज्मी॒त । अ॒हं ँवो॑ जीव॒नप्र॑दः ॥ ए॒ता वा॒चः प्र॑युज्य॒न्ते । श॒रद्य॑त्रोप॒ दृश्य॑ते । 12 (10)

अभिधून्वन्तो-ऽभिघ्न॑न्त इ॒व । वा॒तव॑न्तो म॒रुद्ग॑णाः ॥ अमुतो जेतुमिषुमु॑खमि॒व । सन्नद्धाः सह द॑दृशे॒ ह । अपद्ध्वस्तैर्-वस्तिव॑र्णैरि॒व । वि॒शि॒खासः॑ कप॒र्दिनः ॥ अकृद्धस्य योथ्स्य॑मान॒स्य । कृ॒द्धस्ये॑व॒ लोहि॑नी । हेमतश्चक्षु॑षी वि॒द्यात् । अ॒क्ष्णयोः᳚ क्षिप॒णोरि॑व ॥ 13 (10)

दुर्भिक्षं देव॑लोके॒षु । म॒नूना॑मुद॒कं गृ॑हे । ए॒ता वा॒चः प्र॑वद॒न्तीः । वै॒द्युतो॑ यान्ति॒ शैशि॑रीः ॥ ता अ॒ग्निः पव॑माना॒ अन्वै᳚क्षत ।

इ॒ह जी॑वि॒काम-प॑रिपश्यन्न् । तस्यै॒षा भव॑ति ॥ इ॒हेह वः॑ स्वत॒पसः । मरु॑तः॒ सूर्य॑त्वचः । शर्म॑ स॒प्रथा॒ आवृ॑णे ( ) ॥ 14 (10)

(दृश्य॑त - इ॒वा - वृ॑णे) (A4)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 4 ॥

1.1.5 अनुवाकं-5 T.A.1.5.2

अति॑ ता॒म्राणि॑ वासा॒ꣳ॒सि । अ॒ष्टिव॑ज्रि श॒तघ्नि॑ च ।

विश्वे देवा विप्र॑हर॒न्ति । अ॒ग्निजि॑ह्व अ॒सश्च॑त ॥ नैव देवो॑ न म॒र्त्यः । न राजा व॑रुणो॒ विभुः । नाग्निर् नेन्द्रो न प॑वमा॒नः । मा॒तृक्क॑च्च न॒ विद्य॑ते ॥ दि॒व्यस्यैका॒ धनु॑रार्त्निः । पृ॒थि॒व्यामप॑रा श्रि॒ता । 15 (10)

तस्येन्द्रो वम्रि॑रूपे॒ण । ध॒नुर्ज्या॑-मछि॒नथ्स्व॑यं ॥ तदि॑न्द्र॒धनु॑रित्य॒ज्यं । अ॒भ्रव॑र्णेषु॒ चक्ष॑ते । एतदेव शम् ँयोर्-बार्.ह॑स्पत्य॒स्य । ए॒तद् रु॑द्रस्य॒ धनुः ॥ रु॒द्रस्य॑ त्वेव॒ धनु॑रार्त्निः । शिर॒ उत्पि॑पेष ।

स प्र॑व॒र्ग्यो॑ऽभवत् । तस्मा॒द् यः सप्र॑व॒र्ग्येण॑ य॒ज्ञ्एन॒ यज॑ते ( ) । रु॒द्रस्य॒ स शिरः॒ प्रति॑दधाति । नैनꣳ॑ रु॒द्र आरु॑को भवति । य ए॒वं ँवेद॑ ॥ 16 (13)

(श्रि॒ता - यज॑ते॒ त्रीणि॑ च) (A5)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 5 ॥

1.1.6 अनुवाकं-6 T.A.1.6.3

अ॒त्यू॒द्‌र्ध्वा॒क्षोऽति॑रश्चात् । शिशि॑रः प्र॒दृश्य॑ते ।

नैव रूपं न॑ वासा॒ꣳ॒सि । न चक्षुः॑ प्रति॒दृश्य॑ते ॥ अ॒न्योन्यं॒ तु न॑ हिᳺस्रा॒तः । स॒त स्त॑द् देव॒लक्ष॑णं । लोहितोऽक्ष्णि शा॑रशी॒र्ष्णिः ।

सू॒र्यस्यो॑दय॒नं प्र॑ति ॥

त्वं करोषि॑ न्यञ्ज॒लिकां । त्वं॒ करो॑षि नि॒जानु॑कां । 17 (10)

निजानुकामे᳚ न्यञ्ज॒लिका । अमी वाच-मुपास॑तामि॒ति ॥

तस्मै सर्व ऋतवो॑ नम॒न्ते । मर्यादा करत्वात् प्र॑पुरो॒धां । ब्राह्मण॑ आप्नो॒ति । य ए॑वं ँवे॒द ।

स खलु सम् ँवथ्सर एतैः सेनानी॑भिः स॒ह ।

इन्द्राय सर्वान्-कामान॑भिव॒हति । स द्र॒॒फ्सः ।

तस्यै॒षा भव॑ति ॥ 18 (10)

अव॑ द्र॒फ्सो अꣳ॑श॒मती॑मतिष्ठत् । इ॒या॒नः कृ॒ष्णो द॒शभिः॑ स॒हस्रैः᳚ । आव॒र्त-मिन्द्रः॒ शच्या॒ धम॑न्तं । उपस्नुहि तं नृमणा-मथ॑द्रामि॒ति ॥ एतयै वेन्द्रः सला वृ॑क्या स॒ह । असुरान् प॑रिवृ॒श्चति । पृथि॑व्य॒ꣳ॒ शुम॑ती । ताम॒न्व-व॑स्थितः सम् ँवथ्स॒रो दि॒वञ्च॑ । नैवं ँविदुषा-ऽऽचार्या᳚न् तेवा॒सिनौ । अन्योन्यस्मै᳚ दृह्या॒तां ( ) ।

यो दृ॒ह्यति । भ्रश्यते स्व॑र्गाल् लो॒कात् । इत्यतु म॑ण्डला॒नि ।

सूर्य मण्डला᳚ न्याख्या॒यिकाः ।

अत ऊद्‌र्ध्वꣳस॑निर्व॒चनाः ॥ 19 (15)

(नि॒जानु॑कां॒ - भव॑ति - दृह्या॒तां पञ्च॑ च) (A6)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः ।

ओउम् नमो नारायणाय ॥ 6 ॥

1.1.7 अनुवाकं-7 T.A.1.7.6

आरोगो भ्राजः पटरः॑ पत॒ङ्गः । स्वर्णरो ज्योतिषीमान्॑. विभा॒सः । ते अस्मै सर्वे दिवमा॑तप॒न्ति । ऊर्जं दुहाना अनपस्फुर॑न्त इ॒ति ॥ कश्य॑पोऽष्ट॒मः ।

स महामेरुं न॑ जहा॒ति । तस्यै॒षा भव॑ति ॥

यत्ते॒ शिल्पं॑ कश्यप रोच॒नाव॑त् । इ॒न्द्रि॒याव॑त् पुष्क॒लं चि॒त्रभा॑नु ।

यस्मि॒न् थ्सूर्या॒ अर्पि॑ताः स॒प्त सा॒कं । 20 (10)

तस्मिन् राजान-मधिविश्रये॑ममि॒ति ॥

ते अस्मै सर्वे कश्यपा-ज्ज्योति॑र्-लभ॒न्ते ।

तान्थ्सोमः कश्यपादधि॑ निर्द्ध॒मति । भ्रस्ता कर्म कृ॑दिवै॒वं ॥ प्राणो जीवानीन्द्रिय॑ जीवा॒नि । सप्त शीर्.ष॑ण्याः प्रा॒णाः । सूर्या इ॑त्याचा॒र्याः ॥ अपश्यमह मेतान्थ् सप्त सू᳚र्यानि॒ति । पञ्चकर्णो॑ वाथ्स्या॒यनः । सप्तकर्ण॑श्च प्ला॒क्षिः । 21 (10)

आनुश्रविक एव नौ कश्य॑प इ॒ति । उभौ॑ वेद॒यिते ।

न हि शेकुमिव महामे॑रुं ग॒न्तुं ॥

अपश्यमहमेतथ् सूर्यमण्डलं परिव॑र्तमा॒नं ।

गा॒र्ग्यः प्रा॑णत्रा॒तः । गच्छन्त म॑हामे॒रुं । एक॑ञ्चाज॒हतं ॥ भ्राजपटर पत॑ङ्गा नि॒हने । तिष्ठन्ना॑तप॒न्ति । तस्मा॑दि॒ह तप्त्रि॑ तपाः । 22 (10)

अ॒मुत्रे॒तरे । तस्मा॑दि॒हा तप्त्रि॑ तपाः ॥ तेषा॑मेषा॒ भव॑ति ॥ स॒प्त सूर्या॒ दिव॒-मनु॒ प्रवि॑ष्टाः । तान॒न्वेति॑ प॒थिभि॑र् दक्षि॒णावान्॑ । ते अस्मै सर्वे घृतमा॑तप॒न्ति । ऊर्जं दुहाना अनपस्फुर॑न्त इ॒ति ॥

सप्तर्त्विजः सूर्या इ॑त्याचा॒र्याः ॥ तेषा॑मेषा॒ भव॑ति ॥

स॒प्त दिशो॒ नाना॑ सूर्याः । 23 (10)

स॒प्त होता॑र ऋ॒त्विजः॑ । देवा आदित्या॑ ये स॒प्त ।

तेभिः सोमाभी रक्ष॑ण इ॒ति ॥ तद॑प्याम्ना॒यः । दिग्भ्राज ऋतू᳚न् करो॒ति ॥ एत॑यैवा॒वृता ऽऽसहस्रसूर्यताया इति वै॑शम्पा॒यनः ॥ तस्यै॒षा भव॑ति ॥ यद्द्याव॑ इन्द्र ते श॒तꣳ श॒तं भूमीः᳚ । उ॒त स्युः । न त्वा॑ वज्रिन्‌थ् स॒हस्र॒ꣳ॒ सूर्याः᳚ ( ) । 24 (10)

अनु न जातमष्ट रोद॑सी इ॒ति ॥ नाना लिङ्गत्वा-दृतूनां नाना॑ सूर्य॒त्वं ॥ अष्टौ तु व्यवसि॑ता इ॒ति ॥ सूर्यमण्डला-न्यष्टा॑त ऊ॒द्‌र्ध्वं ॥

तेषा॑मेषा॒ भव॑ति ॥ चि॒त्रं दे॒वाना॒-मुद॑गा॒दनी॑कं । चक्षु॑र् मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आऽप्रा॒ द्यावा॑ पृथि॒वी अ॒न्तरि॑क्षं ।

सूर्य आत्मा जगतस्तस्थु॑षश्चे॒ति ॥ 25 (9)

(सा॒कं - प्ला॒क्षि - स्तप्त्रि॑तपा॒ - नाना॑सूर्याः॒ - सूर्या॒ - +नव॑ च) (A7)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 7 ॥

1.1.8 अनुवाकं-8 T.A.1.8.8

क्वेदमभ्रं॑ निवि॒शते । क्वायꣳ॑ सम् ँवथ्स॒रो मि॑थः । क्वाहः क्वेयन् दे॑व रा॒त्री । क्व मासा ऋ॑तवः॒ श्रिताः ॥ अर्द्धमासा॑ मुहू॒र्ताः । निमेषास्तु॑टिभिः॒ (निमेषास्त्र॑टिभिः॒) सह । क्वेमा आपो नि॑विश॒न्ते । य॒दीतो॑ यान्ति॒ संप्र॑ति ॥ काला अफ्सु नि॑विश॒न्ते । आ॒पः सूर्ये॑ स॒माहि॑ताः । 26 (10)

अभ्रा᳚ण्य॒पः प्र॑पद्य॒न्ते । वि॒द्युथ्सूर्ये॑ स॒माहि॑ता ॥ अनवर्णे इ॑मे भू॒मी । इ॒यञ्चा॑सौ च॒ रोद॑सी ॥ किᳺ स्विदत्रान्त॑रा भू॒तं । ये॒नेमे वि॑धृते॒ उभे ।

वि॒ष्णुना॑ विधृ॑ते भू॒मी । इ॒ति व॑थ्सस्य॒ वेद॑ना ॥

इरा॑वती धेनु॒मती॒ हि भू॒तं । सू॒य॒व॒सिनी॒ मनु॑षे दश॒स्ये᳚ । 27 (10)

व्य॑ष्टभ्ना॒-द्रोद॑सी॒ विष्ण॑वे॒ते । दा॒धर्थ॑ पृथि॒वी-म॒भितो॑ म॒यूखैः᳚ ॥ किन्त-द्विष्णो र्बल॑मा॒हुः । का॒ दीप्तिः॑ किं प॒राय॑णं ।

एको॑ य॒द्धा-र॑य द्दे॒वः । रे॒जती॑ रोद॒सी उ॑भे ॥ वाताद्विष्णोर् ब॑ल मा॒हुः । अ॒क्षरा᳚द् दीप्ति॒ रुच्य॑ते । त्रि॒पदा॒द्धार॑यद् दे॒वः ।

यद्विष्णो॑रेक॒-मुत्त॑मं ॥ 28 (10)

अ॒ग्नयो॑ वाय॑वश्चै॒व । ए॒तद॑स्य प॒राय॑णं ॥ पृच्छामि त्वा प॑रं मृ॒त्युं । अ॒वमं॑ मद्ध्य॒मञ्च॑तुं । लो॒कञ्च॒ पुण्य॑पापा॒नां ।

ए॒तत् पृ॑च्छामि॒ संप्र॑ति ॥ अ॒मुमा॑हुः प॑रं मृ॒त्युं । प॒वमा॑नं तु॒ मद्ध्य॑मं ।

अ॒ग्निरे॒वाव॑मो मृ॒त्युः । च॒न्द्रमा᳚-श्चतु॒रुच्य॑ते ॥ 29 (10)

अ॒ना॒भो॒गाः प॑रं मृ॒त्युं । पा॒पाः स॑म् ँयन्ति॒ सर्व॑दा । आभोगास्त्वेव॑ सम् ँय॒न्ति । य॒त्र पु॑ण्यकृ॒तो ज॑नाः ॥ ततो॑ म॒द्ध्यम॑माय॒न्ति । च॒तुम॑ग्निञ्च॒ संप्र॑ति ॥ पृच्छामि त्वा॑ पाप॒कृतः । य॒त्र या॑तय॒ते य॑मः ।

त्वन्नस्तद् -ब्रह्म॑न् प्रब्रू॒हि । य॒दि वे᳚त्थाऽस॒तो गृ॑हान् ॥ 30 (10)

क॒श्यपा॑ दुदि॑ताः सू॒र्याः । पा॒पान्नि॑र्घ्नन्ति॒ सर्व॑दा ।

रोदस्योरन्त॑र् देशे॒षु । तत्र न्यस्यन्ते॑ वास॒वैः ॥ ते ऽशरीराः प्र॑पद्य॒न्ते । य॒था ऽपु॑ण्यस्य॒ कर्म॑णः । अपा᳚ण्य॒पाद॑ केशा॒सः । त॒त्र ते॑ऽयोनि॒जा ज॑नाः ॥ मृत्वा पुनर्मृत्यु-मा॑पद्य॒न्ते ।

