तैत्तिरीय ब्राह्मणे तृतीयाष्टके सप्तमः प्रपाठकः (अच्छिद्रं)
1. अच्छिद्रं
अच्छिद्रं काण्डं प्रायश्चित्तेन मन्त्रैश्च यज्ञच्छिद्रपूरणादच्छिद्रमुच्यते
T.B.3.7.1.1
सर्वा॒न्॒. वा ए॒षो᳚ऽग्नौ कामा॒न् प्रवे॑शयति ।
यो᳚-ऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ ।
स यदनि॑ष्ट्वा प्रया॒यात् । अका॑मप्रीता एनं॒ कामा॒ नानु॒ प्रया॑युः ।
अ॒ते॒जा अ॑वी॒र्यः॑ स्यात् । स जु॑हुयात् । तुभ्यं॒ ता अ॑ङ्गिरस्तम ।
विश्वाः᳚ सुक्षि॒तयः॒ पृथ॑क् । अग्ने॒ कामा॑य येमिर॒ इति॑ ।
कामा॑ने॒वास्मि॑न् दधाति । 1 (10)
T.B.3.7.1.2
काम॑प्रीता एनं॒ कामा॒ अनु॒प्रया᳚न्ति । ते॒ज॒स्वी वी॒र्या॑वान् भवति ॥
सन्त॑ति॒र्वा ए॒षा य॒ज्ञस्य॑ । यो᳚-ऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ ।
स यदु॒द्वाय॑ति । विच्छि॑त्ति-रे॒वास्य॒ सा ॥ तं प्राञ्च॑मु॒द्धृत्य॑ ।
मन॒सोप॑तिष्ठेत । मनो॒ वै प्र॒जाप॑तिः ।
प्रा॒जा॒प॒त्यो य॒ज्ञः । 2 (10)
T.B.3.7.1.3
मन॑सै॒व य॒ज्ञꣳ सन्त॑नोति । भूरित्या॑ह । भू॒तो वै प्र॒जाप॑तिः ।
भूति॑मे॒वोपै॑ति ॥ वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णद्र्ध्यते ।
यस्या-हि॑ताग्ने-र॒ग्निर॑प॒क्षाय॑ति । याव॒च्छम्य॑या प्र॒विद्ध्ये᳚त् ।
यदि॒ ताव॑दप॒क्षाये᳚त् । तꣳ संभ॑रेत् । इ॒दं त॒ एकं॑ प॒र उ॑त॒ एकं᳚ । 3 (10)
T.B.3.7.1.4
तृ॒तीये॑न॒ ज्योति॑षा॒ सम् ँवि॑शस्व । स॒म् ँवेश॑नस्त॒नुवै॒ चारु॑रेधि ।
प्रि॒ये दे॒वानां᳚ पर॒मे ज॒नित्र॒ इति॑ । ब्रह्म॑णै॒वैन॒ꣳ॒ संभ॑रति ।
सैव ततः॒ प्राय॑श्चित्तिः । यदि॑ परस्त॒-राम॑प॒क्षाये᳚त् ।
अ॒नु॒ प्र॒यायाव॑स्येत् । सो ए॒व ततः॒ प्राय॑श्चित्तिः ॥
ओष॑धी॒र्वा ए॒तस्य॑ प॒शून् पयः॒ प्रवि॑शति ।
यस्य॑ ह॒विषे॑ व॒थ्सा अ॒पाकृ॑ता॒ धय॑न्ति । 4 (10)
T.B.3.7.1.5
तान्. यद्दु॒ह्यात् । या॒तया᳚म्ना ह॒विषा॑ यजेत । यन्न दु॒ह्यात् ।
य॒ज्ञ॒प॒रु-र॒न्तरि॑यात् । वा॒य॒व्यां᳚ ँयवा॒गूं निर्व॑पेत् ।
वा॒युर्वै पय॑सः प्रदापयि॒ता । स ए॒वास्मै॒ पयः॒ प्रदा॑पयति ।
पयो॒ वा ओष॑धयः । पयः॒ पयः॑ ।
पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे । 5 (10)
T.B.3.7.1.6
अथोत्त॑रस्मै ह॒विषे॑ व॒थ्सान॒पा कु॑र्यात् । सैव ततः॒ प्राय॑श्चित्तिः ॥
अ॒न्य॒त॒रान्. वा ए॒ष दे॒वान् भा॑ग॒धेये॑न॒ व्य॑द्र्धयति ।
ये यज॑मानस्य सा॒यं गृ॒हमा॒-गच्छ॑न्ति ।
यस्य॑ सायं दु॒ग्धꣳ ह॒विरार्ति॑-मा॒र्च्छति॑ ।
इन्द्रा॑य व्री॒हीन्नि॒-रुप्यो-प॑वसेत् । पयो॒ वा ओष॑धयः ।
पय॑ ए॒वारभ्य॑ गृही॒त्वो-प॑वसति ।
यत्प्रा॒तः स्यात् । तच्छृ॒तं कु॑र्यात् । 6 (10)
T.B.3.7.1.7
अथेत॑र ऐ॒न्द्रः पु॑रो॒डाशः॑ स्यात् । इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति ।
पयो॒ वा ओष॑धयः । पयः॒ पयः॑ । पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे ।
अथोत्त॑रस्मै ह॒विषे॑ व॒थ्सान॒पा कु॑र्यात् । सैव ततः॒ प्राय॑श्चित्तिः ॥
उ॒भया॒न्॒. वा ए॒ष दे॒वान् भा॑ग॒धेये॑न॒ व्य॑द्र्धयति ।
ये यज॑मानस्य सा॒यं च॑ प्रा॒तश्च॑ गृ॒हमा॒-गच्छ॑न्ति ।
यस्यो॒भयꣳ॑ ह॒विरार्ति॑-मा॒र्च्छति॑ । 7 (10)
T.B.3.7.1.8
ऐ॒न्द्रं पञ्च॑शराव-मोद॒नं निर्व॑पेत् । अ॒ग्निं दे॒वता॑नां प्रथ॒मं ँय॑जेत् ।
अ॒ग्निमु॑खा ए॒व दे॒वताः᳚ प्रीणाति । अ॒ग्निं ँवा अन्व॒न्या दे॒वताः᳚ ।
इन्द्र॒मन्व॒न्याः । ता ए॒वोभयीः᳚ प्रीणाति । पयो॒ वा ओष॑धयः ।
पयः॒ पयः॑ । पय॑सै॒वास्मै॒ पयोऽव॑रुन्धे ।
अथोत्त॑रस्मै ह॒विषे॑ व॒थ्सान॒पा कु॑र्यात् । 8 (10)
T.B.3.7.1.9
सैव ततः॒ प्राय॑श्चित्तिः ॥ अ॒द्र्धो वा ए॒तस्य॑ य॒ज्ञस्य॑ मीयते ।
यस्य॒ व्रत्येऽह॒न् पत्न्य॑ना-लम्भु॒का भव॑ति । ताम॑प॒रुद्ध्य॑ यजेत ।
सर्वे॑णै॒व य॒ज्ञेन॑ यजते । तामि॒ष्ट्वो-प॑ह्वयेत । अमू॒हम॑स्मि ।
सा त्वं । द्यौर॒हं । पृ॒थि॒वी त्वं ( ) । सामा॒हं । ऋक्त्वं ।
तावेहि॒ संभ॑वाव । स॒ह रेतो॑ दधावहै । पु॒ꣳ॒से पु॒त्राय॒ वेत्त॑वै ।
रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॒येति॑ ।
अ॒द्र्ध ए॒वैना॒मु-प॑ह्वयते ।
सैव ततः॒ प्राय॑श्चित्तिः ॥ 9 (18)
(द॒धा॒ति॒ - य॒ज्ञ - उ॑त॒ एकं॒ - धय॑न्ति - रुन्धे - कुर्या - दा॒र्छ - त्य॒पाकु॑र्यात् - पृथि॒वी त्वम॒ष्टौ च॑) (A1)
Special Korvai
(सर्वा॒न्॒. वि वै यदि॑ परस्त॒रामोष॑धीरन् यत॒रानु॒भया॑न॒र्धो वै )
3.7.2.1
यद्विः ष॑ण्णेन जुहु॒यात् । अप्र॑जा अप॒शुर्यज॑मानः स्यात् ।
यदना॑यतने नि॒नये᳚त् । अ॒ना॒य॒त॒न-स्स्या᳚त् ।
प्रा॒जा॒प॒त्यय॒र्चा व॑ल्मीक-व॒पाया॒म-व॑नयेत् । प्रा॒जा॒प॒त्यो वै व॒ल्मीकः॑।
य॒ज्ञः प्र॒जाप॑तिः । प्र॒जाप॑तावे॒व य॒ज्ञं प्रति॑ष्ठापयति ।
भूरित्या॑ह । भू॒तो वै प्र॒जाप॑तिः । 10 (10)
T.B.3.7.2.2
भूति॑मे॒वोपै॑ति । तत् कृ॒त्वा । अ॒न्यां दु॒ग्ध्वा पुन॑र्. होत॒व्यं᳚ ।
सैव ततः॒ प्राय॑श्चित्तिः ॥ यत्की॒टा-व॑पन्नेन जुहु॒यात् ।
अप्र॑जा अप॒शु-र्यज॑मानः स्यात् । यदना॑यतने नि॒नये᳚त् ।
अ॒ना॒य॒त॒नः स्या᳚त् ।
म॒द्ध्य॒मेन॑ प॒र्णेन॑ द्यावा-पृथि॒व्य॑-य॒र्चाऽन्तः॑ परि॒धि निन॑येत् ।
द्यावा॑पृथि॒व्यो-रे॒वैन॒त्-प्रति॑ष्ठापयति । 11 (10)
T.B.3.7.2.3
तत्कृ॒त्वा । अ॒न्यां दु॒ग्ध्वा पुन॑र्. होत॒व्यं᳚ । सैव ततः॒ प्राय॑श्चित्तिः ॥
यदव॑वृष्टेन जुहु॒यात् । अप॑रूप-मस्या॒त्म-ञ्जा॑येत ।
कि॒लासो॑ वा॒ स्याद॑र्.श॒सो वा᳚ । यत् प्रत्ये॒यात् । य॒ज्ञं ँविच्छि॑न्द्यात् ।
स जु॑हुयात् । मि॒त्रो जना᳚न् कल्पयति प्रजा॒नन्न् । 12 (10)
T.B.3.7.2.4
मि॒त्रो दा॑धार पृथि॒वीमु॒त द्यां । मि॒त्रः कृ॒ष्टीर-नि॑मिषा॒ ऽभिच॑ष्टे ।
स॒त्याय॑ ह॒व्यं घृ॒तव॑-ज्जुहो॒तेति॑ । मि॒त्रेणै॒वैन॑त् कल्पयति ।
तत्कृ॒त्वा । अ॒न्यां दु॒ग्ध्वा पुन॑र्.होत॒व्यं᳚ । सैव ततः॒ प्राय॑श्चित्तिः ॥
यत् पूर्व॑स्या॒-माहु॑त्याꣳ हु॒ताया॒-मुत्त॒रा-ऽऽहु॑तिः॒ स्कन्दे᳚त् ।
द्वि॒पाद्भिः॑ प॒शुभि॒-र्यज॑मानो॒ व्यृ॑॑द्ध्येत ।
यदुत्त॑रया॒ ऽभिजु॑हु॒यात् । 13 (10)
T.B.3.7.2.5