अ॒द्यमा॑नाः स्व॒कर्म॑भिः । 31 (10)

आशातिकाः क्रिम॑य इ॒व । ततः पूयन्ते॑ वास॒वैः ॥

अपै॑तं मृ॒त्युं ज॑यति । य ए॒वं ँवेद॑ । स खल्वैवं॑ ँविद्ब्रा॒ह्मणः । दी॒र्घशृ॑त्तमो॒ भव॑ति । कश्य॑प॒स्याति॑थिः॒ सिद्धग॑मनः॒ सिद्धाग॑मनः ॥

तस्यै॒षा भव॑ति ॥ आयस्मिन᳚-थ्स॒प्त वा॑स॒वाः ।

रोह॑न्ति पू॒र्व्या॑ रुहः॑ । 32 (10)

ऋषि॑र्.ह दीर्घ॒शृत्त॑मः । इन्द्रस्य घर्मो अति॑थिरि॒ति ॥

कश्यपः पश्य॑को भ॒वति । यथ्सर्वं परिपश्यती॑ति सौ॒क्ष्म्यात् ॥ अथाग्ने॑रष्टपु॑रुष॒स्य । तस्यै॒षा भव॑ति ॥ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् ।

विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒द्ध्य॑स्म-ज्जु॑हुरा॒णमेनः॑ । भूयिष्ठान्ते नम उक्तिं ँवि॑धेमे॒ति ( ) ॥ 33 (10)

स॒माहि॑ता - दश॒स्ये॑ - उत्त॑म॒-मुच्य॑ते-गृहान्-थ्स्व॒कर्म॑भिः-पू॒र्व्या॑ रुह॑-इ॒ति) (A8)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः ।

ओउम् नमो नारायणाय ॥ 8 ॥

1.1.9 अनुवाकं-9 T.A.1.9.7

अग्निश्च जात॑वेदा॒श्च । सहोजा अ॑जिरा॒प्रभुः । वैश्वानरो न॑र्यापा॒श्च । प॒ङ्क्तिरा॑धाश्च॒ सप्त॑मः । विसर्पे वाष्ट॑मोऽग्नी॒नां । एतेऽष्टौ वसवः क्षि॑ता इ॒ति ॥ यथर्त्वे-वाग्ने-रर्चिर्वर्ण॑ विशे॒षाः ।

नीलार्चिश्च पीतका᳚र्चिश्चे॒ति ॥ अथ वायो-रेकादश-पुरुषस्यैकादश॑स्त्रीक॒स्य ॥

प्रभ्राजमाना व्य॑वदा॒ताः । 34 (10)

याश्च वासु॑कि वै॒द्युताः । रजताः परु॑षाः श्या॒माः ।

कपिला अ॑तिलो॒हिताः । ऊद्‌र्ध्वा अवप॑तन्ता॒श्च । वैद्युत इ॑त्येका॒दश ॥ नैनं ँवैद्युतो॑ हिन॒स्ति । य ए॑वं ँवे॒द ॥ स होवाच व्यासः पा॑राश॒र्यः ।

विद्युद्वधमेवाहं मृत्युमै᳚च्छमि॒ति ॥ न त्वका॑मꣳ ह॒न्ति । 35 (10)

य ए॑वं ँवे॒द ॥ अथ ग॑न्धर्व॒गणाः । स्वान॒ भ्राट् । अङ्घा॑रि॒र् बंभा॑रिः । हस्तः॒ सुह॑स्तः । कृशा॑नुर् वि॒श्वाव॑सुः । मूद्‌र्धन्वान्थ्-सू᳚र्यव॒र्चाः । कृतिरित्येकादश ग॑न्धर्व॒गणाः ॥ देवाश्च म॑हादे॒वाः । रश्मयश्च देवा॑ गर॒गिरः ॥ 36 (10)

नैनं गरो॑ हिन॒स्ति । य ए॑वं ँवे॒द ॥ गौ॒री मि॑माय सलि॒लानि॒ तक्ष॑ती । एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी᳚ । सहस्राक्षरा परमे व्यो॑मन्नि॒ति ॥ वाचो॑ विशे॒षणं ॥

अथ निगद॑व्याख्या॒ताः । ताननुक्र॑मिष्या॒मः ॥

व॒राहवः॑-स्वत॒पसः । 37 (10)

वि॒द्युन् म॑हसो॒ धूप॑यः । श्वापयो गृहमेधा᳚श्चेत्ये॒ते । ये॒ चेमेऽशि॑मिवि॒द्विषः ॥ पर्जन्याः सप्त पृथिवीमभिव॑र्.ष॒न्ति ।

वृष्टि॑भिरि॒ति । एतयैव विभक्ति वि॑परी॒ताः । स॒प्तभि॒र्वातै॑ रुदी॒रिताः । अमूं ँलोका-नभिव॑र्.ष॒न्ति । तेषा॑मेषा॒ भव॑ति ॥ स॒मा॒न-मे॒तदुद॑कं । 38 (10)

उ॒च्चैत्य॑व॒ चाह॑भिः । भूमिं॑ प॒र्जन्या॒ जिन्व॑न्ति ।

दिवं जिन्वन्-त्यग्न॑य इ॒ति ॥ यदक्ष॑रं भू॒तकृ॑तं । विश्वे॑ देवा उ॒पास॑ते । म॒हर्.षि॑मस्य गो॒प्तारं᳚ । ज॒मद॑ग्नि॒-मकु॑र्वत ॥ ज॒मद॑ग्नि॒-राप्या॑यते । छन्दो॑भि-श्चतुरुत्त॒रैः । राज्ञ्अः॒ सोम॑स्य तृ॒प्तासः॑ । 39 (10)

ब्रह्म॑णा वी॒र्या॑वता । शि॒वा नः॑ प्र॒दिशो॒ दिशः॑ ॥ तच्छ॒ ँय्योरा वृ॑णीमहे । गा॒तुं ँय॒ज्ञ्आय॑ । गा॒तुं ँय॒ज्ञ्अप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः ।

स्व॒स्तिर् मानु॑षेभ्यः । ऊ॒द्‌र्ध्वं जि॑गातु भेष॒जं ।

शन्नो॑ अस्तु द्वि॒पदे᳚ । शञ्चतु॑ष्पदे ( ) ॥

सोमपा(3) असोमपा(3) इति निगद॑व्याख्या॒ताः ॥ 40 (11)

(व्य॒व॒दा॒ता - ह॒न्ति-ग॑र॒गिर - स्त॒पस - उद॑कं - तृप्तास॒ - श्वतु॑ष्पद॒ एकं॑ च) (A9)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः ।

ओउम् नमो नारायणाय ॥ 9 ॥

1.1.10 अनुवाकं-10 T.A.1.10.7

स॒ह॒स्र॒वृदि॑यं भू॒मिः । प॒रं ँव्यो॑म स॒हस्र॑वृत् । अ॒श्विना॑ भुज्यू॑ नास॒त्या । वि॒श्वस्य॑ जग॒तस्प॑ती ॥ जाया भूमिः प॑तिर्व्यो॒म । मि॒थुन॑न्ता अ॒तुर्य॑थुः । पुत्रो बृहस्प॑ती रु॒द्रः । स॒रमा॑ इति॑ स्त्रीपु॒मं ॥ शु॒क्रं ँवा॑म॒न्यद्य॑ज॒तं ँवा॑म॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑व स्थः । 41 (10)

विश्वा॒ हि मा॒या अव॑थः स्वधावन्तौ । भ॒द्रा वां᳚ पूषणावि॒ह रा॒तिर॑स्तु ॥ वासा᳚त्यौ चि॒त्रौ जग॑तो नि॒धानौ᳚ । द्यावा॑भूमी च॒रथः॑ स॒ꣳ॒ सखा॑यौ ।

ताव॒श्विना॑ रा॒सभा᳚श्वा॒ हवं॑ मे । शु॒भ॒स्प॒ती॒ आ॒गतꣳ॑ सू॒र्यया॑ स॒ह ॥ त्युग्रो॑ ह भु॒ज्यु-म॑श्विनोद मे॒घे । र॒यिन्न कश्चि॑न् ममृ॒वा ँ(2) अवा॑हाः । तमू॑हथुर्-नौ॒भिरा᳚त्म॒न्-वती॑भिः ।

अ॒न्त॒रि॒क्ष॒ पृड्भि॒र-पो॑दकाभिः ॥ 42 (10)

ति॒स्रः क्षप॒स्त्रिरहा॑ ऽति॒व्रज॑द्भिः । नास॑त्या भु॒ज्युमू॑हथुः पत॒ङ्गैः । स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे । त्रि॒भी रथैः᳚ श॒तप॑द्भिः॒ षड॑श्वैः ॥ स॒वि॒तारं॒ ँवित॑न्वन्तं । अनु॑बद्ध्नाति शांब॒रः । आपपूर्.षं-ब॑रश्चै॒व ।

स॒विता॑ ऽरेप॒सो॑ ऽभवत् ॥ त्यꣳ सुतृप्तं ँवि॑दित्वै॒व । ब॒हुसो॑म गि॒रं ँव॑शी । 43 (10)

अन्वेति तुग्रो व॑क्रिया॒न्तं । आयसूयान्थ् सोम॑तृफ्सु॒षु ॥

स सङ्ग्राम-स्तमो᳚द्योऽत्यो॒तः । वाचो गाः पि॑पाति॒ तत् ।

स तद्गोभिः स्तवा᳚ ऽत्येत्य॒न्ये । र॒क्षसा॑ ऽनन्वि॒ताश्च॑ ये ॥ अ॒न्वेति॒ परि॑वृत्त्या॒ऽस्तः । ए॒वमे॒तौ स्थो॑ अश्विना । ते ए॒ते द्युः॑ पृथि॒व्योः । अह॑रह॒र्-गर्भ॑न्दधाथे ॥ 44 (10)

तयो॑ रे॒तौ व॒थ्सा व॑होरा॒त्रे । पृ॒थि॒व्या अहः॑ । दि॒वो रात्रिः॑ । ता अवि॑सृष्टौ । दंप॑ती ए॒व भ॑वतः ॥ तयो॑ रे॒तौ व॒थ्सौ । अ॒ग्निश्चा॑-दि॒त्यश्च॑ । रा॒त्रेर्व॒थ्सः । श्वे॒त आ॑दि॒त्यः । अह्नो॒ऽग्निः । 45 (10)

ता॒म्रो अ॑रु॒णः । ता अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः ॥ तयो॑ रे॒तौ व॒थ्सौ । वृ॒त्रश्च॑ वैद्यु॒तश्च॑ । अ॒ग्नेर्वृ॒त्रः । वै॒द्युत॑ आदि॒त्यस्य॑ ।

ता अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः ॥ तयो॑ रे॒तौ व॒थ्सौ । 46 (10)

उ॒ष्मा च॑ नीहा॒रश्च॑ । वृ॒त्रस्यो॒ष्मा । वै॒द्यु॒तस्य॑ नीहा॒रः । तौ तावे॒व प्रति॑पद्येते ॥ सेयꣳ रात्री॑ ग॒र्भिणी॑ पु॒त्रेण॒ सम् ँव॑सति ।

तस्या॒ वा ए॒तदु॒ल्बणं᳚ । यद्रात्रौ॑ र॒श्मयः॑ । यथा॒ गोर्ग॒र्भिण्या॑ उ॒ल्बणं᳚ । ए॒वमे॒तस्या॑ उ॒ल्बणं᳚ ॥ प्रजयिष्णुः प्रजया च पशुभि॑श्च भ॒वति ( ) ।

य ए॑वं ँवे॒द । एतमुद्यन्त-मपिय॑न्तञ्चे॒ति । आदित्यः पुण्य॑स्य व॒थ्सः । अथ पवि॑त्राङ्गि॒रसः ॥ 47 (14)

(स्थो - ऽपो॑दकाभिर् - वशी - दधाथे - अ॒ग्नि - स्तयो॑ रे॒तौ व॒थ्सौ - भ॒वति च॒त्वारि॑ च) (A10)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः ।

ओउम् नमो नारायणाय ॥ 10 ॥

1.1.11 अनुवाकं-11 T.A.1.11.8

प॒वित्र॑वन्तः॒ परि॒वाज॒मास॑ते । पि॒तैषां᳚ प्र॒त्नो अ॒भिर॑क्षति व्र॒तं । म॒हस्स॑मु॒द्रं ँवरु॑ण स्ति॒रोद॑धे । धीरा॑ इच्छेकु॒र्‌द्धरु॑णेष्वा॒रभं᳚ ॥

प॒वित्रं॑ ते॒ वित॑तं॒ ब्रह्म॑ण॒स्पते᳚ । प्रभु॒र्गात्रा॑णि॒ पर्ये॑षि वि॒श्वतः॑ ।

अत॑प्ततनू॒र् न तदा॒मो अ॑श्नुते । श्रृ॒तास॒ इद्वह॑न्-त॒स्तथ् समा॑शत ॥ “ब्र॒ह्मा दे॒वानां᳚{1}” ॥ अस॑तः स॒द्ये तत॑क्षुः । 48 (10)

ऋष॑यः स॒प्तात्रि॑श्च॒ यत् । सर्वेऽत्रयो अ॑गस्त्य॒श्च ।

नक्ष॑त्रैः॒ शङ्कृ॑तो ऽवसन्न् ॥ अथ॑ सवितुः॒ श्यावाश्व॒स्या ऽवर्त्ति॑कामस्य ॥ अ॒मी य ऋक्षा॒ निहि॑ता स उ॒च्चा । नक्तं॒ ददृ॑श्रे॒ कुह॑चि॒द्दिवे॑युः ।

अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ । वि॒चा॒कश॑-च्च॒न्द्रमा॒ नक्ष॑त्रमेति ॥ तथ् स॑वि॒तुर् वरे᳚ण्यं । भर्गो॑ दे॒वस्य॑ धीमहि । 49 (10)

धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥ तथ्स॑वि॒तुर् वृ॑णीमहे ।

व॒यं दे॒वस्य॒ भोज॑नं । श्रेष्ठꣳ॑ सर्व॒धात॑मं । तुरं॒ भग॑स्य धीमहि ॥

अपा॑गूहत सविता॒ तृभीन्॑ । सर्वा᳚न् दि॒वो अन्ध॑सः ।

नक्त॑न्त;॒तान्य॑भवन् दृ॒शे । अस्थ्य॒स्थ्ना संभ॑विष्यामः ॥ नाम॒ नामै॒व ना॒म मे᳚ । 50 (10)

नपुꣳस॑कं॒ पुमा॒ᳺ॒स्त्र्य॑स्मि । स्थाव॑रोऽस्म्यथ॒ जङ्ग॑मः ।

य॒जेऽयक्षि॒ यष्टा॒हे च॑ ॥ मया॑ भू॒तान्य॑यक्षत । प॒शवो॑ मम॑ भूता॒नि ।

अनूबन्ध्यो ऽस्म्य॑हं ँवि॒भुः ॥

स्त्रियः॑ स॒तीः । ता उ॑ मे पु॒ꣳ॒स आ॑हुः । पश्य॑दक्ष॒ण्वान्न-विचे॑तद॒न्धः ।

क॒विर्यः पु॒त्रः स इ॒मा चि॑केत । 51 (10)

यस्ता वि॑जा॒नाथ् स॑वि॒तुः पि॒ताऽस॑त् ॥ अ॒न्धो मणिम॑विन्दत् । तम॑नङ्गुलि॒-राव॑यत् । अ॒ग्री॒वः प्रत्य॑मुञ्चत् । तमजि॑ह्व अ॒सश्च॑त ॥

ऊद्‌र्ध्वमूल-म॑वाक्छा॒खं । वृ॒क्षं ँया॑ वेद॒ संप्र॑ति । न स जातु जनः॑ श्रद्द॒द्ध्यात् । मृ॒त्युर्मा॑ मार॒यादि॑तिः ॥ हसितꣳ रुदि॑तङ्गी॒तं । 52 (10)

वीणा॑ पण व॒लासि॑तं । मृ॒तञ्जी॒वञ्च॑ यत्कि॒ञ्चित् ।

अ॒ङ्गानि॑ स्नेव॒ विद्धि॑ तत् ॥ अतृ॑ष्य॒ᳺ॒स्तृष्य॑ ध्यायत् । अ॒स्माज्जा॒ता मे॑ मिथू॒ चरन्न्॑ । पुत्रो निर्.ऋत्या॑ वैदे॒हः । अ॒चेता॑ यश्च॒ चेत॑नः ॥ स॒ तं मणिम॑विन्दत् । सो॑ऽनङ्गुलि॒राव॑यत् ।

सो॒ऽग्री॒वः प्रत्य॑मुन्चत् । 53 (10)

सोऽजि॑ह्वो अ॒सश्च॑त ॥ नैतमृषिं ँविदित्वा नग॑रं प्र॒विशेत् । य॑दि प्र॒विशेत् । मि॒थौ चरि॑त्वा प्र॒विशेत् । तथ्संभव॑स्य व्र॒तं ॥ आ॒ तम॑ग्ने र॒थन्ति॑ष्ठ । एका᳚श्वमेक॒ योज॑नं । एकचक्र॑-मेक॒धुरं ।

वा॒त ध्रा॑जि ग॒तिं ँवि॑भो ॥ न॒ रि॒ष्यति॑ न व्य॒थते ( ) । 54 (10)

ना॒स्याक्षो॑ यातु॒ सज्ज॑ति । यच्छ्वेता᳚न् रोहि॑ताᳺश्चा॒ग्नेः । र॒थे यु॑क्त्वाऽधि॒तिष्ठ॑ति ॥

एकया च दशभिश्च॑ स्वभू॒ते ।

द्वाभ्या मिष्टये विꣳ॑शत्या॒ च । तिसृभिश्च वहसे त्रिꣳ॑शता॒ च । नियुद्भिर्-वायविह ता॑ विमु॒ञ्च ॥ 55 (7)

(तत॑क्षुर् - धीमहि - ना॒म मे॑ - चिकेत - गी॒तं - प्रत्य॑मुञ्चद् - व्य॒थते - +स॒प्त च॑) (A11)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 11 ॥

1.1.12 अनुवाकं-12 T.A.1.12.5

आत॑नुष्व॒ प्रत॑नुष्व । उ॒द्धमाध॑म॒ सन्ध॑म । आदित्ये चन्द्र॑वर्णा॒नां । गर्भ॒ मा धे॑हि॒ यः पुमान्॑ ॥ इ॒तः सि॒क्तꣳ सूर्य॑गतं । च॒न्द्रम॑से॒ रस॑ङ्कृधि । वारादं जन॑या-ग्रे॒ऽग्निं । य एको॑ रुद्र॒ उच्य॑ते ॥

अ॒सं॒ ख्या॒ताः स॑हस्रा॒णि । स्म॒र्यते॑ न च॒ दृश्य॑ते । 56 (10)

ए॒वमे॒तन्नि॑बोधत ॥ आ म॒न्द्रै-रि॑न्द्र॒ हरि॑भिः । या॒ हि म॒यूर॑-रोमभिः । मात्वा केचिन्निये मुरि॑न्न पा॒शिनः । द॒ध॒न्वेव॒ ता इ॑हि ॥ मा म॒न्द्रै-रि॑न्द्र॒ हरि॑भिः । या॒मि म॒यूर॑ रोमभिः । मा मा केचिन्निये मुरि॑न्न पा॒शिनः । नि॒ध॒न्वेव॒ ता ँ(2) इ॑मि ॥

अणुभिश्च म॑हद्भि॒श्च । 57 (10)

नि॒घृष्वै॑ रस॒मायु॑तैः । कालैर्. हरित्व॑माप॒न्नैः । इन्द्राया॑हि स॒हस्र॑ युक् ॥ अ॒ग्निर् वि॒भ्राष्टि॑ वसनः । वा॒युः श्वेत॑सिकदृ॒कः । स॒म् ँव॒थ्स॒रो वि॑षू॒ वर्णैः᳚ । नित्या॒स्ते ऽनुच॑रास्त॒व ॥

सुब्रह्मण्योꣳ सुब्रह्मण्योꣳ सु॑ब्रह्म॒ण्यों ।

इन्द्रागच्छ हरिव आगच्छ मे॑धाति॒थेः । मेष वृषणश्व॑स्य मे॒ने । 58 (10)

गौरावस्कन्दिन्न-हल्या॑यै जा॒र । कौशिक-ब्राह्मण गौतम॑बृवा॒ण ॥ अ॒रु॒णाश्वा॑ इ॒हाग॑ताः । वस॑वः पृथिवि॒ क्षितः॑ । अ॒ष्टौ दि॒ग्वास॑सो॒ ऽग्नयः॑ । अग्निश्च जातवेदा᳚श्चेत्ये॒ते ॥ ताम्राश्वा᳚-स्ताम्र॒रथाः । ताम्रवर्णा᳚ स्तथा॒ऽसिताः । दण्डहस्ताः᳚ खाद॒ग्दतः । इतो रुद्राः᳚ परा॒ङ्गताः । 59 (10)

उक्तᳺ स्थानं प्रमाणञ्च॑ पुर॒ इत ॥ बृह॒स्पति॑श्च सवि॒ता च॑ । वि॒श्वरू॑पै-रि॒हाग॑तां । रथे॑नोदक॒वर्त्म॑ना । अ॒फ्सुषा॑ इति॒ तद्द्व॑योः ॥

उक्तो वेषो॑ वासा॒ꣳ॒सि च । कालावयवाना-मितः॑ प्रती॒ज्या । वासात्या॑ इत्य॒श्विनोः । कोऽन्तरिक्षे शब्दङ्क॑रोती॒ति । वासिष्ठ रौहिणो मीमाꣳ॑सां च॒क्रे ( ) । तस्यै॒षा भव॑ति ॥ “वा॒श्रेव॑ वि॒द्यु{2}” दिति॑ ॥ ब्रह्म॑ण उ॒दर॑णमसि । ब्रह्म॑ण उदी॒रण॑मसि ।

ब्रह्म॑ण आ॒स्तर॑णमसि । ब्रह्म॑ण उप॒स्तर॑णमसि ॥ 60 (16) (दृश्य॑ते॒ - च - मे॒ने - प॑रां॒॒ गता - श्च॒क्रे षट् च॑) (A12)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 12 ॥

1.1.13 अनुवाकं-13 T.A.1.13.3

अ॒ष्टयो॑नी-म॒ष्टपु॑त्रां । अ॒ष्टप॑त्नी-मि॒मां महीं᳚ । अ॒हं ँवेद॒ न मे॑ मृत्युः ।

न चामृ॑त्युर॒घाह॑रत् ॥ अ॒ष्टयो᳚न्य॒ष्ट पु॑त्रं । अ॒ष्टप॑दि॒द-म॒न्तरि॑क्षं । अ॒हं ँवेद॒ न मे॑ मृत्युः । न चामृ॑त्युर॒घाह॑रत् । अ॒ष्टयो॑नी-म॒ष्टपु॑त्रां । अ॒ष्टप॑त्नी-म॒मून्दिवं᳚ । 61 (10)

अ॒हं ँवेद॒ न मे॑ मृत्युः ।

न चामृ॑त्युर॒घाह॑रत् ॥ “सु॒त्रामा॑णं{3}” “म॒हीमू॒षु”{4} ॥ अदि॑ति॒र्द्यौ-रदि॑ति-र॒न्तरि॑क्षं ।

अदि॑ति र्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒ जनाः᳚ । अदि॑तिर्-जा॒त-मदि॑ति॒र्-जनि॑त्वं ॥

अ॒ष्टौ पु॒त्रासो॒ अदि॑तेः । ये जा॒ता स्त॒न्वः॑ परि॑ । दे॒वा ँ (2) उप॑प्रैथ् स॒प्तभिः॑ । 62 (10)

प॒रा॒ मा॒र्ता॒ण्डमास्य॑त् ॥ स॒प्तभिः॑ पु॒त्रै-रदि॑तिः । उप॒ प्रैत् पू॒र्व्यं॑ ँयुगं᳚ । प्र॒जायै॑ मृ॒त्यवे त॑त् । प॒रा॒ मा॒र्ता॒ण्ड-माभ॑र॒दिति॑ ॥ ताननुक्र॑मिष्या॒मः ॥ मि॒त्रश्च॒ वरु॑णश्च । धा॒ता चा᳚र्य॒मा च॑ । अꣳश॑श्च॒ भग॑श्च । इन्द्रश्च विवस्वाᳺ॑श्चेत्ये॒ते ( ) ॥ "हि॒र॒ण्य॒ग॒र्भो{5}” “ह॒ꣳ॒सःशु॑चि॒षत्{6}” ।

“ब्रह्म॑ जज्ञ्आ॒नं{7}” “तदित् प॒द{8}” मिति॑ ॥

ग॒र्भः प्रा॑जाप॒त्यः । अथ॒ पुरु॑षः स॒प्तपुरु॑षः ॥ 63 (14)

(अ॒मूं दिवꣳ॑ - स॒प्तभि॑ - रे॒ते च॒त्वारि॑ च) (A13)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 13 ॥

1.1.14 अनुवाकं-14 T.A.1.14.4

[ य॒था॒स्था॒नं ग॑र्भि॒ण्यः॑ ]

योऽसौ॑ त॒पन्नु॒देति॑ । स सर्वे॑षां भू॒तानां᳚ प्रा॒णाना॒दायो॒देति॑ । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नां । मा मम॑ प्रा॒णाना॒दायोद॑गाः ॥ अ॒सौ यो᳚ ऽस्त॒मेति॑ । स सर्वे॑षां भू॒तानां᳚ प्रा॒णाना॒दाया॒स्तमेति॑ ।

मा मे᳚ प्र॒जाया॒ मा प॑शू॒नां ।

मा मम॑ प्रा॒णाना॒दाया स्त॑ङ्गाः ॥ अ॒सौ य आ॒पूर्य॑ति । स सर्वे॑षां भू॒तानां᳚ प्रा॒णै रा॒पूर्य॑ति । 64 (10)

मा मे᳚ प्र॒जाया॒ मा प॑शू॒नां । मा मम॑ प्रा॒णै-रा॒पूरि॑ष्ठाः ॥ अ॒सौ यो॑ऽप॒क्षीय॑ति । स सर्वे॑षां भू॒तानां᳚ प्रा॒णै-रप॑क्षीयति । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नां । मा मम॑ प्रा॒णै-रप॑क्षेष्ठाः ॥ अ॒मूनि॒ नक्ष॑त्राणि । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑ प्रसर्पन्ति॒ चोथ्स॑र्पन्ति च ।

मा मे᳚ प्र॒जाया॒ मा प॑शू॒नां ।

मा मम॑ प्रा॒णैरप॑ प्रसृपत॒ मोथ्सृ॑पत ॥ 65 (10)

इ॒मे मासा᳚-श्चाद्‌र्धमा॒साश्च॑ ।

सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑ प्रसर्पन्ति॒ चोथ्स॑र्पन्ति च । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नां ।

मा मम॑ प्रा॒णैरप॑ प्रसृपत॒ मोथ्सृ॑पत । इ॒म ऋ॒तवः॑ । सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑ प्रसर्पन्ति॒ चोथ्स॑र्पन्ति च । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नां । मा मम॑ प्रा॒णैरप॑ प्रसृपत॒ मोथ्सृ॑पत ॥ अ॒यꣳ स॑म् ँवथ्स॒रः ।

सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑ प्रसर्पति॒ चोथ्स॑र्पति च । 66 (10)

मा मे᳚ प्र॒जाया॒ मा प॑शू॒नां । मा मम॑ प्रा॒णैरप॑ प्रसृप॒ मोथ्सृ॑प ॥ इ॒दमहः॑ । सर्वे॑षां भू॒तानां᳚ प्रा॒णै-रप॑ प्रसर्पति॒ चोथ्स॑र्पति च । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नां । मा मम॑ प्रा॒णैरप॑ प्रसृप॒ मोथ्सृ॑प ।

इ॒यꣳ रात्रिः॑ । सर्वे॑षां भू॒तानां᳚ प्रा॒णै-रप॑ प्रसर्पति॒ चोथ्स॑र्पति च । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नां । मा मम॑ प्रा॒णैरप॑ प्रसृप॒ मोथ्सृ॑प ( ) ॥ ओउम् भूर्भुव॒स्स्वः॑ ॥

एतद्वो मिथुनं मा नो मिथु॑नꣳ री॒ढ्वं ॥ 67 (12)

(प्रा॒णैरा॒पूर्य॑ति॒-मोथ्सृ॑पत॒-चोथ्स॑र्पति च॒ - मोथ्सृ॑प॒ द्वे च॑) (A14)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 14 ॥

श्पेचिअल् खोर्वै

(योसौ॒ षोड॑शा॒मूनि॒ द्वाद॑शा॒यं चतु॑र्दश)

(उ॒देत्य॑स्त॒मेत्या॒पूर्य॑त्यप॒क्षीय॑त्य॒मूनि॒ नक्ष॑त्राणी॒ मे मासा॑ इ॒म ऋ॒तवो॒ऽयꣳ स॑म् ँवथ्स॒र इ॒दमह॑रि॒यꣳ रात्रि॒र्दश॑)

1.1.15 अनुवाकं-15 T.A.1.15.1

अथादित्यस्याष्ट पु॑रुष॒स्य ॥

वसूना मादित्यानाᳺ स्थाने स्वतेज॑सा भा॒नि ॥

रुद्राणा-मादित्यानाᳺ स्थाने स्वतेज॑सा भा॒नि ॥

आदित्याना-मादित्यानाᳺ स्थाने स्वतेज॑सा भा॒नि ॥ सताꣳ॑सत्या॒नां । आदित्यानाᳺ स्थाने स्वतेज॑सा भा॒नि ॥ अभिधून्वता॑-मभि॒घ्नतां । वातव॑तां म॒रुतां । आदित्यानाᳺ स्थाने स्वतेज॑सा भा॒नि ॥

ऋभूणा-मादित्यानाᳺ स्थाने स्वतेज॑सा भा॒नि ( ) ॥ विश्वेषां᳚ देवा॒नां । आदित्यानाᳺ स्थाने स्वतेज॑सा भा॒नि ॥ सम् ँवथ्सर॑स्य स॒वितुः ।