चतु॑ष्पाद्भिः प॒शुभि॒-र्यज॑मानो॒ व्यृ॑द्ध्येत ।
यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा॑नि ।
तत्र॑ ह॒व्यानि॑ गाम॒येति॑ वानस्प॒त्य-य॒र्चा स॒मिध॑-मा॒धाय॑ ।
तू॒ष्णीमे॒व पुन॑-र्जुहुयात् ।
वन॒स्पति॑नै॒व य॒ज्ञस्यार्तां॒ चाना᳚र्तां॒ चाहु॑ती॒ विदा॑धार । तत्कृ॒त्वा ।
अ॒न्यां दु॒ग्ध्वा पुन॑र्. होत॒व्यं᳚ । सैव ततः॒ प्राय॑श्चित्तिः ॥
यत्पु॒रा प्र॑या॒जेभ्यः॒ प्राङङ्गा॑रः॒ स्कन्दे᳚त् ।
अ॒द्ध्व॒र्यवे॑ च॒ यज॑मानाय॒ चाकᳺ॑ स्यात् । 14 (10)
T.B.3.7.2.6
यद् द॑क्षि॒णा । ब्र॒ह्मणे॑ च॒ यज॑मानाय॒ चाकᳺ॑ स्यात् ।
यत् प्र॒त्यक् । होत्रे॑ च॒ पत्नि॑यै च॒ यज॑मानाय॒ चाकᳺ॑ स्यात् ।
यदुदङ्ङ्॑ । अ॒ग्नीधे॑ च प॒शुभ्य॑श्च॒ यज॑मानाय॒ चाकᳺ॑ स्यात् ।
यद॑भिजुहु॒यात् । रु॒द्रो᳚ऽस्य प॒शून् घातु॑कः स्यात् ।
यन्नाभि॑ जुहु॒यात् । अशा᳚न्तः॒ प्रह्रि॑येत ॥ 15 (10)
T.B.3.7.2.7
सृ॒वस्य॒ बुद्ध्ने॑नाभि॒ निद॑द्ध्यात् ।
मा त॑मो॒ मा य॒ज्ञस्त॑म॒न्मा यज॑मान-स्तमत् ।
नम॑स्ते अस्त्वाय॒ते । नमो॑ रुद्र पराय॒ते । नमो॒ यत्र॑ नि॒षीद॑सि ।
अ॒मुं मा हिꣳ॑सीर॒मुं मा हिꣳ॑सी॒रिति॒ येन॒ स्कन्दे᳚त् ॥ तं प्रह॑रेत् ।
स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दाः । स्तोम॑पृष्ठो घृ॒तवा᳚न्-थ्सु॒प्रती॑कः ।
मा नो॑ हासीन्मेत्थि॒तो (हासीर्मेत्थि॒तो) नेत्त्वा॒ जहा॑म ( ) ।
गो॒पो॒षं नो॑ वीरपो॒षं च॑ य॒च्छेति॑ ।
ब्रह्म॑णै॒वैनं॒ प्रह॑रति । सैव ततः॒ प्राय॑श्चित्तिः ॥ 16 (13)
(वै प्र॒जाप॑तिः - स्थापयति - प्रजा॒नन् - न॒भिजु॑हु॒याथ् - स्या᳚द् - ध्रियेत॒ - जहा॑म॒ त्रीणि॑ च) (A2)
Special Korvai
(यद्विःष॑ण्णेन प्राजाप॒त्यया॒ यत् की॒टा म॑द्ध्य॒मेन॒ यदव॑वृष्टेन॒ यत् पूर्व॑स्यां॒ ँयत् पु॒रा प्र॑या॒जेभ्य॒ प्राङ्ङ्गा॑रो॒ यद् द॑क्षि॒णा यत् प्र॒त्यग्यदुदङ्ङ्॑)
T.B.3.7.3.1
वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णद्र्ध्यते ।
यस्या-हि॑ताग्ने-र॒ग्नि-र्म॒थ्यमा॑नो॒ न जाय॑ते । यत्रा॒न्यं पश्ये᳚त् ।
तत॑ आ॒हृत्य॑ होत॒व्यं᳚ ।
अ॒ग्ना-वे॒वास्या᳚-ग्निहो॒त्रꣳ हु॒तं भ॑वति ॥
यद्य॒न्यं न वि॒न्देत् । अ॒जायाꣳ॑ होत॒व्यं᳚ । आ॒ग्ने॒यी वा ए॒षा ।
यद॒जा । अ॒ग्ना-वे॒वास्या᳚-ग्निहो॒त्रꣳ हु॒तं भ॑वति । 17 (10)
T.B.3.7.3.2
अ॒जस्य॒ तु नाश्ञी॑यात् । यद॒जस्या᳚-श्ञी॒यात् ।
यामे॒वाग्ना-वाहु॑तिं जुहु॒यात् । ताम॑द्यात् । तस्मा॑द॒जस्य॒ नाश्यं᳚ ॥
यद्य॒जां न वि॒न्देत् । ब्रा॒ह्म॒णस्य॒ दक्षि॑णे॒ हस्ते॑ होत॒व्यं᳚ ।
ए॒ष वा अ॒ग्नि र्वै᳚श्वान॒रः । यद्ब्रा᳚ह्म॒णः ।
अ॒ग्ना-वे॒वास्या᳚-ग्निहो॒त्रꣳ हु॒तं भ॑वति । 18 (10)
T.B.3.7.3.3
ब्रा॒ह्म॒णं तु व॑स॒त्यै॑ नाप॑रुन्ध्यात् । यद्ब्रा᳚ह्म॒णं ँव॑स॒त्या अ॑परु॒न्ध्यात् ।
यस्मि॑न्ने॒-वाग्नावाहु॑तिं जुहु॒यात् । तं भा॑ग॒धेये॑न॒ व्य॑द्र्धयेत् ।
तस्मा᳚द् ब्राह्म॒णो व॑स॒त्यै॑ नाप॒रुद्ध्यः॑ ॥ यदि॑ ब्राह्म॒णं न वि॒न्देत् ।
द॒र्भ॒स्त॒बें हो॑त॒व्यं᳚ । अ॒ग्नि॒वान्. वै द॑र्भस्तं॒बः ।
अ॒ग्नावे॒-वास्या᳚-ग्निहो॒त्रꣳ हु॒तं भ॑वति ।
द॒र्भाᳺस्तु नाद्ध्या॑सीत । 19 (10)
T.B.3.7.3.4
यद्द॒र्भान॒द्ध्यासी॑त । यामे॒वाग्ना-वाहु॑तिं जुहु॒यात् । तामद्ध्या॑सीत ।
तस्मा᳚द् द॒र्भा नाद्ध्या॑सित॒व्याः᳚ ॥ यदि॑ द॒र्भान्न वि॒न्देत् ।
अ॒फ्सु हो॑त॒व्यं᳚ । आपो॒ वै सर्वा॑ दे॒वताः᳚ ।
दे॒वता᳚स्वे॒ वास्या᳚-ग्निहो॒त्रꣳ हु॒तं भ॑वति ।
आप॒स्तु न परि॑चक्षीत । यदापः॑ परि॒चक्षी॑त । 20 (10)
T.B.3.7.3.5
या मे॒वाफ्स्वाहु॑तिं जुहु॒यात् । तां परि॑चक्षीत ।
तस्मा॒दापो॒ न प॑रि॒चक्ष्याः᳚ ॥
मेद्ध्या॑ च॒ वा ए॒तस्या॑मे॒द्ध्या च॑ त॒नुवौ॒ सꣳसृ॑ज्येते ।
यस्या-हि॑ताग्ने-र॒न्यैर॒ग्निभि॑-र॒ग्नयः॑ सꣳसृ॒ज्यन्ते᳚ ।
अ॒ग्नये॒ विवि॑चये पुरो॒डाश॑-म॒ष्टाक॑पालं॒ निर्व॑पेत् ।
मेद्ध्यां᳚ चै॒वास्या॑-मे॒द्ध्यां च॑ त॒नुवौ॒ व्याव॑र्तयति ॥
अ॒ग्नये᳚ व्र॒तप॑तये पुरो॒डाश॑-म॒ष्टाक॑पालं॒ निर्व॑पेत् ।
अ॒ग्निमे॒व व्र॒तप॑ति॒ᳺ॒ स्वेन॑ भाग॒धेये॒-नोप॑धावति ।
स ए॒वैनं॑ ँव्र॒तमा-लं॑भयति ॥ 21 (10)
T.B.3.7.3.6
गर्भ॒ᳺ॒ स्रव॑न्तमग॒दम॑कः । अ॒ग्नि-रिन्द्र॒-स्त्वष्टा॒ बृह॒स्पतिः॑ ।
पृ॒थि॒व्या-मव॑चुश्चो-तै॒तत् । नाभि-प्राप्नो॑ति॒ निर्.ऋ॑तिं परा॒चैः ॥
रेतो॒ वा ए॒तद्वाजि॑न॒-माहि॑ताग्नेः । यद॑ग्निहो॒त्रं । तद्यथ्स्रवे᳚त् ।
रेतो᳚ऽस्य॒ वाजि॑नᳺ स्रवेत् । गर्भ॒ᳺ॒ स्रव॑न्तम-ग॒दम॑क॒-रित्या॑ह ।
रेत॑ ए॒वास्मि॒न् वाजि॑नं दधाति ॥ 22 (10)
T.B.3.7.3.7
अ॒ग्निरित्या॑ह । अ॒ग्निर्वै रे॑तो॒धाः । रेत॑ ए॒व तद्द॑धाति । इन्द्र॒ इत्या॑ह ।
इ॒न्द्रि॒य-मे॒वास्मि॑न्-दधाति । त्वष्टेत्या॑ह ।
त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृत् ।
रू॒पम॒व प॒शुषु॑ दधाति । बृह॒स्पति॒रित्या॑ह ।
ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ ( ) । ब्रह्म॑णै॒वास्मै᳚ प्र॒जाः प्रज॑नयति ॥
पृ॒थि॒व्या-मव॑चुश्चोतै॒त-दित्या॑ह । अ॒स्या-मे॒वैन॒त् प्रति॑ष्ठापयति ॥
नाभि प्राप्नो॑ति॒ निर्.ऋ॑तिं परा॒चैरित्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ॥ 23 (15)
(अ॒जाऽग्नावे॒वास्या᳚ग्निहो॒त्रꣳ हु॒तं भ॑वति - भव - त्यासीत - परि॒चक्षी॑त - लम्भयति - दधाति - दे॒वानां॒ बृह॒स्पतिः॒ पञ्च॑ च) (A3)
Special Korvai
(वि वै यद् य॒न्यम॒जायां᳚ ब्राह्म॒णस्य॑ दर्भस्त॒म्बे᳚ऽफ्सु हो॑त॒व्य᳚म्)
T.B.3.7.4.1
याः पु॒रस्ता᳚त् प्र॒स्रव॑न्ति । उ॒परि॑ष्टाथ् स॒र्वत॑श्च॒ याः ।
ताभी॑ र॒श्मिप॑वित्राभिः । श्र॒द्धां ँय॒ज्ञमार॑भे ॥ देवा॑ गातुविदः ।
गा॒तुं ँय॒ज्ञाय॑ विन्दत । मन॑स॒स्पति॑ना दे॒वेन॑ ।
वाता᳚द्-य॒ज्ञः प्रयु॑ज्यतां ॥ तृ॒तीय॑स्यै दि॒वः ।
गा॒य॒त्रि॒या सोम॒ आभृ॑तः । 24 (10)
T.B.3.7.4.2
सो॒म॒पी॒थाय॒ सन्न॑यितुं । वक॑ल॒-मन्त॑र॒माद॑दे ॥
आपो॑ देवीः शु॒द्धाः स्थ॑ । इ॒मा पात्रा॑णि शुन्धत ।
उ॒पा॒त॒ङ्क्या॑य दे॒वानां᳚ । प॒र्ण॒व॒ल्कमु॒त शु॑न्धत ॥
पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑ ।
पयो॑ व॒थ्सेषु॒ पय॒ इन्द्रा॑य ह॒विषे᳚ ध्रियस्व ।
गा॒य॒त्री प॑र्णव॒ल्केन॑ । पयः॒ सोमं॑ करोत्वि॒मं ॥ 25 (10)
T.B.3.7.4.3
अ॒ग्निं गृ॑ह्णामि सु॒रथं॒ ँयो म॑यो॒ भूः । य उ॒द्यन्त॑मा॒ रोह॑ति॒ सूर्य॒मह्ने᳚ ।
आ॒दि॒त्यं ज्योति॑षां॒ ज्योति॑रुत्त॒मं । श्वो य॒ज्ञाय॑ रमतां दे॒वता᳚भ्यः ॥
वसू᳚न् रु॒द्राना॑दि॒त्यान् । इन्द्रे॑ण स॒ह दे॒वताः᳚ । ताः पूर्वः॒ परि॑गृह्णामि ।
स्व आ॒यत॑ने मनी॒षया᳚ ॥ इ॒मामूर्जं॑ पञ्चद॒शीं ँये प्रवि॑ष्टाः ।
तान्दे॒वान् परि॑गृह्णामि॒ पूर्वः॑ । 26 (10)
T.B.3.7.4.4
अ॒ग्निर्. ह॑व्य॒वाडि॒ह तानाव॑हतु । पौ॒र्ण॒मा॒सꣳ ह॒विरि॒दमे॑षां॒ मयि॑ ।
आ॒मा॒वा॒स्यꣳ॑ ह॒विरि॒दमे॑षां॒ मयि॑ ॥ अ॒न्त॒राऽग्नी प॒शवः॑ ।
दे॒व॒स॒ꣳ॒ सद॒माग॑मन्न् । तान् पूर्वः॒ परि॑गृह्णामि ।
स्व आ॒यत॑ने मनी॒षया᳚ ॥ इ॒ह प्र॒जा वि॒श्वरू॑पा रमन्तां ।
अ॒ग्निं गृ॒हप॑तिम॒भि स॒म् ँवसा॑नाः ।
ताः पूर्वः॒ परि॑गृह्णामि । 27 (10)
T.B.3.7.4.5
स्व आ॒यत॑ने मनी॒षया᳚ ॥ इ॒ह प॒शवो॑ वि॒श्वरू॑पा रमन्तां ।
अ॒ग्निं गृ॒हप॑तिम॒भि स॒म् ँवसा॑नाः । तान् पूर्वः॒ परि॑गृह्णामि ।
स्व आ॒यत॑ने मनी॒षया᳚ ॥ अ॒यं पि॑तृ॒णाम॒ग्निः ।
अवा᳚ड्ढ॒व्या पि॒तृभ्य॒ आ । तं पूर्वः॒ परि॑गृह्णामि ।
अवि॑षं नः पि॒तुं क॑रत् ॥ अज॑स्रं॒ त्वाꣳ स॑भापा॒लाः । 28 (10)
T.B.3.7.4.6
वि॒ज॒यभा॑ग॒ꣳ॒ समि॑न्धतां । अग्ने॑ दी॒दाय॑ मे सभ्य ।
विजि॑त्यै श॒रदः॑ श॒तं ॥ अन्न॑मावस॒थीयं᳚ । अ॒भिह॑राणि श॒रदः॑ श॒तं ।
आ॒व॒स॒थे श्रियं॒ मन्त्रं᳚ । अहि॑र्बु॒द्ध्नियो॒ निय॑च्छतु ॥
इ॒दम॒ह-म॒ग्नि ज्ये᳚ष्ठेभ्यः । वसु॑भ्यो य॒ज्ञं प्रब्र॑वीमि ।
इ॒दम॒ह-मिन्द्र॑ ज्येष्ठेभ्यः । 29 (10)
T.B.3.7.4.7
रु॒द्रेभ्यो॑ य॒ज्ञं प्रब्र॑वीमि । इ॒दम॒हं ँवरु॑ण-ज्येष्ठेभ्यः ।
आ॒दि॒त्येभ्यो॑ य॒ज्ञं प्रब्र॑वीमि ॥ पय॑स्वती॒-रोष॑धयः ।
पय॑स्वद्वी॒रुधां॒ पयः॑ । अ॒पां पय॑सो॒ यत्पयः॑ ।
तेन॒ मामि॑न्द्र॒ सꣳसृ॑ज ॥ अग्ने᳚ व्रतपते व्र॒तं च॑रिष्यामि ।
तच्छ॑केयं॒ तन्मे॑ राद्ध्यतां । वायो᳚ व्रतपत॒ आदि॑त्य व्रतपते । 30 (10)
T.B.3.7.4.8
व्र॒तानां᳚ ँव्रतपते व्र॒तं च॑रिष्यामि । तच्छ॑केयं॒ तन्मे॑ राद्ध्यतां ॥
इ॒मां प्राची॒मुदी॑चीं । इष॒मूर्ज॑म॒भि सᳺस्कृ॑तां । ब॒हु॒प॒र्णामशु॑ष्काग्रां ।
हरा॑मि पशु॒पाम॒हं ॥ यत्कृष्णो॑ रू॒पं कृ॒त्वा । प्रावि॑श॒स्त्वं ँवन॒स्पतीन्॑ ।
तत॒स्त्वामे॑कविꣳशति॒धा । संभ॑रामि सुसं॒भृता᳚ ॥ 31 (10)
T.B.3.7.4.9
त्रीन् प॑रि॒धीᳺस्ति॒स्रः स॒मिधः॑ । य॒ज्ञायु॑रनुसञ्च॒रान् ।
उ॒प॒वे॒षं मेक्ष॑णं॒ धृष्टिं᳚ । संभ॑रामि सुसं॒भृता᳚ ॥
या जा॒ता ओष॑धयः । दे॒वेभ्य॑ स्त्रियु॒गं पु॒रा । तासां॒ पर्व॑ राद्ध्यासं ।
प॒रि॒स्त॒र-मा॒हरन्न्॑ ॥ अ॒पां मेद्ध्यं॑ ँय॒ज्ञियं᳚ ।
सदे॑वꣳ शि॒वम॑स्तु मे । 32 (10)
T.B.3.7.4.10
आ॒च्छे॒त्ता वो॒ मा रि॑षं । जीवा॑नि श॒रदः॑ श॒तं ॥
अप॑रिमितानां॒ परि॑मिताः । सन्न॑ह्ये सुकृ॒ताय॒कं ।
एनो॒ मा निगां᳚ कत॒मच्च॒ नाहं ।
पुन॑रु॒त्थाय॑ बहु॒ला भ॑वन्तु ॥ स॒कृ॒दा॒च्छि॒न्नं ब॒र्॒.हिरूर्णा॑मृदु ।
स्यो॒नं पि॒तृभ्य॑स्त्वा भराम्य॒हं । अ॒स्मिन् थ्सी॑दन्तु मे पि॒तरः॑ सो॒म्याः ।
पि॒ता॒म॒हाः प्रपि॑तामहाश्चानु॒गैः स॒ह ॥ 33 (10)
T.B.3.7.4.11
त्रि॒वृत् प॑ला॒शे द॒र्भः । इया᳚न् प्रादे॒श स॑म्मितः ।
य॒ज्ञे प॒वित्रं॒ पोतृ॑तमं । पयो॑ ह॒व्यं क॑रोतु मे ॥ इ॒मौ प्रा॑णापा॒नौ ।
य॒ज्ञस्याङ्गा॑नि सर्व॒शः । आ॒प्या॒यय॑न्तौ॒ सञ्च॑रतां । प॒वित्रे॑ हव्य॒शोध॑ने ॥
प॒वित्रे᳚ स्थो वैष्ण॒वी । वा॒युर्वां॒ मन॑सा पुनातु ॥ 34 (10)
T.B.3.7.4.12
अ॒यं प्रा॒णश्चा॑पा॒नश्च॑ । यज॑मान॒-मपि॑गच्छतां । य॒ज्ञे ह्यभू॑तां॒ पोता॑रौ ।
प॒वित्रे॑ हव्य॒शोध॑ने ॥ त्वया॒ वेदिं॑ ँविविदुः पृथि॒वीं ।
त्वया॑ य॒ज्ञो जा॑यते विश्व॒दानिः॑ । अच्छि॑द्रं ँय॒ज्ञमन्वे॑षि वि॒द्वान् ।
त्वया॒ होता॒ सन्त॑नोत्यद्र्धमा॒सान् ॥ त्र॒य॒स्त्रि॒ꣳ॒शो॑ऽसि॒ तन्तू॑नां ।
प॒वित्रे॑ण स॒हाग॑हि । 35 (10)
T.B.3.7.4.13
शि॒वेयꣳ रज्जु॑रभि॒धानी᳚ । अ॒घ्नि॒या-मुप॑सेवतां ॥ अप्र॑स्रꣳसाय य॒ज्ञस्य॑ ।
उ॒खे उप॑दधाम्य॒हं । प॒शुभिः॒ सन्नी॑तं बिभृतां । इन्द्रा॑य शृ॒तं दधि॑ ॥
उ॒प॒वे॒षो॑ऽसि य॒ज्ञाय॑ । त्वां प॑रिवे॒ष-म॑धारयन्न् । इन्द्रा॑य ह॒विः कृ॒ण्वन्तः॑ ।
शि॒वः श॒ग्मो भ॑वासि नः ॥ 36 (10)
T.B.3.7.4.14
अमृ॑न्मयं देवपा॒त्रं । य॒ज्ञस्यायु॑षि॒ प्रयु॑ज्यतां । ति॒रः॒ प॒वि॒त्रमति॑नीताः ।
आपो॑ धारय॒ माऽति॑गुः ॥ दे॒वेन॑ सवि॒त्रोत्पू॑ताः ।
वसोः॒ सूर्य॑स्य र॒श्मिभिः॑ । गां दो॑हपवि॒त्रे रज्जुं᳚ ।
सर्वा॒ पात्रा॑णि शुन्धत ॥ ए॒ता आच॑रन्ति॒ मधु॑म॒द्दुहा॑नाः ।
प्र॒जाव॑ती-र्य॒शसो॑ वि॒श्वरू॑पाः। 37 (10)
T.B.3.7.4.15
ब॒ह्वी र्भव॑न्ती॒रुप॒ जाय॑मानाः । इ॒ह व॒ इन्द्रो॑ रमयतु गावः ॥
पू॒षा स्थ॑ ॥ अ॒य॒क्ष्मा वः॑ प्र॒जया॒ सꣳसृ॑जामि ।
रा॒यस्पोषे॑ण बहु॒ला भव॑न्तीः । ऊर्जं॒ पयः॒ पिन्व॑माना घृ॒तं च॑ ।
जी॒वो जीव॑न्ती॒रुप॑ वः सदेयं ॥ द्यौश्चे॒मं ँय॒ज्ञं पृ॑थि॒वी च॒ सन्दु॑हातां ।
धा॒ता सोमे॑न स॒ह वाते॑न वा॒युः । यज॑मानाय॒ द्रवि॑णं दधातु ॥ 38 (10)
T.B.3.7.4.16
उथ्सं॑ दुहन्ति क॒लशं॒ चतु॑र्बिलं । इडां᳚ दे॒वीं मधु॑मतीꣳ सुव॒र्विदं᳚ ।
तदि॑न्द्रा॒ग्नी जि॑न्वतꣳ सू॒नृता॑वत् । तद्-यज॑मान-ममृत॒त्वे द॑धातु ॥
काम॑धुक्षः॒ प्रणो᳚ ब्रूहि । इन्द्रा॑य ह॒विरि॑न्द्रि॒यं ॥ अ॒मूं ँयस्यां᳚ दे॒वानां᳚ ।
म॒नु॒ष्या॑णां॒ पयो॑ हि॒तं ॥ ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यः॑ ।
ह॒व्य-माप्या॑यतां॒ पुनः॑ । 39 (10)
T.B.3.7.4.17
व॒थ्सेभ्यो॑ मनु॒ष्ये᳚भ्यः । पु॒न॒र्दो॒हाय॑ कल्पतां ॥ य॒ज्ञस्य॒ सन्त॑तिरसि ।
य॒ज्ञस्य॑ त्वा॒ सन्त॑ति॒मनु॒सन्त॑नोमि ॥ अद॑स्तमसि॒ विष्ण॑वे त्वा ।
य॒ज्ञायापि॑ दधाम्य॒हं । अ॒द्भिररि॑क्तेन॒ पात्रे॑ण । याः पू॒ताः प॑रि॒शेर॑ते ॥
अ॒यं पयः॒ सोमं॑ कृ॒त्वा । स्वां ँयोनि॒-मपि॑गच्छतु । 40 (10)
T.B.3.7.4.18