आदित्यस्य स्थाने स्वतेज॑सा भा॒नि ॥ ओउम् भूर्भुव॒स्स्वः॑ ।

रश्मयो वो मिथुनं मा नो मिथु॑नꣳ री॒ढ्वं ॥ 68 (16)

(ऋभूणामादित्यानाᳺ स्थाने स्वतेज॑सा भा॒नि षट्च॑) (A15)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 15 ॥

1.1.16 अनुवाकं-16 T.A.1.16.1

आरोगस्य स्थाने स्वतेज॑सा भा॒नि । भ्राजस्य स्थाने स्वतेज॑सा भा॒नि । पटरस्य स्थाने स्वतेज॑सा भा॒नि । पतङ्गस्य स्थाने स्वतेज॑सा भा॒नि ।

स्वर्णरस्य स्थाने स्वतेज॑सा भा॒नि ।

ज्योतिषीमतस्य स्थाने स्वतेज॑सा भा॒नि ।

विभासस्य स्थाने स्वतेज॑सा भा॒नि ।

कश्यपस्य स्थाने स्वतेज॑सा भा॒नि ।

ओउम् भूर्भुव॒स्स्वः॑ । आपो वो मिथुनं मा नो मिथु॑नꣳ री॒ढ्वं ॥ 69 (10)

(आरोगस्य दश॑) (A16)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 16 ॥

1.1.17 अनुवाकं-17 T.A.1.17.2

अथ वायो-रेकादश-पुरुषस्यैकादश॑-स्त्रीक॒स्य ॥

प्रभ्राजमानानाꣳ रुद्राणाᳺ स्थाने स्वतेज॑सा भा॒नि ।

व्यवदातानाꣳ रुद्राणाᳺ स्थाने स्वतेज॑सा भा॒नि ।

वासुकिवैद्युतानाꣳ रुद्राणाᳺ स्थाने स्वतेज॑सा भा॒नि ।

रजतानाꣳ रुद्राणाᳺ स्थाने स्वतेज॑सा भा॒नि ।

परुषाणाꣳ रुद्राणाᳺ स्थाने स्वतेज॑सा भा॒नि ।

श्यामानाꣳ रुद्राणाᳺ स्थाने स्वतेज॑सा भा॒नि ।

कपिलानाꣳ रुद्राणाᳺ स्थाने स्वतेज॑सा भा॒नि ।

अतिलोहितानाꣳ रुद्राणाᳺ स्थाने स्वतेज॑सा भा॒नि ।

ऊद्‌र्ध्वानाꣳ रुद्राणाᳺ स्थाने स्वतेज॑सा भा॒नि । 70 (10)

अवपतन्तानाꣳ रुद्राणाᳺ स्थाने स्वतेज॑सा भा॒नि ।

वैद्युतानाꣳ रुद्राणाᳺ स्थाने स्वतेज॑सा भा॒नि ।

प्रभ्राजमानीनाꣳ रुद्राणीनाᳺ स्थाने स्वतेज॑सा भा॒नि ।

व्यवदातीनाꣳ रुद्राणीनाᳺ स्थाने स्वतेज॑सा भा॒नि ।

वासुकिवैद्युतीनाꣳ रुद्राणीनाᳺ स्थाने स्वतेज॑सा भा॒नि ।

रजतानाꣳ रुद्राणीनाᳺ स्थाने स्वतेज॑सा भा॒नि ।

परुषाणाꣳ रुद्राणीनाᳺ स्थाने स्वतेज॑सा भा॒नि ।

श्यामानाꣳ रुद्राणीनाᳺ स्थाने स्वतेज॑सा भा॒नि ।

कपिलानाꣳ रुद्राणीनाᳺ स्थाने स्वतेज॑सा भा॒नि ।

अतिलोहितीनाꣳ रुद्राणीनाᳺ स्थाने स्वतेज॑सा भा॒नि ( ) ।

ऊद्‌र्ध्वानाꣳ रुद्राणीनाᳺ स्थाने स्वतेज॑सा भा॒नि ।

अवपतन्तीनाꣳ रुद्राणीनाᳺ स्थाने स्वतेज॑सा भा॒नि ।

वैद्युतीनाꣳ रुद्राणीनाᳺ स्थाने स्वतेज॑सा भा॒नि ।

ओउम् भूर्भुव॒स्स्वः॑ ।

रूपाणि वो मिथुनं मा नो मिथु॑नꣳ री॒ढ्वं ॥ 71 (15)

(ऊद्‌र्ध्वानाꣳ रुद्राणाᳺ स्थाने स्वतेज॑सा भा॒ - न्यतिलोहितीनाꣳ रुद्राणीनाᳺ स्थाने स्वतेज॑सा

भा॒नि पञ्च॑ च (A17)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 17 ॥

1.1.18 अनुवाकं-18 T.A.1.18.1

अथाग्ने॑रष्ट पु॑रुष॒स्य ॥ अग्नेः पूर्व-दिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।

जातवेदस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।

सहोजसो दक्षिण-दिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।

अजिराप्रभव उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।

वैश्वानरस्यापरदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।

नर्यापस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।

पङ्क्तिराधस उदग्‌दिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।

विसर्पिण उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।

ओउम् भूर्भुव॒स्स्वः॑( ) ।

दिशो वो मिथुनं मा नो मिथु॑नꣳ री॒ढ्वं ॥ 72 (11)

(स्व॑रेक॑म् च) (A18)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 18 ॥

श्पेचिअल् खोर्वै

(एतद् रश्मय आपो रूपाणि दिशः पञ्च॑)

1.1.19 अनुवाकं-19 T.A.1.19.1

दक्षिणपूर्व-स्यान्दिशि विस॑र्पी न॒रकः । तस्मान्नः प॑रिपा॒हि ॥ दक्षिणा-परस्या-न्दिश्य विस॑र्पी न॒रकः । तस्मान्नः प॑रिपा॒हि ॥ उत्तर-पूर्वस्या-न्दिशि विषा॑दी न॒रकः । तस्मान्नः प॑रिपा॒हि ॥ उत्तरा-परस्या-न्दिश्य विषा॑दी न॒रकः । तस्मान्नः प॑रिपा॒हि ॥

”आ यस्मिन्थ्‌सप्त वासवा{9}” “इन्द्रियाणि शतक्रत॑{10}” वित्ये॒ते ॥ 73 (9)

(दक्षिणपूर्वस्याम् नव॑) (A19)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 19 ॥

1.1.20 अनुवाकं-20 T.A.1.20.1

इ॒न्द्र॒ घो॒षा वो॒ वसु॑भिः पु॒रस्ता॒-दुप॑दधतां ।

मनो॑जवसो वः पि॒तृभि॑र् दक्षिण॒त उप॑दधतां ।

प्रचे॑ता वो रु॒द्रैः प॒श्चा-दुप॑दधतां ।

वि॒श्वक॑र्मा व आदि॒त्यै-रु॑त्तर॒त उप॑दधतां ।

त्वष्टा॑ वो रू॒पै-रु॒परि॑ष्टा॒-दुप॑दधतां । संज्ञ्आनं ँवः प॑श्चादि॒ति ॥ आ॒दि॒त्यः सर्वो॒ऽग्निः पृ॑थि॒व्यां । वा॒युर॒न्तरि॑क्षे । सूर्यो॑ दि॒वि ।

च॒न्द्रमा॑ दि॒क्षु ( ) । नक्ष॑त्राणि॒ स्वलो॒के ॥

ए॒वा ह्ये॑व । ए॒वा ह्य॑ग्ने । ए॒वा हि वा॑यो । ए॒वा ही᳚न्द्र । ए॒वा हि पू॑षन्न् । ए॒वा हि दे॑वाः ॥ 74 (17)

दि॒क्षु स॒प्त च॑) (A20)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 21 ॥

1.1.21 अनुवाकं-21 T.A.1.21.3

आप॑मापाम॒पः सर्वाः᳚ । अ॒स्मा-द॒स्मादि॒तोऽमुतः॑ ।

अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒ह स॑ञ्चस्क॒रर्द्धि॑या ॥

वा॒य्वश्वा॑ रश्मि॒ पत॑यः । मरी᳚च्यात्मानो॒ अदृ॑हः ।

दे॒वी र्भु॑वन॒ सूव॑रीः । पु॒त्र॒व॒वाय॑ मे सुत ॥

महानाम्नीर्-म॑हामा॒नाः । म॒ह॒सो म॑हस॒स्स्वः॑ । 75 (10)

दे॒वीः प॑र्जन्य॒ सूव॑रीः । पु॒त्र॒व॒वाय॑ मे सुत ॥

अ॒पाश्न्यु॑ष्णि-म॒पा रक्षः॑ । अ॒पाश्न्यु॑ष्णि-म॒पा रघं᳚ । अपा᳚घ्रा॒मप॑ चा॒वर्तिं᳚ । अप॑ दे॒वीरि॒तो हि॑त ॥ वज्रं॑ दे॒वीरजी॑ताᳺश्च । भुव॑नं देव॒ सूव॑रीः । आ॒दि॒त्यानदि॑तिं दे॒वीं । योनि॑नोद्‌र्ध्व-मु॒दीष॑त ॥ 76 (10)

भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्-यज॑त्राः । स्थि॒रैरङ्गै᳚ स्तुष्टु॒वाꣳ स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ ँयदायुः॑ ॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।

स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।

स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्-दधातु ॥ के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः( ) । प्र॒ति॒ष्ठाꣳ श॒तधा॑ हि ।

स॒माहि॑तासो सहस्र॒धाय॑सं ॥ शि॒वा नः॒ शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः ॥ सु॒मृ॒डी॒का सर॑स्वति । माते॒ व्यो॑म स॒न्दृशि॑ ॥ 77 (16)

(स्व॑ - रु॒दीष॑त॒ - वात॑रश॒नाः षट्च॑) (A21)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 21 ॥

1.1.22 अनुवाकं-22 T.A.1.22.12

यो॑ऽपां पुष्पं॒ ँवेद॑ । पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति । च॒न्द्रमा॒ वा अ॒पां पुष्पं᳚ । पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।

य ए॒वं ँवेद॑ ॥ यो॑ऽपामा॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति । अ॒ग्निर्वा अ॒पामा॒यत॑नं । आ॒यत॑नवान् भवति । यो᳚ऽग्नेरा॒यत॑नं॒ ँवेद॑ । 78 (10)

आ॒यत॑नवान् भवति । आपो॒ वा अ॒ग्नेरा॒यत॑नं । आ॒यत॑नवान् भवति । य ए॒वं ँवेद॑ ॥ यो॑ऽपामा॒॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति ।

वा॒युर्वा अ॒पामा॒यत॑नं । आ॒यत॑नवान् भवति । यो वा॒योरा॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति । 79 (10)

आपो॒ वै वा॒योरा॒यत॑नं । आ॒यत॑नवान् भवति । य ए॒वं ँवेद॑ ॥ यो॑ऽपामा॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति । अ॒सौ वै तप॑न्न॒पा-मा॒यत॑नं ।

आ॒यत॑नवान् भवति । यो॑ऽमुष्य॒-तप॑त आ॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति । आपो॒वा अ॒मुष्य॒-तप॑त आ॒यत॑नं । 80 (10)

आ॒यत॑नवान् भवति । य ए॒वं ँवेद॑ ॥ यो॑ऽपामा॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति । च॒न्द्रमा॒ वा अ॒पामा॒यत॑नं । आ॒यत॑नवान् भवति ।

यश्च॒न्द्रम॑स आ॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै च॒न्द्रम॑स आ॒यत॑नं । आ॒यत॑नवान् भवति । 81 (10)

य ए॒वं ँवेद॑ ॥ यो॑ऽपामा॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति । नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नं । आ॒यत॑नवान् भवति । यो नक्ष॑त्राणा-मा॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै नक्ष॑त्राणा-मा॒यत॑नं । आ॒यत॑नवान् भवति ।

य ए॒वं ँवेद॑ ॥ 82 (10)

यो॑ऽपामा॒यत॑नं॒ ँवेद॑ । आ॒यत॑नवान् भवति । प॒र्जन्यो॒ वा अ॒पामा॒यत॑नं । आ॒यत॑नवान् भवति ।

यः प॒र्जन्य॑-स्या॒यत॑नं॒ ँवेद॑ ।

आ॒यत॑नवान् भवति । आपो॒ वै प॒र्जन्य॑-स्या॒यत॑नं ।

आ॒यत॑नवान् भवति । य ए॒वं ँवेद॑ ॥ यो॑ऽपामा॒यत॑नं॒ ँवेद॑ ॥ 83 (10)

आ॒यत॑नवान् भवति । स॒म् ँव॒थ्स॒रो वा अ॒पामा॒यत॑नं । आ॒यत॑नवान् भवति । यः स॑म् ँवथ्स॒र-स्या॒यत॑नं॒ ँवेद॑ ।

आ॒यत॑नवान् भवति । आपो॒ वै स॑म् ँवथ्स॒र-स्या॒यत॑नं । आ॒यत॑नवान् भवति । य ए॒वं ँवेद॑ ॥

यो᳚ऽफ्सु नावं॒ प्रति॑ष्ठितां॒ ँवेद॑ । प्रत्ये॒व ति॑ष्ठति । 84 (10)

इ॒मे वै लो॒का अ॒फ्सु प्रति॑ष्ठिताः । तदे॒षाऽभ्यनू᳚क्ता ॥

अ॒पाꣳ रस॒मुद॑यꣳसन्न् । सूर्ये॑ शु॒क्रꣳ स॒माभृ॑तं । अ॒पाꣳ रस॑स्य॒ यो रसः॑ । तं ँवो॑ गृह्णा-म्युत्त॒ममिति॑ ॥ इ॒मे वै लो॒का अ॒पाꣳ रसः॑ । ते॑ऽमुष्मि॑न्-नादि॒त्ये स॒माभ॑ताः ॥ जा॒नु॒द॒घ्नी-मु॑त्तर-वे॒दीङ्खा॒त्वा । अ॒पां पू॑रयि॒त्वा गु॑ल्फद॒घ्नं । 85 (10)

पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च॑ सᳺस्ती॒र्य । तस्मि॑न्. विहा॒यसे । अ॒ग्निं प्र॒णीयो॑प-समा॒धाय॑ ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।

कस्मा᳚त् प्रणी॒तेऽय-म॒ग्निश्ची॒यते᳚ । साप्प्र॑णी॒तेऽयम॒फ्सु ह्यय॑ञ्ची॒यते᳚ ।

अ॒सौ भुव॑ने॒ऽप्य-ना॑हिताग्नि-रे॒ताः ।

तम॒भित॑ ए॒ता अ॒भीष्ट॑का॒ उप॑दधाति ॥

अ॒ग्नि॒हो॒त्रे द॑र्.शपूर्ण-मा॒सयोः᳚ ।

प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ । 86 (10)

अथो॑ आहुः । सर्वे॑षु यज्ञ्अक्र॒तुष्विति॑ ॥ ए॒तद्ध॑ स्म॒ वा आ॑हुः शण्डि॒लाः । कम॒ग्निञ्चि॑नुते ॥ स॒त्रि॒य-म॒ग्निञ्चि॑न्वा॒नः । स॒म् ँव॒थ्स॒रं प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते । सा॒वि॒त्र-म॒ग्निञ्चि॑न्वा॒नः ।