प॒र्ण॒व॒ल्कः प॒वित्रं᳚ । सौ॒म्यः सोमा॒द्धि निर्मि॑तः ॥ इ॒मौ प॒र्णं च॑ द॒र्भं च॑ ।
दे॒वानाꣳ॑ हव्य॒शोध॑नौ । प्रा॒त॒र्वे॒षाय॑ गोपाय । विष्णो॑ ह॒व्यꣳ हि रक्ष॑सि ॥
उ॒भाव॒ग्नी उ॑पस्तृण॒ते । दे॒वता॒ उप॑वसन्तु मे ।
अ॒हं ग्रा॒म्या-नुप॑वसामि ।
मह्यं॒ गोप॑तये प॒शून् ( ) ॥ 41 (10)
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पूर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भृन्ता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑र् - गच्छतु - प॒शून् ( ) ] (A4)
Special Korvai
याः पु॒रस्ता॑दि॒मामूर्ज॑मि॒ह प्र॒जा इ॒ह प॒शवो॒ऽयं पि॑तृ॒णाम॒ग्निः
T.B.3.7.5.1
देवा॑ दे॒वेषु॒ परा᳚क्रमद्ध्वं । प्रथ॑मा द्वि॒तीये॑षु । द्विती॑या-स्तृ॒तीये॑षु ।
त्रिरे॑कादशा इ॒ह मा॑ऽवत । इ॒दꣳ श॑केयं॒ ँयदि॒दं क॒रोमि॑ ।
आ॒त्मा क॑रोत्वा॒त्मने᳚ । इ॒दं क॑रिष्ये भेष॒जं । इ॒दं मे॑ विश्वभेषजा ।
अश्वि॑ना॒ प्राव॑तं ँयु॒वं ॥ इ॒दम॒हꣳ सेना॑या अ॒भीत्व॑र्यै । 42 (10)
T.B.3.7.5.2
मुख॒मपो॑हामि ॥ सूर्य॑ज्योति॒ र्विभा॑हि । म॒ह॒त इ॑न्द्रि॒याय॑ ॥
आप्या॑यतां घृ॒तयो॑निः । अ॒ग्निर्. ह॒व्या-ऽनु॑मन्यतां ।
खम॑ङ्क्ष्व॒ त्वच॑मङ्क्ष्व । सु॒रू॒पं त्वा॑ वसु॒विदं᳚ । प॒शू॒नां तेज॑सा ।
अ॒ग्नये॒ जुष्ट॑-म॒भिघा॑रयामि ॥ स्यो॒नं ते॒ सद॑नं करोमि । 43 (10)
T.B.3.7.5.3
घृ॒तस्य॒ धार॑या सु॒शेवं॑ कल्पयामि ॥ तस्मि᳚न्-थ्सीदा॒मृते॒ प्रति॑तिष्ठ ।
व्री॒ही॒णां मे॑ध सुमन॒स्यमा॑नः ॥ आ॒र्द्रः प्र॑थस्नु॒र् भुव॑नस्य गो॒पाः ।
शृ॒त उथ्स्ना॑ति जनि॒ता म॑ती॒नां ॥ यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः ।
दे॒वानां᳚ ँवि॒ष्ठामनु॒ यो वि॑त॒स्थे ।
आ॒त्म॒न्वान् थ्सो॑म घृ॒तवा॒न॒. हि भू॒त्वा ।
दे॒वान् ग॑च्छ॒ सुव॑र्विन्द॒ यज॑मानाय॒ मह्यं᳚ ॥
इरा॒ भूतिः॑ पृथि॒व्यै रसो॒ मोत्क्र॑मीत् ॥ 44 (10)
T.B.3.7.5.4
देवाः᳚ पितरः॒ पित॑रो देवाः । यो॑ऽहम॑स्मि॒ स सन्. य॑जे ।
यस्या᳚स्मि॒ न तम॒न्तरे॑मि । स्वं म॑ इ॒ष्टᳺ स्वं द॒त्तं ।
स्वं पू॒र्तᳺ स्वᳺ श्रा॒न्तं ।
स्वꣳ हु॒तं । तस्य॑ मे॒ऽग्नि-रु॑पद्र॒ष्टा । वा॒युरु॑पश्रो॒ता ।
आ॒दि॒त्यो॑-ऽनुख्या॒ता । द्यौः पि॒ता । 45 (10)
T.B.3.7.5.5
पृ॒थि॒वी मा॒ता । प्र॒जाप॑ति॒ र्बन्धुः॑ । य ए॒वास्मि॒ स सन्. य॑जे ॥
मा भेर्मा सम् ँवि॑क्था॒ मा त्वा॑ हिꣳसिषं । मा ते॒ तेजो-ऽप॑क्रमीत् ।
भ॒र॒तमुद्ध॑रे॒ मनु॑षिञ्च । अ॒व॒दाना॑नि ते प्र॒त्यव॑दास्यामि ।
नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः ॥ यद॑व॒दाना॑नि तेऽव॒द्यन्न् ।
विलो॒माका॑र्.षमा॒त्मनः॑ । 46 (10)
T.B.3.7.5.6
आज्ये॑न॒ प्रत्य॑नज्म्येनत् । तत्त॒ आप्या॑यतां॒ पुनः॑ ॥ अज्या॑यो यवमा॒त्रात् ।
आ॒व्या॒धात् कृ॑त्यतामि॒दं । मा रू॑रुपाम य॒ज्ञस्य॑ ।
शु॒द्धᳺ स्वि॑ष्टमि॒दꣳ ह॒विः ॥ मनु॑ना दृ॒ष्टां घृ॒तप॑दीं । मि॒त्रावरु॑णसमीरितां ।
द॒क्षि॒णा॒द्र्धादसं॑भिन्दन्न् । अव॑द्या-म्येक॒तो मु॑खां ॥ 47 (10)
T.B.3.7.5.7
इडे॑ भा॒गं जु॑षस्व नः । जिन्व॒ गा जिन्वार्व॑तः । तस्या᳚स्ते भक्षि॒वाणः॑
स्याम । स॒र्वात्मा॑नः स॒र्वग॑णाः ॥ ब्रद्ध्न॒ पिन्व॑स्व ।
दद॑तो मे॒ मा क्षा॑यि । कु॒र्व॒तो मे॒ मोप॑दसत् । दि॒शां क्लृप्ति॑रसि ।
दिशो॑ मे कल्पन्तां । कल्प॑न्तां मे॒ दिशः॑ । 48 (10)
T.B.3.7.5.8
दैवी᳚श्च॒ मानु॑षीश्च । अ॒हो॒रा॒त्रे मे॑ कल्पेतां । अ॒द्र्ध॒मा॒सा मे॑ कल्पन्तां ।
मासा॑ मे कल्पन्तां । ऋ॒तवो॑ मे कल्पन्तां । स॒म् ँव॒थ्स॒रो मे॑ कल्पतां ।
क्लृप्ति॑रसि॒ कल्प॑तां मे ॥ आशा॑नां त्वाऽऽशापा॒लेभ्यः॑ ।
च॒तुर्भ्यो॑ अ॒मृते᳚भ्यः ।
इ॒दं भू॒तस्या-द्ध्य॑क्षेभ्यः । 49 (10)
T.B.3.7.5.9
वि॒धेम॑ ह॒विषा॑ व॒यं । भज॑तां भा॒गी भा॒गं । माऽभा॒गो-ऽभ॑क्त ।
निर॑भा॒गं भ॑जामः । अ॒पस्पि॑न्व । ओष॑धीर्जिन्व । द्वि॒पात्पा॑हि ।
चतु॑ष्पादव । दि॒वो वृष्टि॒मेर॑य । ब्रा॒ह्म॒णाना॑-मि॒दꣳ ह॒विः । 50 (10)
T.B.3.7.5.10
सो॒म्यानाꣳ॑ सोमपी॒थिनां᳚ । निर्भ॒क्तो ब्रा᳚ह्मणः । नेहा-ब्रा᳚ह्मणस्यास्ति ॥
सम॑ङ्क्तां ब॒र॒.हिर्. ह॒विषा॑ घृ॒तेन॑ । समा॑दि॒त्यै र्वसु॑भिः॒ सं म॒रुद्भिः॑ ।
समिन्द्रे॑ण॒ विश्वे॑भि र्दे॒वेभि॑रङ्क्तां । दि॒व्यं नभो॑ गच्छतु॒ यथ् स्वाहा᳚ ॥
इ॒न्द्रा॒णी वा॑ विध॒वा भू॑यासं । अदि॑तिरिव सुपु॒त्रा ।
अ॒स्थू॒रि त्वा॑ गार्.हपत्य । 51 (10)
T.B.3.7.5.11
उप॒निष॑दे सुप्रजा॒स्त्वाय॑ ॥ सं पत्नी॒ पत्या॑ सुकृ॒तेन॑ गच्छतां ।
य॒ज्ञस्य॑ यु॒क्तौ धुर्या॑वभूतां । स॒ञ्जा॒ना॒नौ विज॑हता॒-मरा॑तीः ।
दि॒वि ज्योति॑र॒ज-र॒मार॑भेतां ॥ दश॑ ते त॒नुवो॑ यज्ञ य॒ज्ञियाः᳚ ।
ताः प्री॑णातु॒ यज॑मानो घृ॒तेन॑ । ना॒रि॒ष्ठयोः᳚ प्र॒शिष॒मीड॑मानः ।
दे॒वानां॒ दैव्येऽपि॒ यज॑मानो॒-ऽमृतो॑-ऽभूत् ॥
यं ँवां᳚ दे॒वा अ॑कल्पयन्न् । 52 (10)
T.B.3.7.5.12
ऊ॒र्जो भा॒गꣳ श॑तक्रतू । ए॒तद्वां॒ तेन॑ प्रीणानि ।
तेन॑ तृप्यतमꣳहहौ ॥ अ॒हं दे॒वानाꣳ॑ सु॒कृता॑मस्मि लो॒के ।
ममे॒दमि॒ष्टं न मिथु॑ र्भवाति । अ॒हं ना॑रि॒ष्ठा-वनु॑यजामि वि॒द्वान् ।
यदा᳚भ्या॒-मिन्द्रो॒ अद॑धा-द्भाग॒धेयं᳚ ॥ अदा॑रसृद्भवत देव सोम ।
अ॒स्मिन्. य॒ज्ञे म॑रुतो मृडता नः ।
मा नो॑ विदद॒भि भा॒मो अश॑स्तिः । 53 (10)
T.B.3.7.5.13
मा नो॑ विदद्-व॒जना॒ द्वेष्या॒ या ॥ ऋ॒ष॒भं ँवा॒जिनं॑ ँव॒यं ।
पू॒र्णमा॑सं ँयजामहे । स नो॑ दोहताꣳ सु॒वीर्यं᳚ ।
रा॒यस्पोषꣳ॑ सह॒स्रिणं᳚ । प्रा॒णाय॑ सु॒राध॑से । पू॒र्णमा॑साय॒ स्वाहा᳚ ॥
अ॒मा॒वा॒स्या॑ सु॒भगा॑ सु॒शेवा᳚ । धे॒नुरि॑व॒ भूय॑ आ॒प्याय॑माना ।
सा नो॑ दोहताꣳ सु॒वीर्यं᳚ ( ) । रा॒यस्पोषꣳ॑ सह॒स्रिणं᳚ ।
अ॒पा॒नाय॑ सु॒राध॑से । अ॒मा॒वा॒स्या॑यै॒ स्वाहा᳚ ॥
अ॒भिस्तृ॑णीहि॒ परि॑धेहि॒ वेदिं᳚ । जा॒मिं मा हिꣳ॑सीरमु॒या शया॑ना ।
हो॒तृ॒षद॑ना॒ हरि॑ताः सु॒वर्णाः᳚ । नि॒ष्का इ॒मे यज॑मानस्य ब्र॒द्ध्ने ॥ 54 (17)
(अ॒भीत्व॑र्यै - करोमि - क्रमीत् - पि॒ता - ऽऽत्मन॑ - एक॒तोमु॑खां - मे॒ दिशो - ऽध्य॑क्षेभ्यो - ह॒विर् - गा॑र्.हपत्या - कल्पय॒ - न्नश॑स्तिः॒ - सा नो॑ दोहताꣳ सु॒वीर्यꣳ॑ स॒प्त च॑) (A5)
T.B.3.7.6.1
परि॑स्तृणीत॒ परि॑धत्ता॒ग्निं । परि॑हितो॒-ऽग्नि र्यज॑मानं भुनक्तु ।
अ॒पाꣳ रस॒ ओष॑धीनाꣳ सु॒वर्णः॑ ।
नि॒ष्का इ॒मे यज॑मानस्य सन्तु काम॒दुघाः᳚ । अ॒मुत्रा॒मुष्मि॑न् ँलो॒के ॥
भूप॑ते॒ भुव॑नपते । म॒ह॒तो भू॒तस्य॑ पते । ब्र॒ह्माणं॑ त्वा वृणीमहे ॥
अ॒हं भूप॑तिर॒हं भुव॑नपतिः ।
अ॒हं म॑ह॒तो भू॒तस्य॒ पतिः॑ । 55 (10)
T.B.3.7.6.2
दे॒वेन॑ सवि॒त्रा प्रसू॑त॒ आर्त्वि॑ज्यं करिष्यामि । देव॑ सवितरे॒तं त्वा॑ वृणते ।
बृह॒स्पतिं॒ दैव्यं॑ ब्र॒ह्माणं᳚ । तद॒हं मन॑से॒ प्रब्र॑वीमि । मनो॑ गायत्रि॒यै ।
गा॒य॒त्री त्रि॒ष्टुभे᳚ । त्रि॒ष्टुब् जग॑त्यै । जग॑त्यनु॒ष्टुभे᳚ ।
अ॒नु॒ष्टुक् प॒ङ्क्त्यै । प॒ङ्क्तिः प्र॒जाप॑तये । 56 (10)
T.B.3.7.6.3
प्र॒जाप॑ति॒ र्विश्वे᳚भ्यो दे॒वेभ्यः॑ । विश्वे॑ दे॒वा बृह॒स्पत॑ये ।
बृह॒स्पति॒ र्ब्रह्म॑णे । ब्रह्म॒ भूर्भुवः॒ सुवः॑ । बृह॒स्पति॑ र्दे॒वानां᳚ ब्र॒ह्मा ।
अ॒हं म॑नु॒ष्या॑णां । बृह॑स्पते य॒ज्ञं गो॑पाय ॥ इ॒दं तस्मै॑ ह॒र्म्यं क॑रोमि ।
यो वो॑ देवा॒श्चर॑ति ब्रह्म॒चर्यं᳚ । मे॒धा॒वी दि॒क्षु मन॑सा तप॒स्वी । 57 (10)
T.B.3.7.6.4
अ॒न्तर्दू॒तश्च॑रति॒ मानु॑षीषु ॥ चतुः॑ शिखण्डा युव॒तिः सु॒पेशाः᳚ ।
घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मद्ध्ये᳚ । म॒र्मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय ।
मह्यं॑ धुक्ष्व॒ यज॑मानाय॒ कामान्॑ ॥ भूमि॑ र्भू॒त्वा म॑हि॒मानं॑ पुपोष ।
ततो॑ दे॒वी व॑द्र्धयते॒ पयाꣳ॑सि । य॒ज्ञिया॑ य॒ज्ञं ँविच॒यन्ति॒ शञ्च॑ ।
ओष॑धी॒राप॑ इ॒ह शक्व॑रीश्च ॥
यो मा॑ हृ॒दा मन॑सा॒ यश्च॑ वा॒चा । 58 (10)
T.B.3.7.6.5
यो ब्रह्म॑णा॒ कर्म॑णा॒ द्वेष्टि॑ देवाः । यः शृ॒तेन॒ हृद॑येनेष्ण॒ता च॑ ।
तस्ये᳚न्द्र॒ वज्रे॑ण॒ शिर॑श्छिनद्मि ॥ ऊर्णा॑मृदु॒ प्रथ॑मानᳺ स्यो॒नं ।
दे॒वेभ्यो॒ जुष्ट॒ꣳ॒ सद॑नाय ब॒र्॒.हिः । सु॒व॒र्गे लो॒के यज॑मान॒ꣳ॒ हि धे॒हि ।
मां नाक॑स्य पृ॒ष्ठे प॑र॒मे व्यो॑मन्न् ॥ चतुः॑ शिखण्डा युव॒तिः सु॒पेशाः᳚ ।
घृ॒तप्र॑तीका व॒युना॑नि वस्ते ।
सा स्ती॒र्यमा॑णा मह॒ते सौभ॑गाय । 59 (10)
T.B.3.7.6.6
सा मे॑ धुक्ष्व॒ यज॑मानाय॒ कामान्॑ । शि॒वा च॑ मे श॒ग्मा चै॑धि ।
स्यो॒ना च॑ मे सु॒षदा॑ चैधि । ऊर्ज॑स्वती च मे॒ पय॑स्वती चैधि ।
इष॒मूर्जं॑ मे पिन्वस्व । ब्रह्म॒ तेजो॑ मे पिन्वस्व । क्ष॒त्रमोजो॑ मे पिन्वस्व ।
विशं॒ पुष्टिं॑ मे पिन्वस्व । आयु॑र॒न्नाद्यं॑ मे पिन्वस्व ।
प्र॒जां प॒शून् मे॑ पिन्वस्व ॥ 60 (10)
T.B.3.7.6.7
अ॒स्मिन्. य॒ज्ञ उप॒ भूय॒ इन्नु मे᳚ । अवि॑क्षोभाय परि॒धीन्द॑धामि ।
ध॒र्ता ध॒रुणो॒ धरी॑यान् । अ॒ग्नि र्द्वेषाꣳ॑सि॒ निरि॒तो नु॑दातै ॥
विच्छि॑नद्मि॒ विधृ॑तीभ्याꣳ स॒पत्नान्॑ ।
जा॒तान् भ्रातृ॑व्या॒न॒. ये च॑ जनि॒ष्यमा॑णाः ।
वि॒शो य॒न्त्राभ्यां॒ ँविध॑माम्येनान् । अ॒हᳺस्वाना॑-मुत्त॒मो॑ऽसानि देवाः ।
वि॒शो य॒न्त्रे नु॒दमा॑ने॒ अरा॑तिं । विश्वं॑ पा॒प्मान॒मम॑तिं दुर्मरा॒युं ॥ 61 (10)
T.B.3.7.6.8
सीद॑न्ती दे॒वी सु॑कृ॒तस्य॑ लो॒के । धृती᳚ स्थो॒ विधृ॑ती॒ स्वधृ॑ती ।
प्रा॒णान्मयि॑ धारयतं । प्र॒जां मयि॑ धारयतं । प॒शून्मयि॑ धारयतं ॥
अ॒यं प्र॑स्त॒र उ॒भय॑स्य ध॒र्ता । ध॒र्ता प्र॑या॒जाना॑-मु॒तानू॑या॒जानां᳚ ।
स दा॑धार स॒मिधो॑ वि॒श्वरू॑पाः । तस्मि॒न्थ् सृचो॒ अद्ध्यासा॑दयामि ॥
आरो॑ह प॒थो जु॑हु देव॒यानान्॑ । 62 (10)
T.B.3.7.6.9
यत्रर्.ष॑यः प्रथम॒जा ये पु॑रा॒णाः । हिर॑ण्यपक्षाऽजि॒रा संभृ॑ताङ्गा ।
वहा॑सि मा सु॒कृतां॒ ँयत्र॑ लो॒काः ॥ अवा॒हं बा॑ध उप॒भृता॑ स॒पत्नान्॑ ।
जा॒तान् भ्रातृ॑व्या॒न्॒. ये च॑ जनि॒ष्यमा॑णाः । दोहै॑ य॒ज्ञꣳ सु॒दुघा॑मिव धे॒नुं ।
अ॒हमुत्त॑रो भूयासं । अध॑रे॒ मथ्स॒पत्नाः᳚ ॥
यो मा॑ वा॒चा मन॑सा दुर्मरा॒युः ।
हृ॒दा-ऽरा॑ती॒या-द॑भि॒दास॑-दग्ने । 63 (10)
T.B.3.7.6.10
इ॒दम॑स्य चि॒त्तमध॑रं धृ॒वायाः᳚ । अ॒हमुत्त॑रो भूयासं । अध॑रे॒ मथ्स॒पत्नाः᳚ ॥
ऋ॒ष॒भो॑ऽसि शाक्व॒रः । घृ॒ताची॑नाꣳ सू॒नुः ।
प्रि॒येण॒ नाम्ना᳚ प्रि॒ये सद॑सि सीद ॥ स्यो॒नो मे॑ सीद सु॒षदः॑ पृथि॒व्यां ।
प्रथ॑यि प्र॒जया॑ प॒शुभिः॑ सुव॒र्गे लो॒के । दि॒वि सी॑द पृथि॒व्या-म॒न्तरि॑क्षे ।
अ॒हमुत्त॑रो भूयासं । 64 (10)
T.B.3.7.6.11
अध॑रे॒ मथ्स॒पत्नाः᳚ ॥ इ॒यᳺ स्था॒ली घृ॒तस्य॑ पू॒र्णा ।
अच्छि॑न्नपयाः श॒तधा॑र॒ उथ्सः॑ । मा॒रु॒तेन॒ शर्म॑णा॒ दैव्ये॑न ॥
य॒ज्ञो॑ऽसि स॒र्वतः॑ श्रि॒तः ।
स॒र्वतो॒ मां भू॒तं भ॑वि॒ष्य-च्छ्र॑यतां । श॒तं मे॑ सन्त्वा॒शिषः॑ ।
स॒हस्रं॑ मे सन्तु सू॒नृताः᳚ । इरा॑वतीः पशु॒मतीः᳚ ।
प्र॒जाप॑तिरसि स॒र्वतः॑ श्रि॒तः । 65 (10)
T.B.3.7.6.12
स॒र्वतो॒ मां भू॒तं भ॑वि॒ष्य-च्छ्र॑यतां । श॒तं मे॑ सन्त्वा॒शिषः॑ ।
स॒हस्रं॑ मे सन्तु सू॒नृताः᳚ । इरा॑वतीः पशु॒मतीः᳚ ॥
इ॒दमि॑न्द्रि॒य-म॒मृतं॑ ँवी॒र्यं᳚ । अ॒नेनेन्द्रा॑य प॒शवो॑-ऽचिकिथ्सन्न् ।
तेन॑ देवा अव॒तोप॒ मां । इ॒हेष॒मूर्जं॒ ँयशः॒ सह॒ ओजः॑ सनेयं ।
शृ॒तं मयि॑ श्रयतां ॥ यत् पृ॑थि॒वी-मच॑र॒त्तत्-प्रवि॑ष्टं । 66 (10)
T.B.3.7.6.13
येनासि॑ञ्च॒द् बल॒मिन्द्रे᳚ प्र॒जाप॑तिः । इ॒दं तच्छु॒क्रं मधु॑ वा॒जिनी॑वत् ।
येनो॒-परि॑ष्टा॒दधि॑नोन्-महे॒न्द्रं । दधि॒ मां धि॑नोतु ॥
अ॒यं ँवे॒दः पृ॑थि॒वी-मन्व॑विन्दत् । गुहा॑ स॒तीं गह॑ने॒ गह्व॑रेषु ।
स वि॑न्दतु॒ यज॑मानाय लो॒कं । अच्छि॑द्रं ँय॒ज्ञं भूरि॑कर्मा करोतु ॥
अ॒यं ँय॒ज्ञः सम॑सदद्ध॒विष्मान्॑ । ऋ॒चा साम्ना॒ यजु॑षा दे॒वता॑भिः । 67 (10)
T.B.3.7.6.14
तेन॑ लो॒कान्थ् सूर्य॑वतो जयेम । इन्द्र॑स्य स॒ख्य-म॑मृत॒त्व-म॑श्यां ॥
यो नः॒ कनी॑य इ॒ह का॒मया॑तै । अ॒स्मिन्. य॒ज्ञे यज॑मानाय॒ मह्यं᳚ ।
अप॒ तमि॑न्द्रा॒ग्नी भुव॑नान्नुदेतां । अ॒हं प्र॒जां ँवी॒रव॑तीं ँविदेय ॥
अग्ने॑ वाजजित् । वाजं॑ त्वा सरि॒ष्यन्तं᳚ ।
वाजं॑ जे॒ष्यन्तं᳚ । वा॒जिनं॑ ँवाज॒जितं᳚ । 68 (10)
T.B.3.7.6.15