अ॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते । 87 (10)

ना॒चि॒के॒त-म॒ग्निञ्चि॑न्वा॒नः । प्रा॒णान् प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते । चा॒तु॒र्॒.हो॒त्रि॒य-म॒ग्निञ्चि॑न्वा॒नः । ब्रह्म॑ प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते ।

वै॒श्व॒सृ॒ज-म॒ग्निञ्चि॑न्वा॒नः । शरी॑रं प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते ।

उ॒पा॒नु॒वा॒क्य॑मा॒शु-म॒ग्निञ्चि॑न्वा॒नः । 88 (10)

इ॒मान् ँलो॒कान् प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते ।

इ॒ममा॑रुण-केतुक-म॒ग्निञ्चि॑न्वा॒न इति॑ । य ए॒वासौ ।

इ॒तश्चा॒-मुत॑श्चा-व्यतीपा॒ती । तमिति॑ ॥ यो᳚ऽग्नेर्मि॑थू॒या वेद॑ । मि॒थु॒न॒वान् भ॑वति । आपो॒ वा अ॒ग्नेर्मि॑थू॒याः ।

मि॒थु॒न॒वान् भ॑वति ( ) । य ए॒वं ँवेद॑ ॥ 89 (11)

(वेद॑ - भव - त्या॒यत॑नं - भवति॒ - वेद॒ - वेद॑ - तिष्ठति - गुल्फद॒घ्नं - चा॑तुर्मा॒स्ये - ष्व॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण॒ कम॒ग्निं चि॑नुत - उपानुवा॒क्य॑मा॒शुम॒ग्निं चि॑न्वा॒नो - मि॑थू॒या मि॑थुन॒वान् भ॑व॒त्येकं॑ च) (A22)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 22 ॥

श्पेचिअल् खोर्वै

(पुष्प॑म॒ग्निर्वा॒युर॒सौ वै तप॑ञ्च॒न्द्रमा॒ नक्ष॑त्राणि प॒र्जन्यः॑ सम् ँवथ्स॒रो यो᳚ऽफ्सु नाव॑मे॒तद्ध॑ स्म॒ वै स॑त्रि॒यꣳ स॑म् ँवथ्स॒रꣳ सा॑वि॒त्रम॒मुं ना॑चिके॒तं प्रा॒णाᳺश्चा॑तुर्.होत्रि॒यं ब्रह्म॑ वैश्वसृ॒जꣳ

शरी॑रमुपानुवा॒क्य॑मा॒शुमि॒मान् ँलो॒कानि॒ममा॑रुणकेतुकं॒ ँय ए॒वासौ)

1.1.23 अनुवाकं-23 T.A.1.23.9

आपो॒ वा इ॒दमा॑सन्थ् सलि॒लमे॒व ।

स प्र॒जाप॑ति॒रेकः॑ पुष्करप॒र्णे सम॑भवत् ।

तस्यान्त॒र् मन॑सि कामः॒ सम॑वर्तत । इ॒दꣳ सृ॑जेय॒मिति॑ । तस्मा॒द्यत् पुरु॑षो॒ मन॑साऽभि॒गच्छ॑ति । तद्वा॒चा व॑दति ।

तत्कर्म॑णा करोति । तदे॒षा ऽभ्यनू᳚क्ता ॥ काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेतः॑ प्रथ॒मं ँयदासी᳚त् । 90 (10)

स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्न् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षेति॑ ॥ उपै॑न॒न्तदुप॑नमति । यत् का॑मो॒ भव॑ति । य ए॒वं ँवेद॑ ॥ स तपो॑ऽतप्यत ।

स तप॑स्त॒प्त्वा । शरी॑रमधूनुत । तस्य॒ यन् मा॒ꣳ॒समासी᳚त् । ततो॑ऽरु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑य॒ उद॑तिष्ठन्न् । 91 (10)

ये नखाः᳚ । ते वै॑खान॒साः । ये वालाः᳚ । ते वा॑लखि॒ल्याः ।

यो रसः॑ । सो॑ऽपां ॥ अ॒न्त॒र॒तः कू॒र्मं भू॒तꣳ सर्प॑न्तं । तम॑ब्रवीत् । मम॒ वै त्वङ्-मा॒ꣳ॒सा । सम॑भूत् । 92 (10)

नेत्य॑ब्रवीत् । पूर्व॑मे॒वाह-मि॒हास॒मिति॑ । तत्पुरु॑षस्य पुरुष॒त्वं । स स॒हस्र॑शीर्.षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । भू॒त्वोद॑तिष्ठत् । तम॑ब्रवीत् । त्वं ँवै पूर्वꣳ॑ सम॑भूः ।

त्वमि॒दं पूर्वः॑ कुरु॒ष्वेति॑ ॥ स इ॒त आ॒दायापः॑ । 93 (10)

अ॒ञ्ज॒लिना॑ पु॒रस्ता॑-दु॒पाद॑धात् । ए॒वा ह्ये॒वेति॑ ।

तत॑ आदि॒त्य उद॑तिष्ठत् । सा प्राची॒ दिक् ॥

अथा॑रु॒णः के॒तुर्-द॑क्षिण॒त उ॒पाद॑धात् । ए॒वा ह्यग्न॒ इति॑ । ततो॒ वा अ॒ग्निरुद॑तिष्ठत् । सा द॑क्षि॒णा दिक् । अथा॑रु॒णः के॒तुः प॒श्चादु॒पाद॑धात् ।

ए॒वा हि वायो॒ इति॑ । 94 (10)

ततो॑ वा॒युरुद॑तिष्ठत् । सा प्र॒तीची॒ दिक् ।

अथा॑रु॒णः के॒तु-रु॑त्तर॒त उ॒पाद॑धात् । ए॒वा हीन्द्रेति॑ ।

ततो॒ वा इन्द्र॒ उद॑तिष्ठत् । सोदी॑ची॒ दिक् ।

अथा॑रु॒णः के॒तुर्-मद्ध्य॑ उ॒पाद॑धात् । ए॒वा हि पूष॒न्निति॑ । ततो॒ वै पू॒षोद॑तिष्ठत् । सेयन्दिक् । 95 (10)

अथा॑रु॒णः के॒तुरु॒परि॑ष्टा-दु॒पाद॑धात् । ए॒वा हि देवा॒ इति॑ । ततो॑ देव मनु॒ष्याः पि॒तरः॑ । ग॒न्ध॒र्वा॒-फ्स॒रस॒ श्चोद॑-तिष्ठन्न् ।

सोद्‌र्ध्वा दिक् ॥ या वि॒पृषो॑ वि॒परा॑पतन्न् ।

ताभ्योऽसु॑रा॒ रक्षाꣳ॑सि पिशा॒चाश्चो-द॑तिष्ठन्न् । तस्मा॒त्ते परा॑भवन्न् । वि॒पृड्भ्यो॒ हि ते सम॑भवन्न् ॥ तदे॒षाऽभ्यनू᳚क्ता ॥ 96 (10)

आपो॑ ह॒ यद् बृ॑ह॒तीर् गर्भ॒मायन्न्॑ । दक्षं॒ दधा॑ना ज॒नय॑न्तीः स्वय॒म्भुं । तत॑ इ॒मेऽद्ध्य-सृ॑ज्यन्त॒ सर्गाः᳚ । अद्भ्यो॒ वा इ॒दꣳ सम॑भूत् ।

तस्मा॑दि॒दꣳ सर्वं॒ ब्रह्म॑ स्वय॒भ्विंति॑ ॥

तस्मा॑दि॒दꣳ सर्व॒ꣳ॒ शिथि॑ल-मि॒वा धृव॑-मिवाभवत् ॥

प्र॒जाप॑ति॒र् वाव तत् । आ॒त्मना॒ऽऽत्मानं॑ ँवि॒धाय॑ ।

तदे॒वानु॒ प्रावि॑शत् ॥ तदे॒षाऽभ्यनू᳚क्ता ( ) ॥ 97 (10)

वि॒धाय॑ लो॒कान्. वि॒धाय॑ भू॒तानि॑ । वि॒धाय॒ सर्वाः᳚ प्र॒दिशो॒ दिश॑श्च । प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ । आ॒त्मना॒ऽऽत्मा-न॑म॒भि-सम् ँवि॑वे॒शेति॑ ॥

सर्व॑मे॒वेदमा॒प्त्वा । सर्व॑-मव॒रुद्ध्य॑ । तदे॒वानु॒ प्रवि॑शति । य ए॒वं ँवेद॑ ॥ 98 (8)

(आसी॑ - दतिष्ठन् - नभू॒ - दपो॒ - वायो॒ इति - सेयं दिग॒ - भ्यनू᳚क्ता॒ - ऽभ्यनू᳚क्ता॒ -+ऽष्टौ च॑) (A23)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 23 ॥

1.1.24 अनुवाकं-24 T.A.1.24.4

चतु॑ष्टय्य॒ आपो॑ गृह्णाति । च॒त्वारि॒ वा अ॒पाꣳ रू॒पाणि॑ । मेघो॑ वि॒द्युत् । स्त॒न॒यि॒त्नुर्-वृ॒ष्टिः । तान्ये॒वा व॑रुन्धे ॥ आ॒तप॑ति॒ वर्ष्या॑ गृह्णाति ।

ताः पु॒रस्ता॒-दुप॑दधाति । ए॒ता वै ब्र॑ह्मवर्च॒स्या आपः॑ । मु॒ख॒त ए॒व ब्र॑ह्मवर्च॒स-मव॑रुन्धे ।

तस्मा᳚न्-मुख॒तो ब्र॑ह्मवर्च॒सित॑रः ॥ 99 (10)

कूप्या॑ गृह्णाति । ता द॑क्षिण॒त उप॑दधाति । ए॒ता वै ते॑ज॒स्विनी॒रापः॑ । तेज॑ ए॒वास्य॑ दक्षिण॒तो द॑धाति । तस्मा॒द् दक्षि॒णोद्‌र्ध॑ ऽस्तेज॒स्वित॑रः ॥

स्था॒व॒रा गृ॑ह्णाति । ताः प॒श्चादुप॑दधाति ।

प्रति॑ष्ठिता॒ वै स्था॑व॒राः । प॒श्चादे॒व प्रति॑तिष्ठति ॥ वह॑न्तीर् गृह्णाति । 100 (10)

ता उ॑त्तर॒त उप॑दधाति । ओज॑सा॒ वा ए॒ता वह॑न्तीरि॒वोद्-ग॑तीरि॒व आकूज॑तीरि॒व धाव॑न्तीः । ओज॑ ए॒वास्यो᳚त्तर॒तो द॑धाति । तस्मा॒दुत्त॒रोऽद्ध॑ ओज॒स्वित॑रः ॥ स॒भां॒र्या गृ॑ह्णाति । ता मद्ध्य॒ उप॑दधाति । इ॒यं ँवै स॑भां॒र्याः । अ॒स्यामे॒व प्रति॑तिष्ठति ॥

प॒ल्व॒ल्या गृ॑ह्णाति । ता उ॒परि॑ष्टा-दु॒पाद॑धाति । 101 (10)

अ॒सौ वै प॑ल्व॒ल्याः । अ॒मुष्या॑मे॒व प्रति॑तिष्ठति ॥ दि॒क्षूप॑दधाति । दि॒क्षु वा आपः॑ । अन्नं॒ ँवा आपः॑ । अ॒द्भ्यो वा अन्न॑ञ्जायते ।

यदे॒वाद्भ्यो-ऽन्नं॒ जाय॑ते । तदव॑रुन्धे ॥

तं ँवा ए॒तम॑रु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑यो-ऽचिन्वन्न् । तस्मा॑-दारुण के॒तुकः॑ ( ) ॥ 102अ

तदे॒षाऽभ्यनू᳚क्ता ॥ के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः ।

प्र॒ति॒ष्ठाꣳ श॒तधा॑ हि । स॒माहि॑तासो सहस्र॒धाय॑स॒मिति॑ ॥

श॒तश॑श्चै॒व ऽस॒हस्र॑शश्च॒ प्रति॑तिष्ठति । य ए॒तम॒ग्निञ्चि॑नु॒ते ।

य उ॑चैनमे॒वं ँवेद॑ ॥ 102ब् (18)

(ब्र॒ह्म॒व॒र्च॒सित॑रो॒ - वह॑न्तीर् गृह्णाति॒ - ता उ॒परि॑ष्टादु॒पाद॑धा - त्यारुणके॒तुको॒ऽष्टौ च॑) (A24)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः ।

ओउम् नमो नारायणाय ॥ 24 ॥

1.1.25 अनुवाकं-25 T.A.1.25.3

जा॒नु॒द॒घ्नी-मु॑त्तरवे॒दीङ्खा॒त्वा । अ॒पां पू॑रयति । अ॒पाꣳ स॑र्व॒त्वाय॑ । पु॒ष्क॒र॒प॒र्णꣳ रु॒क्मं पुरु॑ष॒-मित्युप॑दधाति । तपो॒ वै पु॑ष्करप॒र्णं ।

स॒त्यꣳ रु॒क्मः । अ॒मृतं॒ पुरु॑षः । ए॒ताव॒द्वा वा᳚स्ति । याव॑दे॒तत् । याव॑दे॒वास्ति॑ । 103 (10)

तदव॑रुन्धे ॥ कू॒र्ममुप॑दधाति । अ॒पामे॒व मेध॒मव॑रुन्धे । अथो᳚ स्व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ आप॑मापाम॒पः सर्वाः᳚ ।

अ॒स्माद॒स्मा दि॒तोऽमुतः॑ । अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च ।

स॒ह स॑ञ्चस्क॒रर्द्धि॑या॒ इति॑ । “वा॒य्वश्व॑ रश्मि॒पत॑यः{11}” ॥ लो॒कं पृ॑णच्छि॒द्रं पृ॑ण । 104 (10)

यास्ति॒स्रः प॑रम॒जाः ॥ “इ॒न्द्र॒घो॒षा वो॒ वसु॑भि{12}” “ रे॒वा ह्ये॒वे{13}” ति॑ ॥ पञ्च॒ चित॑य॒ उप॑दधाति । पाङ्क्त॒ऽग्निः । यावा॑ने॒वाग्निः । तञ्चि॑नुते ॥ लो॒कं पृ॑णया द्वि॒तीया॒-मुप॑दधाति । पञ्च॑पदा॒ वै वि॒राट् । तस्या॒ वा इ॒यं पादः॑ । अ॒न्तरि॑क्षं॒ पादः॑ ( ) ।

द्यौः पादः॑ । दिशः॒ पादः॑ । प॒रोर॑जाः॒ पादः॑ ॥ वि॒राज्ये॒व प्रति॑तिष्ठति । य ए॒तम॒ग्निञ्चि॑नु॒ते । य उ॑चैनमे॒वं ँवेद॑ ॥ 105 (16)

(अस्ति॑ - पृणा॒ - न्तरि॑क्ष॒म् पादः॒ षट्च॑) (A25)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 25 ॥