वा॒ज॒जि॒त्यायै॒ सम्मा᳚र्ज्मि । अ॒ग्निम॑न्ना॒-दम॒न्नाद्या॑य ॥ उप॑हूतो॒ द्यौः पि॒ता ।
उप॒ मां द्यौः पि॒ता ह्व॑यतां । अ॒ग्नि-राग्नी᳚द्ध्रात् । आयु॑षे॒ वर्च॑से ।
जी॒वात्वै पुण्या॑य । उप॑हूता पृथि॒वी मा॒ता ।
उप॒ मां मा॒ता पृ॑थि॒वी ह्व॑यतां । अ॒ग्नि-राग्नी᳚द्ध्रात् । 69 (10)
T.B.3.7.6.16
आयु॑षे॒ वर्च॑से । जी॒वात्वै पुण्या॑य ॥ मनो॒ ज्योति॑ र्जुषता॒माज्यं᳚ ।
विच्छि॑न्नं ँय॒ज्ञꣳ समि॒मं द॑धातु । बृह॒स्पति॑-स्तनुतामि॒मं नः॑ ।
विश्वे॑ दे॒वा इ॒ह मा॑दयन्तां ॥ यं ते॑ अग्न आवृ॒श्चामि॑ ।
अ॒हं ँवा᳚ क्षिपि॒तश्चरन्न्॑ । प्र॒जां च॒ तस्य॒ मूलं॑ च ।
नी॒चैर्दे॑वा॒ निवृ॑श्चत । 70 (10)
T.B.3.7.6.17
अग्ने॒ यो नो॑ऽभि॒दास॑ति । स॒मा॒नो यश्च॒ निष्ट्यः॑ । इ॒द्ध्मस्ये॑व प्र॒क्षाय॑तः ।
मा तस्योच्छे॑षि॒ किञ्च॒न । यो मां द्वेष्टि॑ जातवेदः ।
यं चा॒हं द्वेष्मि॒ यश्च॒ मां । सर्वा॒ᳺ॒स्तान॑ग्ने॒ सन्द॑ह ।
याᳺश्चा॒हं द्वेष्मि॒ ये च॒ मां ॥ अग्ने॑ वाजजित् ।
वाजं॑ त्वा ससृ॒वाꣳसं᳚ । 71 (10)
T.B.3.7.6.18
वाजं॑ जिगि॒वाꣳसं᳚ । वा॒जिनं॑ ँवाज॒जितं᳚ । वा॒ज॒जि॒त्यायै॒ सम्मा᳚र्ज्मि ।
अ॒ग्नि-म॑न्ना॒द-म॒न्नाद्या॑य ॥ वेदि॑ र्ब॒र॒.हिः शृ॒तꣳ ह॒विः ।
इ॒द्ध्मः प॑रि॒धयः॒ सृचः॑ । आज्यं॑ ँय॒ज्ञ ऋचो॒ यजुः॑ ।
या॒ज्या᳚श्च वषट्का॒राः । सं मे॒ सन्न॑तयो नमन्तां ।
इ॒द्ध्म॒स॒-न्नह॑ने हु॒ते ॥ 72 (10)
T.B.3.7.6.19
दि॒वः खीलोऽव॑ततः । पृ॒थि॒व्या अद्ध्युत्थि॑तः । तेना॑ स॒हस्र॑काण्डेन ।
द्वि॒षन्तꣳ॑ शोचयामसि । द्वि॒षन्मे॑ ब॒हु शो॑चतु ।
ओष॑धे॒ मो अ॒हꣳ शु॑चं ॥ यज्ञ॒ नम॑स्ते यज्ञ । नमो॒ नम॑श्च ते यज्ञ ।
शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व । स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्व । 73 (10)
T.B.3.7.6.20
सु॒भू॒तेन॑ मे॒ सन्ति॑ष्ठस्व । ब्र॒ह्म॒व॒र्च॒सेन॑ मे॒ सन्ति॑ष्ठस्व ।
य॒ज्ञस्यर्द्धि॒मनु॒ सन्ति॑ष्ठस्व । उप॑ ते यज्ञ॒ नमः॑ । उप॑ ते॒ नमः॑ ।
उप॑ ते॒ नमः॑ ॥ त्रिष्फ॒ली क्रि॒यमा॑णानां । यो न्य॒ङ्गो अ॑व॒शिष्य॑ते ।
रक्ष॑सां भाग॒धेयं᳚ । आप॒स्तत् प्रव॑हतादि॒तः ॥ 74 (10)
T.B.3.7.6.21
उ॒लूख॑ले॒ मुस॑ले॒ यच्च॒ शूर्पे᳚ । आ॒शि॒श्लेष॑ दृ॒षदि॒ यत्क॒पाले᳚ ।
अ॒व॒पृषो॑ वि॒पृषः॒ सम् ँय॑जामि । विश्वे॑ दे॒वा ह॒विरि॒दं जु॑षन्तां ।
य॒ज्ञे या वि॒पृषः॒ सन्ति॑ ब॒ह्वीः ।
अ॒ग्नौ ताः सर्वाः॒ स्वि॑ष्टाः॒ सुहु॑ता जुहोमि ॥ उ॒द्यन्न॒द्य मि॑त्रमहः ।
स॒पत्ना᳚न्मे अनीनशः । दिवै॑नान्. वि॒द्युता॑ जहि ।
नि॒म्रोच॒न्नध॑रान् कृधि ॥ 75 (10)
T.B.3.7.6.22
उ॒द्यन्न॒द्य वि नो॑ भज । पि॒ता पु॒त्रेभ्यो॒ यथा᳚ । दी॒र्घा॒यु॒त्वस्य॑ हेशिषे ।
तस्य॑ नो देहि सूर्य ॥ उ॒द्यन्न॒द्य मि॑त्रमहः । आ॒रोह॒न्नुत्त॑रां॒ दिवं᳚ ।
हृ॒द्रो॒गं मम॑ सूर्य । ह॒रि॒माणं॑ च नाशय ॥ शुके॑षु मे हरि॒माणं᳚ ।
रो॒प॒णाका॑सु दद्ध्मसि । 76 (10)
T.B.3.7.6.23
अथो॑ हारिद्र॒वेषु॑ मे । ह॒रि॒माणं॒ निद॑द्ध्मसि ॥ उद॑गाद॒य-मा॑दि॒त्यः ।
विश्वे॑न॒ सह॑सा स॒ह । द्वि॒षन्तं॒ मम॑ र॒न्धयन्न्॑ । मो अ॒हं द्वि॑ष॒तो र॑धं ॥
यो नः॒ शपा॒दश॑पतः । यश्च॑ नः॒ शप॑तः॒ शपा᳚त् ।
उ॒षाश्च॒ तस्मै॑ नि॒मृक्च॑ । सर्वं॑ पा॒पꣳ समू॑हतां ( ) ॥ 77 (10)
T.B.3.7.6.24
यो नः॑ स॒पत्नो॒ यो रणः॑ । मर्तो॑ऽभि॒दास॑ति देवाः। इ॒द्ध्मस्ये॑व प्र॒क्षाय॑तः ।
मा तस्योच्छे॑षि॒ किञ्च॒न ॥ अव॑सृष्टः॒ परा॑पत । श॒रो ब्रह्म॑सꣳशितः ।
गच्छा॒ऽमित्रा॒न् प्रवि॑श । मैषां॒ कञ्च॒नोच्छि॑षः ॥ 78 (8)
(पतिः॑ - प्र॒जाप॑तये - तप॒स्वी - वा॒चा - सौभ॑गाय - प॒शून्मे॑ पिन्वस्व - दुर्मरा॒युं - दे॑व॒याना॑ - नग्ने॒ - ऽन्तरि॑क्षे॒ऽहमुत्त॑रो भूयासं -प्र॒जाप॑तिरसि स॒र्वतः॑ श्रि॒तः - प्रवि॑ष्टं - दे॒वता॑भिर् - वाज॒जितं॑ -
पृथि॒वी ह्व॑यताम॒ग्निराग्नी᳚द्ध्राद् - वृश्चत - ससृ॒वाꣳसꣳ॑ - हु॒ते - स्यो॒नेन॑ मे॒ सम्ति॑ष्ठस्वे॒ - तः - कृ॑धि- दध्म - स्यूहता - +म॒ष्टौ च॑) (A6)
T.B.3.7.7.1
सक्षे॒दं प॑श्य । विध॑र्तरि॒दं प॑श्य । नाके॒दं प॑श्य । र॒मतिः॒ पनि॑ष्ठा ।
ऋ॒तं ँवर्.षि॑ष्ठं । अ॒मृता॒ यान्या॒हुः । सूर्यो॒ वरि॑ष्ठो अ॒क्षभि॒र्विभा॑ति ।
अन॒ द्यावा॑पृथि॒वी दे॒वपु॑त्रे ॥ दी॒क्षाऽसि॒ तप॑सो॒ योनिः॑ ।
तपो॑ऽसि॒ ब्रह्म॑णो॒ योनिः॑ । 79 (10)
T.B.3.7.7.2
ब्रह्मा॑सि क्ष॒त्रस्य॒ योनिः॑ । क्ष॒त्रम॑स्यृ॒तस्य॒ योनिः॑ ।
ऋ॒तम॑सि॒ भूरार॑भे । श्र॒द्धां मन॑सा । दी॒क्षां तप॑सा ।
विश्व॑स्य॒ भुव॑न॒स्याधि॑पत्नीं । सर्वे॒ कामा॒ यज॑मानस्य सन्तु ॥
वातं॑ प्रा॒णं मन॑सा॒ऽन्वार॑भामहे । प्र॒जाप॑तिं॒ ँयो भुव॑नस्य गो॒पाः ।
स नो॑ मृ॒त्योस्त्रा॑यतां॒ पात्वꣳह॑सः । 80 (10)
T.B.3.7.7.3
ज्योग्जी॒वा ज॒राम॑शीमहि ॥ इन्द्र॑ शाक्वर गाय॒त्रीं प्रप॑द्ये ।
तां ते॑ युनज्मि । इन्द्र॑ शाक्वर त्रि॒ष्टुभं॒ प्रप॑द्ये । तां ते॑ युनज्मि ।
इन्द्र॑ शाक्वर॒ जग॑तीं॒ प्रप॑द्ये । तां ते॑ युनज्मि ।
इन्द्र॑ शाक्वरानु॒ष्टुभं॒ प्रप॑द्ये । तां ते॑ युनज्मि ।
इन्द्र॑ शाक्वर प॒ङ्क्तिं प्रप॑द्ये । 81 (10)
T.B.3.7.7.4
तां ते॑ युनज्मि ॥ आऽहं दी॒क्षाम॑रुह-मृ॒तस्य॒ पत्नीं᳚ ।
गा॒य॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च । ऋ॒तꣳ स॒त्ये॑ऽधायि । स॒त्यमृ॒ते॑ऽधायि ।
ऋ॒तं च॑ मे स॒त्यं चा॑भूतां । ज्योति॑रभूव॒ꣳ॒ सुव॑रगमं ।
सु॒व॒र्गं ँलो॒कं नाक॑स्य पृ॒ष्ठं । ब्र॒द्ध्नस्य॑ वि॒ष्टप॑मगमं ॥
पृ॒थि॒वी दी॒क्षा । 82 (10)
T.B.3.7.7.5
तया॒ऽग्नि र्दी॒क्षया॑ दीक्षि॒तः । यया॒ऽग्नि र्दी॒क्षया॑ दीक्षि॒तः ।
तया᳚ त्वा दी॒क्षया॑ दीक्षयामि । अ॒न्तरि॑क्षं दी॒क्षा ।
तया॑ वा॒यु र्दी॒क्षया॑ दीक्षि॒तः । यया॑ वा॒यु र्दी॒क्षया॑ दीक्षि॒तः ।
तया᳚ त्वा दी॒क्षया॑ दीक्षयामि । द्यौ र्दी॒क्षा ।
तया॑ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒तः ।
यया॑ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒तः । 83 (10)
T.B.3.7.7.6
तया᳚ त्वा दी॒क्षया॑ दीक्षयामि । दिशो॑ दी॒क्षा ।
तया॑ च॒न्द्रमा॑ दी॒क्षया॑ दीक्षि॒तः ।
यया॑ च॒न्द्रमा॑ दी॒क्षया॑ दीक्षि॒तः । तया᳚ त्वा दी॒क्षया॑ दीक्षयामि ।
आपो॑ दी॒क्षा । तया॒ वरु॑णो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः ।
यया॒ वरु॑णो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः ।
तया᳚ त्वा दी॒क्षया॑ दीक्षयामि ।
ओष॑धयो दी॒क्षा । 84 (10)
T.B.3.7.7.7
तया॒ सोमो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः। यया॒ सोमो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः ।
तया᳚ त्वा दी॒क्षया॑ दीक्षयामि । वाग् दी॒क्षा ।
तया᳚ प्रा॒णो दी॒क्षया॑ दीक्षि॒तः । यया᳚ प्रा॒णो दी॒क्षया॑ दीक्षि॒तः ।
तया᳚ त्वा दी॒क्षया॑ दीक्षयामि । पृ॒थि॒वी त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षतां ।
अ॒न्तरि॑क्षं त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षतां ।
द्यौस्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षतां । 85 (10)
T.B.3.7.7.8
दिश॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्तां । आप॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्तां ।
ओष॑धयस्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्तां । वाक्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षतां ।
ऋच॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्तां । सामा॑नि त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्तां ।
यजूꣳ॑षि त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्तां । अह॑श्च॒ रात्रि॑श्च ।
कृ॒षिश्च॒ वृष्टि॑श्च । त्विषि॒श्चा-प॑चितिश्च । 86 (10)
T.B.3.7.7.9
आप॒श्चौष॑धयश्च । ऊर्क्च॑ सू॒नृता॑ च । तास्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्तां ॥
स्वे दक्षे॒ दक्ष॑पिते॒ह सी॑द । दे॒वानाꣳ॑ सु॒म्नो म॑ह॒ते रणा॑य ।
स्वा॒स॒स्थ-स्त॒नुवा॒ सम् ँवि॑शस्व । पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवः॑ ।
शि॒वो मा॑ शि॒वमावि॑श । स॒त्यं म॑ आ॒त्मा । श्र॒द्धा मे ऽक्षि॑तिः । 87 (10)
T.B.3.7.7.10
तपो॑ मे प्रति॒ष्ठा । स॒वि॒तृ-प्र॑सूता मा॒ दिशो॑ दीक्षयन्तु । स॒त्यम॑स्मि ॥
अ॒हं त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि ।
ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्रः पि॒त्रे लो॑क॒कृ-ज्जा॑तवेदः ॥
आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता᳚त् । अग्ने॒ स्वां ँयोनि॒मासी॑द सा॒द्ध्या ।
अ॒स्मिन्थ् स॒धस्थे॒ अद्ध्युत्त॑रस्मिन्न् । 88 (10)
T.B.3.7.7.11
विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥ एक॑मि॒षे विष्णु॒स्त्वा-ऽन्वे॑तु ।
द्वे ऊ॒र्जे विष्णु॒स्त्वाऽन्वे॑तु । त्रीणि॑ व्र॒ताय॒ विष्णु॒स्त्वा-ऽन्वे॑तु ।
च॒त्वारि॒ मायो॑ भवाय॒ विष्णु॒स्त्वा-ऽन्वे॑तु ।
पञ्च॑ प॒शुभ्यो॒ विष्णु॒स्त्वा-ऽन्वे॑तु । षड्रा॒यस्पोषा॑य॒ विष्णु॒स्त्वा-ऽन्वे॑तु ।
स॒प्त स॒प्तभ्यो॒ होत्रा᳚भ्यो॒ विष्णु॒स्त्वा-ऽन्वे॑तु ॥
सखा॑यः स॒प्तप॑दा अभूम । स॒ख्यं ते॑ गमेयं । 89 (10)
T.B.3.7.7.12
स॒ख्यात्ते॒ मा यो॑षं । स॒ख्यान्मे॒ मा यो᳚ष्ठाः ॥ साऽसि॑ सुब्रह्मण्ये ।
तस्या᳚स्ते पृथि॒वी पादः॑ । साऽसि॑ सुब्रह्मण्ये । तस्या᳚स्ते॒ऽन्तरि॑क्षं॒ पादः॑ ।
साऽसि॑ सुब्रह्मण्ये । तस्या᳚स्ते॒ द्यौः पादः॑ । साऽसि॑ सुब्रह्मण्ये ।
तस्या᳚स्ते॒ दिशः॒ पादः॑ । 90 (10)
T.B.3.7.7.13
प॒रो र॑जास्ते पञ्च॒मः पादः॑ । सा न॒ इष॒मूर्जं॑ धुक्ष्व ।
तेज॑ इन्द्रि॒यं । ब्र॒ह्म॒व॒र्च॒स-म॒न्नाद्यं᳚ ॥ विमि॑मे त्वा॒ पय॑स्वतीं ।
दे॒वानां᳚ धे॒नुꣳ सु॒दुघा॒-मन॑प-स्फुरन्तीं । इन्द्रः॒ सोमं॑ पिबतु ।
क्षेमो॑ अस्तु नः ॥ इ॒मां न॑राः कृणुत॒ वेदि॒मेत्य॑ ।
वसु॑मतीꣳ रु॒द्रव॑ती-मादि॒त्यव॑तीं । 91 (10)
T.B.3.7.7.14
वर्ष्म॑न्दि॒वः । नाभा॑ पृथि॒व्याः । यथा॒ऽयं ँयज॑मानो॒ न रिष्ये᳚त् ।
दे॒वस्य॑ सवि॒तुः स॒वे ॥ चतुः॑ शिखण्डा युव॒तिः सु॒पेशाः᳚ ।
घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मद्ध्ये᳚ । तस्याꣳ॑ सुप॒र्णावधि॒ यौ निवि॑ष्टौ ।
तयो᳚ र्दे॒वाना॒मधि॑ भाग॒धेयं᳚ ॥ अप॒ जन्यं॑ भ॒यं नु॑द ।
अप॑ च॒क्राणि॑ वर्तय ( ) । गृ॒हꣳ सोम॑स्य गच्छतं ॥
न वा उ॑वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि । दे॒वाꣳ इदे॑षि प॒थिभिः॑ सु॒गेभिः॑ ।
यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ ।
तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥ 92 (15)
(ब्रह्म॑णो॒ योनि॒ - रꣳह॑सः - प॒ङ्क्तिं प्रप॑द्ये - दी॒क्षा - यया॑ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒त - स्तया᳚ त्वा दी॒क्षया॑ दीक्षया॒म्योष॑धयो दी॒क्षा - द्यौस्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षता॒ - मप॑चिति॒श्चा - क्षि॑ति॒ - रुत्त॑रस्मिन् - गमेयं॒ - दिशः॒ पाद॑ - आदि॒त्यव॑तीं - ँवर्तय॒ पञ्च॑ च) (A7)
T.B.3.7.8.1
यद॒स्य पा॒रे रज॑सः । शु॒क्रं ज्योति॒-रजा॑यत । तन्नः॑ पर्.ष॒दति॒ द्विषः॑ ।
अग्ने॑ वैश्वानर॒ स्वाहा᳚ ॥ यस्मा᳚द्भी॒षा-ऽवा॑शिष्ठाः ।
ततो॑ नो॒ अभ॑यं कृधि ।
प्र॒जाभ्यः॒ सर्वा᳚भ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे᳚ ॥
यस्मा᳚द्भी॒षा न्यष॑दः । ततो॑ नो॒ अभ॑यं कृधि । 93 (10)
T.B.3.7.8.2
प्र॒जाभ्यः॒ सर्वा᳚भ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे᳚ ॥
उदु॑स्र तिष्ठ॒ प्रति॑तिष्ठ॒ मा रि॑षः । मेमं ँय॒ज्ञं ँयज॑मानं च रीरिषः ।
सु॒व॒र्गे लो॒के यज॑मान॒ꣳ॒ हि धे॒हि । शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ॥
यस्मा᳚द्भी॒षा-ऽवे॑पिष्ठाः प॒लायि॑ष्ठाः स॒मज्ञा᳚स्थाः ।
ततो॑ नो॒ अभ॑यं कृधि ।
प्र॒जाभ्यः॒ सर्वा᳚भ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे᳚ ॥ 94 (10)
T.B.3.7.8.3
य इ॒दमकः॑ । तस्मै॒ नमः॑ । तस्मै॒ स्वाहा᳚ ॥