1.1.26 अनुवाकं-26 T.A.1.26.7

अ॒ग्निं प्र॒णीयो॑प-समा॒धाय॑ । तम॒भित॑ ए॒ता अ॒भीष्ट॑का॒ उप॑दधाति । अ॒ग्नि॒हो॒त्रे द॑र्.शपूर्ण-मा॒सयोः᳚ । प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ ।

अथो॑ आहुः । सर्वे॑षु यज्ञ्अक्र॒तुष्विति॑ ॥

अथ॑ हस्मा हारु॒णः स्वा॑य॒म्भुवः॑ ।

सा॒वि॒त्रः सर्वो॒ऽग्नि-रित्यन॑नुषङ्गं मन्यामहे ।

नाना॒ वा ए॒तेषां᳚ ँवी॒र्या॑णि ॥ कम॒ग्निञ्चि॑नुते । 106 (10)

स॒त्रि॒य म॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते । सा॒वि॒त्र म॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते । ना॒चि॒के॒त म॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते ।

चा॒तु॒र्.॒ हो॒त्रि॒य-म॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते ।

वै॒श्व॒सृ॒ज म॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते । 107 (10)

उ॒पा॒नु॒वा॒क्य॑-मा॒शु म॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते । इ॒ममा॑रुण-केतुक म॒ग्निञ्चि॑न्वा॒न इति॑ ॥ वृषा॒ वा अ॒ग्निः । वृषा॑णौ॒ सᳺस्फा॑लयेत् । ह॒न्येता᳚स्य य॒ज्ञ्अः । तस्मा॒न्नानु॒षज्यः॑ ॥

सोत्त॑रवे॒दिषु॑ क्र॒तुषु॑ चिन्वीत । उ॒त्त॒र॒वे॒द्याᳺ ह्य॑ग्निश्ची॒यते᳚ ॥ प्र॒जाका॑मश्चिन्वीत । 108 (10)

प्रा॒जा॒प॒त्यो वा ए॒षो᳚ऽग्निः । प्रा॒जा॒प॒त्याः प्र॒जाः । प्र॒जावा᳚न् भवति । य ए॒वं ँवेद॑ ॥ प॒शुका॑मश्चिन्वीत । सं॒ज्ञ्आनं॒ ँवा ए॒तत् प॑शू॒नां । यदापः॑ ।

प॒शू॒नामे॒व स॒ज्ञ्आंने॒ ऽग्निञ्चि॑नुते । प॒शु॒मान् भ॑वति । य ए॒वं ँवेद॑ ॥ 109 (10)

वृष्टि॑कामश्चिन्वीत । आपो॒ वै वृष्टिः॑ । प॒र्जन्यो॒ वर्.षु॑को भवति । य ए॒वं ँवेद॑ ॥ आ॒म॒या॒वी चि॑न्वीत । आपो॒ वै भे॑ष॒जं । भे॒ष॒ज-मे॒वास्मै॑ करोति । सर्व॒मायु॑रेति ॥ अ॒भि॒चरᳺ॑ श्चिन्वीत । वज्रो॒ वा आपः॑ । 110 (10)

वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्रह॑रति । स्तृ॒णु॒त ए॑नं ॥ तेज॑स्कामो॒ यश॑स्कामः ।

ब्र॒ह्म॒व॒र्च॒सका॑मः स्व॒र्गका॑मश्चिन्वीत । ए॒ता व॒द्वा वा᳚स्ति । याव॑दे॒तत् । याव॑दे॒वास्ति॑ । तदव॑रुन्धे ॥ तस्यै॒ तद्व्र॒तं । वर्.ष॑ति॒ न धा॑वेत् । 111 (10)

अ॒मृतं॒ ँवा आपः॑ । अ॒मृत॒स्या-न॑न्तरित्यै ॥ नाफ्सु-मूत्र॑पुरी॒षङ्कु॑र्यात् । न निष्ठी॑वेत् । न वि॒वस॑नः स्नायात् । गुह्यो॒ वा ए॒षो᳚ऽग्निः । ए॒तस्या॒ग्ने रन॑ति दाहाय ॥ न पु॑ष्करप॒र्णानि॒ हिर॑ण्यं॒ ँवाऽधि॒तिष्ठे᳚त् । ए॒तस्या॒ग्ने-रन॑भ्यारोहाय ॥ न कूर्म॒स्याश्नी॑यात् ( ) । नोद॒कस्या॒-घातु॑का॒न्येन॑-मोद॒कानि॑ भवन्ति । अ॒घातु॑का॒ आपः॑ ।

य ए॒तम॒ग्निञ्चि॑नु॒ते । य उ॑चैनमे॒वं ँवेद॑ ॥ 112 (14)

(चि॒नु॒ते॒ - चि॒नु॒ते॒ - प्र॒जाका॑मश्चिन्वीत॒-य ए॒वं ँवेदा-पो॑-धावे॒-दश्नी॑याच्च॒त्वारि॑ च) (A26)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 26 ॥

1.1.27 अनुवाकं-27 T.A.1.27.6

इ॒मा नु॑कं॒ भुव॑ना सीषधेम । इन्द्र॑श्च॒ विश्वे॑च दे॒वाः ॥ य॒ज्ञ्अञ्च॑ नस्त॒न्वञ्च॑ प्र॒जाञ्च॑ । आ॒दि॒त्यैरिन्दः॑ स॒ह सी॑षधातु ॥

आ॒दि॒त्यैरिन्द्रः॒ सग॑णो-म॒रुद्भिः॑ । अ॒स्माकं॑ भूत्ववि॒ता त॒नूनां᳚ ॥ आप्ल॑वस्व॒ प्रप्ल॑वस्व । आ॒ण्डी भ॑व ज॒ मा मु॒हुः । सुखादीन्दुः॑ खनि॒धनां । प्रति॑मुञ्चस्व॒ स्वां पु॒रं ॥ 113 (10)

मरी॑चयः स्वायंभु॒वाः । ये श॑री॒राण्य॑ कल्पयन्न् ।

ते ते॑ दे॒हङ्क॑ल्पयन्तु । मा च॑ ते॒ ख्या स्म॑ तीरिषत् ॥ उत्ति॑ष्ठत॒ मा स्व॑प्त । अ॒ग्नि-मि॑च्छद्ध्वं॒ भार॑ताः । राज्ञ्अः॒ सोम॑स्य तृ॒प्तासः॑ ।

सूर्ये॑ण स॒युजो॑षसः ॥ “युवा॑ सु॒वासाः᳚{14}” ॥

अ॒ष्टाच॑क्रा॒ नव॑द्वारा । 114 (10)

दे॒वानां॒ पूर॑यो॒द्ध्या । तस्याꣳ॑ हिरण्म॑यः को॒शः । स्व॒र्गो लो॒को ज्योति॒षा ऽऽवृ॑तः ॥ यो वै तां᳚ ब्रह्म॑णो वे॒द । अ॒मृते॑नावृ॒तां पु॑रीं । तस्मै᳚ ब्रह्म च॑ ब्रह्मा॒ च । आ॒युः कीर्तिं॑ प्र॒जान्द॑दुः ॥ वि॒भ्राज॑माना॒ꣳ॒ हरि॑णीं । य॒शसा॑ संप॒रीवृ॑तां । पुरꣳ॑ हिरण्म॑यीं ब्र॒ह्मा । 115 (10)

वि॒वेशा॑प॒राजि॑ता ॥ पराङ्गेत्य॑ (पराङ्अत्य॑) ज्याम॒यी ।

पराङ्गेत्य॑ (पराङ्अत्य॑) नाश॒की ।

इ॒ह चा॑मुत्र॑ चान्वे॒ति । वि॒द्वान् दे॑वासु॒रानु॑भ॒यान् ॥

यत्कु॑मा॒री म॒न्द्रय॑ते । य॒द्यो॒षिद्य-त्प॑ति॒व्रता᳚ । अरि॑ष्टं॒ ँयत्किञ्च॑ क्रि॒यते᳚ ।

अ॒ग्नि-स्तदनु॑ वेधति ॥ अ॒शृता॑सः शृ॑तास॒श्च । 116 (10)

य॒ज्वानो॒ येऽप्य॑य॒ज्वनः॑ । स्व॑र्यन्तो॒ नापे᳚क्षन्ते ।

इन्द्र॑-म॒ग्निञ्च॑ ये वि॒दुः ॥ सिक॑ता इव स॒म् ँयन्ति॑ ।

र॒श्मिभिः॑-समु॒दीरि॑ताः । अ॒स्मा-ल्लो॒काद॑-मुष्मा॒च्च । ऋ॒षिभि॑-रदात्-पृ॒श्निभिः॑ ॥ अपे॑त॒ वीत॒ वि च॑ सर्प॒तातः॑ । येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।

अहो॑भि-र॒द्भि-र॒क्तुभि॒-र्व्य॑क्तं । 117 (10)

य॒मो द॑दात्व-व॒सान॑मस्मै ॥ नृ मु॑णन्तु नृ पा॒त्वर्यः॑ । अ॒कृ॒ष्टा ये च॒ कृष्ट॑जाः । कु॒मारी॑षु क॒नीनी॑षु । जा॒रिणी॑षु च॒ ये हि॒ताः ॥ रेतः॑ पीता॒ आण्ड॑पीताः । अङ्गा॑रेषु च॒ ये हु॒ताः । उ॒भया᳚न् पुत्र॑ पौत्र॒कान् । यु॒वे॒ऽहं ँय॒मराज॑गान् ॥ “ श॒तमिन्नु श॒रदः॑{15}” ( ) ॥ अदो॒ यद्ब्रह्म॑ विल॒बं । पि॒तृ॒णाञ्च॑ य॒मस्य॑ च ।

वरु॑ण॒-स्याश्वि॑नो-र॒ग्नेः । म॒रुता᳚ञ्च वि॒हाय॑सां ॥

का॒म॒प्र॒यव॑णं मे अस्तु । स ह्ये॑वास्मि॑

स॒नात॑नः । इति नाको ब्रह्मिश्रवो॑ रायो॒ धनं ।

पु॒त्रानापो॑ दे॒वीरि॒हाहि॑ता ॥ 118 (18)

(पु॒रं - नव॑द्वारा - ब्र॒ह्मा - च - व्य॑क्तꣳ - श॒रदो॒ऽष्टौ च॑ (A27)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 27 ॥

1.1.28 अनुवाकं-28 T.A.1.28.1

विशी᳚र्ष्णीं॒ गृद्ध्र॑-शीर्ष्णीञ्च । अपेतो॑ निर्.ऋ॒तिꣳ ह॑थः । परिबाधᳺ श्वे॑तकु॒क्षं ।

नि॒जङ्घꣳ॑ शब॒लोद॑रं ॥ स॒ तान्. वा॒च्याय॑या स॒ह । अग्ने॒ नाश॑य स॒न्दृशः॑ । ई॒र्ष्या॒सू॒ये बु॑भु॒क्षां । म॒न्युं कृ॒त्यां च॑ दीधिरे ।

रथे॑न किꣳशु॒काव॑ता । अग्ने॒ नाश॑य स॒न्दृशः॑ ॥ 119 (10) (विशी᳚र्ष्णीं॒ दश॑) (A28)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः ।

ओउम् नमो नारायणाय ॥ 28 ॥

1.1.29 अनुवाकं-29 T.A.1.29.1

प॒र्जन्या॑य॒ प्रगा॑यत । दि॒वस्पु॒त्राय॑ मी॒ढुषे᳚ । स नो॑ य॒वस॑मिच्छतु ॥ इ॒दं ँवचः॑ प॒र्जन्या॑य स्व॒राजे᳚ । हृ॒दो अ॒स्त्वन्त॑र॒न्त-द्यु॑योत ।

म॒यो॒भूर्वातो॑ वि॒श्वकृ॑ष्टयः सन्त्व॒स्मे । सु॒पि॒प्प॒ला ओष॑धीर् दे॒वगो॑पाः ॥

यो गर्भ॒-मोष॑धीनां । गवा᳚ङ्कृ॒णोत्यर्व॑तां । प॒र्जन्यः॑ पुरु॒षीणां᳚ ॥ 120 (10)

(प॒र्जन्या॑य॒ दश॑) (A29)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 29 ॥

1.1.30 अनुवाकं-30 T.A.1.30.1

पुन॑र्मामैत्विन्द्रि॒यं । पुन॒रायुः॒ पुन॒र्भगः॑ । पुन॒र् ब्राह्म॑ण-मैतु मा । पुन॒र् द्रवि॑ण मैतु मा ॥ यन्मे॒ऽद्य रेतः॑ पृथि॒वीमस्कान्॑ ।

यदोष॑धीर॒प्यस॑र॒द्-यदापः॑ । इ॒दन्तत् पुन॒राद॑दे । दी॒र्घा॒यु॒त्वाय॒ वर्च॑से ॥ यन्मे॒ रेतः॒ प्रसि॑च्यते । यन्म॒ आजा॑यते॒ पुनः॑( ) । तेन॑ माम॒मृतं॑ कुरु । तेन॑ सुप्र॒जस॑ङ्कुरु ॥ 121 (12) (पुन॒र्द्वे च॑) (A30)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 30 ॥

1.1.31 अनुवाकं-31 T.A.1.31.6

अ॒द्भय-स्तिरो॒धा जा॑यत । तव॑ वैश्रव॒णः स॑दा । तिरो॑ धेहि सप॒त्नान्नः॑ । ये अपो॒ऽश्नन्ति॑ केच॒न ॥ त्वा॒ष्ट्रीं मा॒यां ँव᳚श्रव॒णः ।

रथꣳ॑ सहस्र॒ वन्धु॑रं । पु॒रु॒श्च॒क्रꣳ सह॑स्राश्वं । आस्था॒ याया॑हि नो ब॒लिं ॥ यस्मै॑ भू॒तानि॑ ब॒लिमाव॑हन्ति । धन॒ङ्गावो॒ हस्ति॒ हिर॑ण्य॒मश्वान्॑ । 122 (10)

असा॑म सुम॒तौ य॒ज्ञ्इय॑स्य । श्रियं॒ बिभ्र॒तो ऽन्न॑मुखीं ँवि॒राजं᳚ ॥ सु॒द॒र्॒.श॒ने च॑ क्रौ॒ञ्चे च॑ । मै॒ना॒गे च॑ म॒हागि॑रौ । श॒तद्वा॒ट्टर॑गम॒न्ता (स॒तद्वा॒ट्टर॑गम॒न्ता) ।

स॒ꣳ॒हार्यं॒ नग॑रं॒ तव॑ ॥ इति मन्त्राः᳚ । कल्पो॑ऽत ऊ॒द्‌र्ध्वं ॥ यदि॒ बलि॒ꣳ॒ हरे᳚त् ।

हि॒र॒ण्य॒ना॒भये॑ वितु॒दये॑ कौबे॒राया॒यं ब॑लिः । 123 (10)

सर्वभूताधिपतये न॑म इ॒ति । अथ बलिꣳ हृत्वोप॑तिष्ठे॒त ॥ क्ष॒त्रं क्ष॒त्रं ँवै᳚श्रव॒णः । ब्राह्मणा॑ वय॒ᳺ॒ स्मः ।

नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः । अस्मात् प्रविश्यान्न॑मद्धी॒ति ॥ अथ तमग्नि-मा॑दधी॒त । यस्मिन्ने तत्कर्म प्र॑युञ्जी॒त ॥

ति॒रोधा॒ भूः । ति॒रोधा॒ भुवः॑ । 124 (10)

ति॒रोधाः॒ स्वः॑ । ति॒रोधा॒ भूर्भुव॒स्स्वः॑ ।

सर्वेषां ँलोकाना-माधिपत्ये॑ सीदे॒ति ॥ अथ तमग्नि॑-मिन्धी॒त । यस्मिन्ने तत्कर्म प्र॑युञ्जी॒त ॥ ति॒रोधा॒ भूः स्वाहा᳚ । ति॒रोधा॒ भुवः॒ स्वाहा᳚ । ति॒रोधाः॒ स्वः॑ स्वाहा᳚ । ति॒रोधा॒ भूर्भुव॒स्स्व॑स्स्वाहा᳚ ॥

यस्मिन्नस्य काले सर्वा आहुतीर्. हुता॑ भवे॒युः । 125 (10)

अपि ब्राह्मण॑मुखी॒नाः । तस्मिन्नह्नः काले प्र॑युञ्जी॒त ।

परः॑ सु॒प्तज॑नाद्वे॒पि ॥ मा स्म प्रमाद्यन्त॑ माद्ध्या॒पयेत् । सर्वार्थाः᳚ सिद्ध्य॒न्ते । य ए॑वं ँवे॒द । क्षुद्ध्य-न्निद॑मजा॒नतां ।

सर्वार्था न॑ सिद्ध्य॒न्ते ॥ यस्ते॑ वि॒घातु॑को भ्रा॒ता ।

ममान्तर्. हृ॑दये॒ श्रितः । 126 (10)

तस्मा॑ इ॒ममग्र॒ पिण्ड॑ञ्जुहोमि । स मे᳚ऽर्था॒न् मा विव॑धीत् । मयि॒ स्वाहा᳚ ॥ रा॒जा॒धि॒रा॒जाय॑ प्रसह्य सा॒हिने᳚ । नमो॑ व॒यं ँवै᳚श्रव॒णाय॑ कुर्महे ।

स मे॒ कामा॒न् काम॒ कामा॑य॒ मह्यं᳚ । का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु । कु॒बे॒राय॑ वैश्रव॒णाय॑ । म॒हा॒रा॒जाय॒ नमः॑ । के॒तवो॒ अरु॑णासश्च ( ) ।

ऋ॒ष॒यो वात॑रश॒नाः । प्र॒ति॒ष्ठाꣳ श॒तधा॑ हि ।

स॒माहि॑तासो सहस्र॒धाय॑सं । शि॒वा नः॒ शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः । सु॒मृ॒डी॒का सर॑स्वति । मा ते॒ व्यो॑म स॒न्दृशि॑ ॥ 127 (17)

(अश्वा᳚न्-बलि॒र्-भुवो॑ - भवे॒युः - श्रित - श्च॑ स॒प्त च॑) (A31)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः ।

ओउम् नमो नारायणाय ॥ 31 ॥

1.1.32 अनुवाकं-32 T.A.1.32.3

सम् ँवथ्सरमेत॑द् व्रत॒ञ्चरेत् । द्वौ॑ वा मा॒सौ ॥ नियमः स॑मासे॒न ॥ तस्मिन् नियम॑ विशे॒षाः । त्रिषवण-मुदको॑पस्प॒र्॒.शी ।

चतुर्थ कालपान॑भक्तः॒ स्यात् । अहरहर्वा भैक्ष॑मश्न॒यात् । औदुम्बरीभिः समिद्भि-रग्निं॑ परि॒चरेत् । पुनर्मा मैत्विन्द्रिय-मित्येतेना-ऽनु॑वाके॒न ।

उद्धृत परिपूताभिरद्भिः कार्यं॑ कुर्वी॒त । 128 (10)

अ॑सञ्च॒यवान् । अग्नये वायवे॑ सूर्या॒य । ब्रह्मणे प्र॑जाप॒तये । चन्द्रमसे न॑क्षत्रे॒भ्यः । ऋतुभ्यः सम् ँव॑थ्सरा॒य । वरुणा-यारुणायेति व्र॑तहो॒माः । प्र॒व॒र्ग्यव॑दादे॒शः । अरुणाः का᳚ण्ड ऋ॒षयः ॥ अरण्ये॑ऽधीयी॒रन्न् । भद्रंकर्णेभिरिति द्वे॑ जपि॒त्वा । 129 (10)

महानाम्नीभि-रुदकꣳ सᳺ॑स्प॒र्श्य । तमाचा᳚र्यो द॒द्यात् । शिवानः शन्तमे-त्योषधी॑राल॒भते । सुमृडीके॑ति भू॒मिं । एवम॑पव॒र्गे ।

धे॑नुर् द॒क्षिणा । कꣳ सम् ँवास॑श्च क्षौ॒मं । अन्य॑द्वा शु॒क्लं । य॑था श॒क्ति वा । एवᳺ स्वाद्ध्याय॑ धर्मे॒ण ( ) । अरण्ये॑ऽधीयी॒त । तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो भ॒वति ॥ 130 (12)

(कु॒र्वी॒त - ज॑पि॒त्वा - स्वाद्ध्याय॑धर्मे॒ण द्वे च॑) (A32)

श्री छाया-सुवर्चलाम्बा समेत श्री सुर्यनारायण स्वामिने नमः । ओउम् नमो नारायणाय ॥ 32 ॥

Prapaataka Korvai with starting Padams of 1 to 32

आनुवाकम्स् :-

(भ॒द्रᳺ - स्मृतिः॑ - साक॒जांना॒ - मक्ष्य- ति॑ता॒म्रा - ण्य॑त्युद्‌र्ध्वा॒क्ष - आरोगः - क्वेद - मग्निश्च - स॑हस्र॒वृत् - प॒वित्र॑वन्त॒ -आत॑नुष्वा॒ -ष्टयो॑नीं॒ - ँयोऽसा॒ - वथादित्य - स्यारोग-स्याथ वायो- रथाग्ने॒र् - दक्षिणपूर्वस्या - मि॑न्द्रघो॒षा व॒-आप॑मापां॒- ँयो॑ऽपा - मापो॒ वै - चतु॑ष्टय्यो - जानुद॒घ्नी - म॒ग्निं प्र॒णीये॒ - मा नु॑ कं॒ - ँविशी᳚र्ष्णीं - प॒र्जन्या॑य॒ - पुन॑ - र॒द्भ्यः -सम् ँवथ्सरं द्वात्रिꣳ॑शत्)

Korvai with starting Padams of 1, 11, 21 Series of Dasinis :-

(भ॒द्रं - ज्यो॒तिषा॒ - तस्मिन् राजानं - क॒श्यपा᳚थ्-सहस्र॒वृदि॑यं॒- नपुꣳस॑क - म॒ष्टयो॑नी॒ - मवपतन्ताना - मा॒यत॑नवान् भवति - स॒तो बन्धुं॒ - ता उ॑त्तर॒तो - वज्र॑मे॒व - पुन॑र्मामैतु

त्रि॒ꣳ॒शदु॑त्तरश॒तम्)

First and Last Padam in TA, 1st Prapaatakam :-

(भद्रं - तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो भ॒वति)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके प्रथमः प्रपाठकः (अरुणप्रश्नः) समाप्तः ॥

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

6. त्रिणाचिकेतं

T.B.3.11.7.1 T.B.3.11.7.1

अ॒यं ँवाव यः पव॑ते । सो᳚ऽग्नि ना॑र्चिके॒तः । स यत् प्राङ् पव॑ते । तद॑स्य॒ शिरः॑ । अथ॒ यद् द॑क्षि॒णा । स दक्षि॑णः प॒क्षः । अथ॒ यत् प्र॒त्यक् । तत् पुच्छं᳚ । य दुदङ्ङ्॑ । स उत्त॑रः प॒क्षः । 37(10)

T.B.3.11.7.2 T.B.3.11.7.2

अथ॒ यथ् स॒म् ँवाति॑ । तद॑स्य स॒मञ्च॑नं च प्र॒सार॑णं च । अथो॑ स॒पंदे॒वास्य॒ सा ॥ सꣳ ह॒ वा अ॑स्मै॒ स कामः॑ पद्यते ।

यत् का॑मो॒ यज॑ते । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते ।

य उ॑ चैन-मे॒वं ँवेद॑ ॥ यो ह॒ वा अ॒ग्ने र्ना॑चिके॒तस्या॒यत॑नं प्रति॒॒ष्ठां ँवेद॑ । आ॒यत॑नवान् भवति । गच्छ॑ति प्रति॒ष्ठां । 38 (10)

T.B.3.11.7.3 T.B.3.11.7.3

हिर॑ण्यं॒ ँवा अ॒ग्ने र्ना॑चिके॒तस्या॒यत॑नं प्रति॒ष्ठा । य ए॒वं ँवेद॑ ।

आ॒यत॑नवान् भवति । गच्छ॑ति प्रति॒ष्ठां ॥

यो ह॒ वा अ॒ग्ने र्ना॑चिके॒तस्य॒ शरी॑रं॒ ँवेद॑ ।

स श॑रीर ए॒व स्व॒र्गं ँलो॒कमे॑ति ।

हिर॑ण्यं॒ ँवा अ॒ग्ने र्ना॑चिके॒तस्य॒ शरी॑रं ।

य ए॒वं ँवेद॑ । स श॑रीर ए॒व स्व॒र्गं ँलो॒कमे॑ति ॥ अथो॒ यथा॑ रु॒क्म उत्-त॑प्तो भा॒य्यात् । 39 (10)

T.B.3.11.7.4 T.B.3.11.7.4

ए॒वमे॒व स तेज॑सा॒ यश॑सा । अ॒स्मिᳺश्च॑ लो॒के॑-ऽमुष्मिᳺ॑श्च भाति ॥ उ॒रवो॑ ह॒ वै नामै॒ते लो॒काः । ये-ऽव॑रेणादि॒त्यं । अथ॑ है॒ते वरी॑याꣳसो लो॒काः । ये परे॑णादि॒त्यं । अन्त॑वन्तꣳ ह॒ वा ए॒ष क्ष॒य्यं ँलो॒कं ज॑यति । यो-ऽव॑रेणादि॒त्यं ।

अथ॑ है॒षो॑-ऽन॒न्त-म॑पा॒र-म॑क्ष॒य्यं ँलो॒कं ज॑यति । यः परे॑णादि॒त्यं ( ) ॥ 40 (10)

T.B.3.11.7.5 T.B.3.11.7.5

अ॒न॒न्तꣳ ह॒ वा अ॑पा॒र-म॑क्ष॒य्यं ँलो॒कं ज॑यति । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैन-मे॒वं ँवेद॑ ॥ अथो॒ यथा॒ रथे॒ तिष्ठ॒न् पक्ष॑सी पर्या॒-वर्त्त॑माने प्र॒त्यपे᳚क्षते ।

ए॒व-म॑होरा॒त्रे प्र॒त्यपे᳚क्षते ।

नास्या॑-होरा॒त्रे लो॒कमा᳚प्नुतः । यो᳚ऽग्निं ना॑चि॒केतं चि॑नु॒ते । य उ॑ चैन-मे॒वं ँवेद॑ ॥ 41 (8)

(उत्त॑रः प॒क्षो - गच्छ॑ति प्रति॒ष्ठां - भा॒य्याद् - यः परे॑णादि॒त्य - +म॒ष्टौ च॑) (A7)

T.B.3.11.8.1 T.B.3.11.8.1

उ॒शन्. ह॒ वै वा॑जश्रव॒सः स॑र्ववेद॒सं द॑दौ ।

तस्य॑ ह॒ नचि॑केता॒ नाम॑ पु॒त्र आ॑स । तꣳ ह॑ कुमा॒रꣳ सन्तं᳚ । दक्षि॑णासु नी॒यमा॑नासु श्र॒द्धा ऽऽवि॑वेश । स हो॑वाच । तत॒ कस्मै॒ मां दा᳚स्य॒सीति॑ । द्वि॒तीयं॑ तृ॒तीयं᳚ ॥ तꣳ ह॒ परी॑त उवाच । मृ॒त्यवे᳚ त्वा ददा॒मीति॑ ॥ तꣳ ह॒ स्मोत्थि॑तं॒ ँवाग॒भिव॑दति । 42 (10)

T.B.3.11.8.2 T.B.3.11.8.2

गौत॑म कुमा॒रमिति॑ । स हो॑वाच । परे॑हि मृ॒त्यो र्गृ॒हान् । मृ॒त्यवे॒ वै त्वा॑ऽदा॒-मिति॑ ॥

तं ँवै प्र॒वस॑न्तं ग॒न्तासीति॑ होवाच ।

तस्य॑ स्म ति॒स्रो रात्री॒-रना᳚श्वान् गृ॒हे व॑सतात् । स यदि॑ त्वा पृ॒च्छेत् । कुमा॑र॒ कति॒ रात्री॑-रवाथ्सी॒-रिति॑ । ति॒स्र इति॒ प्रति॑ ब्रूतात् । किं प्र॑थ॒माꣳ रात्रि॑-माश्ना॒ इति॑ । 43 (10)

T.B.3.11.8.3 T.B.3.11.8.3

प्र॒जां त॒ इति॑ । किं द्वि॒तीया॒-मिति॑ । प॒शूᳺस्त॒ इति॑ ।

किं तृ॒तीया॒-मिति॑ । सा॒धु॒कृ॒त्यां त॒ इति॑ ॥ तं ँवै प्र॒वस॑न्तं जगाम । तस्य॑ ह ति॒स्रो रात्री॒-रना᳚श्वान् गृ॒ह उ॑वास । तमा॒गत्य॑ पप्रच्छ ।

कुमा॑र॒ कति॒ रात्री॑-रवाथ्सी॒-रिति॑ । ति॒स्र इति॒ प्रत्यु॑वाच । 44 (10)

T.B.3.11.8.4 T.B.3.11.8.4

किं प्र॑थ॒माꣳ रात्रि॑-माश्ना॒ इति॑ । प्र॒जां त॒ इति॑ ।

किं द्वि॒तीया॒-मिति॑ । प॒शूᳺस्त॒ इति॑ । किं तृ॒तीया॒-मिति॑ ।

सा॒धु॒कृ॒त्यां त॒ इति॑ ॥ नम॑स्ते अस्तु भगव॒ इति॑ होवाच । वरं॑ ँवृणी॒ष्वेति॑ ॥ पि॒तर॑मे॒व जीव॑न्नया॒नीति॑ ॥ द्वि॒तीयं॑ ँवृणी॒ष्वेति॑ । 45 (10)

T.B.3.11.8.5 T.B.3.11.8.5

इ॒ष्टा॒पू॒र्तयो॒ र्मे ऽक्षि॑तिं ब्रू॒हीति॑ होवाच ।

तस्मै॑ है॒तम॒ग्निं ना॑चिके॒त-मु॑वाच ।

ततो॒ वै तस्ये᳚-ष्टापू॒र्ते ना क्षी॑येते ॥

नास्ये᳚ष्टा-पू॒र्ते क्षी॑येते । योऽ᳚ग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैन-मे॒वं ँवेद॑ ॥ तृ॒तीयं॑ ँवृणी॒ष्वेति॑ । पु॒न॒ मृ॒र्त्यो र्मे ऽप॑जितिं ब्रू॒हीति॑ होवाच । तस्मै॑ है॒तम॒ग्निं ना॑चिके॒त-मु॑वाच ।

ततो॒ वै सोऽप॑ पुन र्मृ॒त्यु-म॑जयत् । 46 (10)

T.B.3.11.8.6 T.B.3.11.8.6

अप॑ पुन र्मृ॒त्युं ज॑यति । योऽ᳚ग्निं ना॑चिके॒तं चि॑नु॒ते ॥ य उ॑ चैन-मे॒वं ँवेद॑ ॥ प्र॒जाप॑ति॒ र्वै प्र॒जाका॑म॒-स्तपो॑-ऽतप्यत ।

स हिर॑ण्य॒-मुदा᳚स्यत् । ta-dअ॒ग्नौ प्रास्य॑त् । ta-dअ॑स्मै॒ नाच्छ॑दयत् । तद् द्वि॒तीयं॒ प्रास्य॑त् । ta-dअ॑स्मै॒ नै वाच्छ॑दयत् । तत् तृ॒तीयं॒ प्रास्य॑त् । 47 (10)

T.B.3.11.8.7 T.B.3.11.8.7

ta-dअ॑स्मै॒ नै वाच्छ॑दयत् । ta-dआ॒त्म-न्ने॒व हृ॑द॒य्ये᳚ऽग्नौ वै᳚श्वान॒रे प्रास्य॑त् ।

ta-dअ॑स्मा अच्छदयत् । तस्मा॒द्धिर॑ण्यं॒ कनि॑ष्ठं॒ धना॑नां । भु॒ञ्जत् प्रि॒यत॑मं । हृ॒द॒य॒जꣳ हि । स वै तमे॒व नावि॑न्दत् । यस्मै॒ तां दक्षि॑णा॒-मने᳚ष्यत् । ताᳺ स्वायै॒व हस्ता॑य॒ दक्षि॑णायानयत् ।

तां प्रत्य॑गृह्णात् । 48 (10)

T.B.3.11.8.8 T.B.3.11.8.8

दक्षा॑य त्वा॒ दक्षि॑णां॒ प्रति॑गृह्णा॒मीति॑ । सो॑ ऽदक्षत॒ दक्षि॑णां प्रति॒गृह्य॑ ।

दक्ष॑ते ह॒ वै दक्षि॑णां प्रति॒गृह्य॑ । य ए॒वं ँवेद॑ ॥ ए॒तद्ध॑ स्म॒ वै तद् वि॒द्वाꣳसो॑ वाजश्रव॒सा गोत॑माः । अप्य॑नूदे॒श्यां᳚ दक्षि॑णां॒ प्रति॑गृह्णन्ति । उ॒भये॑न व॒यं द॑क्षिष्यामह ए॒व दक्षि॑णां प्रति॒गृह्येति॑ । ते॑ ऽदक्षन्त॒ दक्षि॑णां प्रति॒गृह्य॑ ।दक्ष॑ते ह॒ वै दक्षि॑णां प्रति॒गृह्य॑ । य ए॒वं ँवेद॑ ( ) । प्र हा॒न्यं ँव्ली॑नाति ॥ 49 (11)

(व॒द॒ - त्या॒श्ना॒ इत् - यु॑वाच - द्वि॒तीयं॑ ँवृणी॒ष्वे - त्य॑जयत् - तृ॒तीयं॒ प्रास्य॑ - दगृह्णा॒द् - य ए॒वं ँवेदैकं॑ च) (A8)

T.B.3.11.9.1 T.B.3.11.9.1

तꣳ है॒त-मेके॑ पशुब॒न्ध ए॒वोत्त॑रवे॒द्यां चि॑न्वते । उ॒त्त॒र॒वे॒दिस॑म्मित ए॒षो᳚ऽग्निरिति॒ वद॑न्तः । तन्न तथा॑ कु॒र्यात् । ए॒त-म॒ग्निं कामे॑न॒ व्य॑र्द्धयेत् । स ए॑नं॒ कामे॑न॒ व्यृ॑द्धः ।

कामे॑न॒ व्य॑र्द्धयेत् । सौ॒म्ये वावै न॑मध्व॒रे चि॑न्वी॒त । यत्र॑ वा॒ भूयि॑ष्ठा॒ आहु॑तयो हू॒येरन्न्॑ ।

ए॒त-म॒ग्निं कामे॑न॒ सम॑र्द्धयति । स ए॑नं॒ कामे॑न॒ समृ॑द्धः । 50 (10)

T.B.3.11.9.2 T.B.3.11.9.2

कामे॑न॒ सम॑र्द्धयति ॥ अथ॑ हैनं पु॒रर्.ष॑यः ।

उ॒त्त॒र॒वे॒द्या-मे॒व स॒त्रिय॑-मचिन्वत । ततो॒ वै तेऽवि॑न्दन्त प्र॒जां । अ॒भि स्व॒र्गं ँलो॒क-म॑जयन्न् । वि॒न्दत॑ ए॒व प॒जां । अ॒भि स्व॒र्गं ँलो॒कं ज॑यति । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैन-मे॒वं ँवेद॑ ॥ अथ॑ हैनं ँवा॒युर्. ऋद्धि॑कामः । 51 (10)

T.B.3.11.9.3 T.B.3.11.9.3

य॒था॒न्यु॒प्त-मे॒वोप॑दधे । ततो॒ वै स ए॒ता-मृद्धि॑-माद्‌र्ध्नोत् । यामि॒दं ँवा॒युर्. ऋ॒द्धः । ए॒ता-मृद्धि॑-मृद्ध्नोति । यामि॒दं ँवा॒युर्. ऋ॒द्धः । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैन-मे॒वं ँवेद॑ ॥ अथ॑ हैनं गोब॒लो वार्ष्णः॑ प॒शुका॑मः ।

पांक्त॑मे॒व चि॑क्ये । पञ्च॑ पु॒रस्ता᳚त् । 52 (10)

T.B.3.11.9.4 T.B.3.11.9.4

पञ्च॑ दक्षिण॒तः । पञ्च॑ प॒श्चात् । पञ्चो᳚त्तर॒तः । एकां॒ मद्ध्ये᳚ । ततो॒ वै स स॒हस्रं॑ प॒शून् प्राप्नो᳚त् । प्र स॒हस्रं॑ प॒शू-ना᳚प्नोति । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैन-मे॒वं ँवेद॑ ॥

अथ॑ हैनं प्र॒जाप॑ति॒ र्ज्यैष्ठ्य॑कामो॒ यश॑स्कामः प्र॒जन॑नकामः । त्रि॒वृत॑मे॒व चि॑क्ये । 53 (10)

T.B.3.11.9.5 T.B.3.11.9.5

स॒प्त पु॒रस्ता᳚त् । ति॒स्रो द॑क्षिण॒तः । स॒प्त प॒श्चात् । ति॒स्र उत्त॑र॒तः । एकां॒ मद्ध्ये᳚ ।

ततो॒ वै स प्र यशो॒ ज्यैष्ठ्य॑-माप्नोत् ।

ए॒तां प्रजा॑तिं॒ प्राजा॑यत । यामि॒दं प्र॒जाः प्र॒जाय॑न्ते । त्रि॒वृद् वै ज्यैष्ठ्यं᳚ । मा॒ता पि॒ता पु॒त्रः । 54 (10)

T.B.3.11.9.6 T.B.3.11.9.6

त्रि॒वृत् प्र॒जन॑नं । उ॒पस्थो॒ योनि॑ र्मद्ध्य॒मा ।

प्रयशो॒ ज्यैष्ठ्य॑-माप्नोति । ए॒तां प्र॑जातिं॒ प्रजा॑यते । यामि॒दं प्र॒जाः प्र॒जाय॑न्ते । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं ँवेद॑ ॥ अथ॑ हैन॒-मिन्द्रो॒ ज्यैष्ठ्य॑कामः । ऊ॒द्‌र्ध्वा ए॒वोप॑दधे । ततो॒ वै स ज्यैष्ठ्य॑-मगच्छत् । 55 (10)

T.B.3.11.9.7 T.B.3.11.9.7

ज्यैष्ठ्यं॑ गच्छति । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते ।

य उ॑ चैन-मे॒वं ँवेद॑ ॥ अथ॑ हैन-म॒सावा॑दि॒त्यः स्व॒र्गका॑मः । प्राची॑रे॒वोप॑दधे । ततो॒ वै सो॑ऽभि स्व॒र्गं ँलो॒क-म॑जयत् । अ॒भि स्व॒र्गं ँलो॒कं ज॑यति । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते ।

य उ॑ चैन-मे॒वं ँवेद॑ ॥ स यदी॒च्छेत् । 56 (10)

T.B.3.11.9.8 T.B.3.11.9.8

ते॒ज॒स्वी॒ य॑श॒स्वी ब्र॑ह्मवर्च॒सी स्या॒मिति॑ ।

प्राङ्आ होतु॒र्द्धिष्ण्या॒-दुथ्स॑र्पेत् । येयं प्रागा॒द् यश॑स्वती । सा मा॒ प्रोर्णो॑तु ।

तेज॑सा॒ यश॑सा ब्रह्मवर्च॒सेनेति॑ ।

ते॒ज॒स्व्ये॑व य॑श॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति ॥ अथ॒ यदी॒च्छेत् । भूयि॑ष्ठं मे॒ श्रद्द॑धीरन्न् । भूयि॑ष्ठा॒ दक्षि॑णा नयेयु॒रिति॑ । दक्षि॑णासु नी॒यमा॑नासु॒ प्राच्येहि॒ प्राच्ये॒हीति॒ प्राची॑ जुषा॒णा वेत्वाज्य॑स्य॒ स्वाहेति॑ सृ॒वेणो॑-प॒हत्या॑ हव॒नीये॑ जुहुयात् । 57 (10)

T.B.3.11.9.9 T.B.3.11.9.9

भूयि॑ष्ठ-मे॒वास्मै॒ श्रद्द॑धते । भूयि॑ष्ठा॒ दक्षि॑णा नयन्ति ॥ पुरी॑ष-मुप॒धाय॑ । चि॒ति॒-क्लृ॒प्तिभि॑-रभि॒मृश्य॑ । अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ । चत॑स्र ए॒ता आहु॑ती र्जुहोति ।

त्वम॑ग्ने रु॒द्र इति॑ शतरु॒द्रीय॑स्य रू॒पं ।

अग्ना॑-विष्णू॒ इति॑ वसो॒द्‌र्धारा॑याः । अन्न॑पत॒ इत्य॑न्न हो॒मः । स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इति॑ विश्व॒प्रीः ( ) ॥ 58 (10)

[समृ॑द्ध॒ - ऋद्धि॑कामः - प॒रस्ता᳚च् - चिक्ये - पु॒त्रो॑ - ऽगच्छ - दि॒च्छे - ज्जु॑हुयाद् - विश्व॒प्रिः ( ) ] (A9)

श्पेचिअल् खोर्वै

(पुरर्.ष॑यो वा॒युर् गो॑ब॒लः स॒हस्रं॑ प्र॒जाप॑ति स्त्रि॒वृदिन्द्रो॒ ऽसावा॑दि॒त्यः स यदी॒च्छेत् )

T.B.3.11.10.1 T.B.3.11.10.1

यां प्र॑थ॒मा-मिष्ट॑का-मुप॒दधा॑ति । इ॒मं तया॑ लो॒क-म॒भि ज॑यति । अथो॒ या अ॒स्मिन् ँलो॒के दे॒वताः᳚ ।

तासा॒ꣳ॒ सायु॑ज्यꣳ सलो॒कता॑-माप्नोति । यां द्वि॒तीया॑-मुप॒दधा॑ति । अ॒न्त॒रि॒क्ष॒लो॒कं तया॒-ऽभि जय॑ति । अथो॒ या अ॑न्तरिक्ष लो॒के दे॒वताः᳚ ।

तासा॒ꣳ॒ सायु॑ज्यꣳ सलो॒कता॑-माप्नोति ।

यां तृ॒तीया॑-मुप॒दधा॑ति ।

अ॒मुं तया॑ लो॒क-म॒भिज॑यति । 59 (10)

T.B.3.11.10.2 T.B.3.11.10.2

अथो॒ या अ॒मुष्मि॑न् ँलो॒के दे॒वताः᳚ ।

तासा॒ꣳ॒ सायु॑ज्यꣳ सलो॒कता॑-माप्नोति ।

अथो॒ या अ॒मूरित॑रा अ॒ष्टाद॑श ।

य ए॒वामी उ॒रव॑श्च॒ वरी॑याꣳसश्च लो॒काः ।

ताने॒व ताभि॑-र॒भिज॑यति ॥

का॒म॒चारो॑ ह॒ वा अ॑स्यो॒रुषु॑ च॒ वरी॑यस्सु च लो॒केषु॑ भवति । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैन-मे॒वं ँवेद॑ ॥ स॒म् ँव॒थ्स॒रो वा अ॒ग्नि ना॑र्चिके॒तः । तस्य॑ वस॒न्तः शिरः॑ । 60 (10)

T.B.3.11.10.3 T.B.3.11.10.3

ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒र्॒.षा उत्त॑रः । श॒रत् पुच्छं᳚ । मासाः᳚ कर्मका॒राः । अ॒हो॒रा॒त्रे श॑तरु॒द्रीयं᳚ । प॒र्जन्यो॒ वसो॒द्‌र्धारा᳚ ।

यथा॒ वै प॒र्जन्यः॒ सुवृ॑ष्टं ँवृ॒ष्ट्वा ।

प्र॒जाभ्यः॒ सर्वा॒न् कामा᳚न्थ् संपू॒रय॑ति ।

ए॒व-मे॒व स तस्य॒ सर्वा॒न् कामा॒न्थ् संपू॑रयति ।

यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते । 61 (10)

T.B.3.11.10.4 T.B.3.11.10.4

य उ॑ चैन-मे॒वं ँवेद॑ ॥ स॒म् ँव॒थ्स॒रो वा अ॒ग्नि र्ना॑चिके॒तः । तस्य॑ वस॒न्तः शिरः॑ । ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒॒र्॒.षाः पुच्छं᳚ । श॒रदुत्त॑रः प॒क्षः । हे॒म॒न्तो मद्ध्यं᳚ ।

पू॒र्व॒प॒क्षाश्चित॑यः । अ॒प॒र॒प॒क्षाः पुरी॑षं । अ॒हो॒रा॒त्राणीष्ट॑काः ( ) । ए॒ष वाव सो᳚ऽग्नि-र॑ग्नि॒मयः॑ पुनर्ण॒वः । अ॒ग्नि॒मयो॑ ह॒ वै पु॑नर्ण॒वो भू॒त्वा । स्व॒र्गं ँलो॒क-मेति॑ ।

आ॒दि॒त्यस्य॒ सायु॑ज्यं । यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते ।

य उ॑ चैन-मे॒वं ँवेद॑ ॥ 62 (16)

(अ॒मुं तया॑ लो॒कम॒भिज॑यति॒ - शिर॑ - श्चिनु॒त - इष्ट॑काः॒ षट्च॑) (A10)

ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

=======================