“ न वा उ॑ वे॒तन्म्रि॑यसे{1}“ । “आशा॑नां त्वा॒{2}“ “विश्वा॒ आशाः᳚{3}" ॥ य॒ज्ञस्य॒ हि स्थ ऋ॒त्वियौ᳚ ।
इन्द्रा᳚ग्नी॒ चेत॑नस्य च । हु॒ता॒हु॒तस्य॑ तृप्यतं । अहु॑तस्य हु॒तस्य॑ च ।
हु॒तस्य॒ चाहु॑तस्य च ( ) । अहु॑तस्य हु॒तस्य॑ च ।
इन्द्रा᳚ग्नी अ॒स्य सोम॑स्य । वी॒तं पि॑बतं जु॒षेथां᳚ ॥
मा यज॑मानं॒ तमो॑ विदत् । मर्त्विजो॒ मो इ॒माः प्र॒जाः ।
मा यः सोम॑मि॒मं पिबा᳚त् । सꣳसृ॑ष्टमु॒भयं॑ कृ॒तं ॥ 95 (17)
(कृ॒धि॒ - मी॒ढुषे - ऽहु॑तस्य च स॒प्त च॑) (A8)
T.B.3.7.9.1
अ॒ना॒गस॑स्त्वा व॒यं । इन्द्रे॑ण॒ प्रेषि॑ता॒ उप॑ । वा॒युष्टे॑ अस्त्वꣳश॒भूः ।
मि॒त्रस्ते॑ अस्त्वꣳश॒भूः । वरु॑णस्ते अस्त्वꣳश॒भूः ॥
अपां᳚ क्षया॒ ऋत॑स्य गर्भाः । भुव॑नस्य गोपाः॒ श्येना॑ अतिथयः ।
पर्व॑तानां ककुभः प्र॒युतो॑ नपातारः । व॒ग्नुनेन्द्रᳺ॑ ह्वयत ।
घोषे॒णामी॑-वाᳺश्चातयत । 96 (10)
T.B.3.7.9.2
यु॒क्ताः स्थ॒ वह॑त ॥ दे॒वा ग्रावा॑ण॒ इन्दु॒रिन्द्र॒ इत्य॑वादिषुः ।
एन्द्र॑मचुच्यवुः पर॒मस्याः᳚ परा॒वतः॑ । आऽस्माथ् स॒धस्था᳚त् ।
ओरोर॒न्तरि॑क्षात् । आ सु॑भू॒तम॑सुषवुः । ब्र॒ह्म॒व॒र्च॒सं म॒ आऽसु॑षवुः ।
स॒म॒रे रक्षाᳺ॑स्यवधिषुः । अप॑हतं ब्रह्म॒ज्यस्य॑ ॥
वाक्च॑ त्वा॒ मन॑श्च श्रीणीतां । 97 (10)
T.B.3.7.9.3
प्रा॒णश्च॑ त्वाऽपा॒नश्च॑ श्रीणीतां । चक्षु॑श्च त्वा॒ श्रोत्रं॑ च श्रीणीतां ।
दक्ष॑श्च त्वा॒ बलं॑ च श्रीणीतां । ओज॑श्च त्वा॒ सह॑श्च श्रीणीतां ।
आयु॑श्च त्वा ज॒रा च॑ श्रीणीतां । आ॒त्मा च॑ त्वा त॒नूश्च॑ श्रीणीताञ्च् ।
शृ॒तो॑ऽसि शृ॒तञ्च् कृ॑तः । शृ॒ताय॑ त्वा शृ॒तेभ्य॑स्त्वा ॥
यमिन्द्र॑मा॒हु र्वरु॑णं॒ ँयमा॒हुः । यं मि॒त्रमा॒हुर् यमु॑ स॒त्यमा॒हुः । 98 (10)
T.B.3.7.9.4
यो दे॒वानां᳚ दे॒वत॑मस्तपो॒जाः । तस्मै᳚ त्वा॒ तेभ्य॑स्त्वा ॥
मयि॒ त्यदि॑न्द्रि॒यं म॒हत् । मयि॒ दक्षो॒ मयि॒ क्रतुः॑ ।
मयि॑ धायि सु॒वीर्यं᳚ । त्रिशु॑ग्घ॒र्मो विभा॑तु मे । आकू᳚त्या॒ मन॑सा स॒ह ।
वि॒राजा॒ ज्योति॑षा स॒ह । य॒ज्ञेन॒ पय॑सा स॒ह ।
तस्य॒ दोह॑मशीमहि । 99 (10)
T.B.3.7.9.5
तस्य॑ सु॒म्नम॑शीमहि । तस्य॑ भ॒क्षम॑शीमहि ।
वाग्जु॑षा॒णा सोम॑स्य तृप्यतु ॥ “मि॒त्रो जना॒न्{4}“ “प्र स मि॑त्र{5}“ ॥
यस्मा॒न्न जा॒तः परो॑ अ॒न्यो अस्ति॑ । य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा᳚ ।
प्र॒जाप॑तिः प्र॒जया॑ सम् ँविदा॒नः ।
त्रीणि॒ ज्योतीꣳ॑षि सचते॒ स षो॑ड॒शी ॥ ए॒ष ब्र॒ह्मा य ऋ॒त्वियः॑ ।
इन्द्रो॒ नाम॑ शृ॒तो ग॒णे ॥ 100 (10)
T.B.3.7.9.6
प्र ते॑ म॒हे वि॒दथे॑ ऽशꣳसिष॒ꣳ॒ हरी᳚ । य ऋ॒त्वियः॒ प्र ते॑ वन्वे ।
व॒नुषो॑ हर्य॒तं मदं᳚ ॥ इन्द्रो॒ नाम॑ घृ॒तं न यः । हरि॑भि॒श्चारु॒ सेच॑ते ।
शृ॒तो ग॒ण आ त्वा॑ विशन्तु । हरि॑वर्पस॒ङ्गिरः॑ ॥
इन्द्राधि॑प॒ते-ऽधि॑पति॒स्त्वं दे॒वाना॑मसि । अधि॑पतिं॒ मां ।
आयु॑ष्मन्तं॒ ँवर्च॑स्वन्तं मनु॒ष्ये॑षु कुरु ॥ 101 (10)
T.B.3.7.9.7
इन्द्र॑श्च स॒म्राड् वरु॑णश्च॒ राजा᳚ । तौ ते॑ भ॒क्षं च॑क्रतु॒रग्र॑ ए॒तं ।
तयो॒रनु॑ भ॒क्षं भ॑क्षयामि । वाग्जु॑षा॒णा सोम॑स्य तृप्यतु ॥
प्र॒जाप॑ति र्वि॒श्वक॑र्मा । तस्य॒ मनो॑ दे॒वं ँय॒ज्ञेन॑ राद्ध्यासं ।
अ॒र्थे॒ गा अ॒स्य ज॑हितः । अ॒व॒सान॑पते-ऽव॒सानं॑ मे विन्द ॥
नमो॑ रु॒द्राय॑ वास्तो॒ष्पत॑ये । आय॑ने वि॒द्रव॑णे । 102 (10)
T.B.3.7.9.8
उ॒द्याने॒ यत्प॒राय॑णे । आ॒वर्त॑ने वि॒वर्त॑ने । यो गो॑पा॒यति॒ तꣳ हु॑वे ॥
यान्य॑पा॒मित्या॒-न्यप्र॑तीत्ता॒-न्यस्मि॑ । य॒मस्य॑ ब॒लिना॒ चरा॑मि ।
इ॒हैव सन्तः॒ प्रति॒ तद्या॑तयामः । जी॒वा जी॒वेभ्यो॒ निह॑राम एनत् ॥
अ॒नृ॒णा अ॒स्मिन्न॑-नृ॒णाः पर॑स्मिन्न् । तृ॒तीये॑ लो॒के अ॑नृ॒णाः स्या॑म ।
ये दे॑व॒याना॑ उ॒त पि॑तृ॒याणाः᳚ । 103 (10)
T.B.3.7.9.9
सर्वा᳚न् प॒थो अ॑नृ॒णा आक्षी॑येम ॥ इ॒दमू॒ नु श्रेयो॑-ऽव॒सान॒-माग॑न्म ।
शि॒वे नो॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे । गोम॒द्धन॑-व॒दश्व॑व॒-दूर्ज॑स्वत् ।
सु॒वीरा॑ वी॒रैरनु॒ सञ्च॑रेम ॥ अ॒र्कः प॒वित्र॒ꣳ॒ रज॑सो वि॒मानः॑ ।
पु॒नाति॑ दे॒वानां॒ भुव॑नानि॒ विश्वा᳚ । द्यावा॑पृथि॒वी पय॑सा सम् ँविदा॒ने ।
घृ॒तं दु॑हाते अ॒मृतं॒ प्रपी॑ने ॥ प॒वित्र॑म॒र्को रज॑सो वि॒मानः॑ ( ) ।
पु॒नाति॑ दे॒वानां॒ भुव॑नानि॒ विश्वा᳚ । सुव॒ र्ज्योति॒ र्यशो॑ म॒हत् ।
अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां ॥ 104 (13)
(चा॒त॒य॒त॒ - श्री॒णी॒ता॒ꣳ॒ - स॒त्यमा॒हु - र॑शीमहि - ग॒णे - कु॑रु - वि॒द्रव॑णे - पितृ॒याणा॑ - अ॒र्को रज॑सो वि॒मान॒स्त्रीणि॑ च) (A9)
T.B.3.7.10.1
उद॑स्तांफ्सीथ् सवि॒ता मि॒त्रो अ॑र्य॒मा । सर्वा॑-न॒मित्रा॑-नवधीद्यु॒गेन॑ ।
बृ॒हन्तं॒ माम॑कर-द्वी॒रव॑न्तं । र॒थ॒न्त॒रे श्र॑यस्व॒ स्वाहा॑ पृथि॒व्यां ।
वा॒म॒दे॒व्ये श्र॑यस्व॒ स्वाहा॒-ऽन्तरि॑क्षे । बृ॒ह॒ति श्र॑यस्व॒ स्वाहा॑ दि॒वि ।
बृ॒ह॒ता त्वोप॑स्तभ्नोमि ॥ आ त्वा॑ ददे॒ यश॑से वी॒र्या॑य च ।
अ॒स्मास्व॑-घ्निया यू॒यं द॑धाथेन्द्रि॒यं पयः॑ ॥
यस्ते᳚ द्र॒फ्सो यस्त॑ उद॒र्॒.षः । 105 (10)
T.B.3.7.10.2
दैव्यः॑ के॒तु र्विश्वं॒ भुव॑न-मावि॒वेश॑ । स नः॑ पा॒ह्यरि॑ष्ट्यै॒ स्वाहा᳚ ॥
अनु॑ मा॒ सर्वो॑ य॒ज्ञो॑-ऽयमे॑तु । विश्वे॑ दे॒वा म॒रुतः॒ सामा॒र्कः ।
आ॒प्रिय॒॑007A;छन्दाꣳ॑सि नि॒विदो॒ यजूꣳ॑षि । अ॒स्यै पृ॑थि॒व्यै यद्य॒ज्ञियं᳚ ॥
प्र॒जाप॑ते र्वर्त॒निमनु॑ वर्तस्व । अनु॑ वी॒रैरनु॑ राद्ध्याम॒ गोभिः॑ ।
अन्वश्वै॒रनु॒ सर्वै॑रु पु॒ष्टैः । अनु॑ प्र॒जया-ऽन्वि॑न्द्रि॒येण॑ । 106 (10)
T.B.3.7.10.3
दे॒वा नो॑ य॒ज्ञ-मृ॑जु॒धा न॑यन्तु ॥ प्रति॑ क्ष॒त्रे प्रति॑ तिष्ठामि रा॒ष्ट्रे ।
प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ । प्रति॑ प्र॒जायां॒ प्रति॑ तिष्ठामि॒ भव्ये᳚ ।
विश्व॑म॒न्याऽभि॑ वावृ॒धे । तद॒न्यस्या॒-मधि॑श्रि॒तं । दि॒वे च॑ वि॒श्वक॑र्मणे ।
पृ॒थि॒व्यै चा॑करं॒ नमः॑ ॥ अस्का॒न्द्यौः पृ॑थि॒वीं ।
अस्का॑नृष॒भो युवा॒ गाः । 107 (10)
T.B.3.7.10.4
स्क॒न्नेमा विश्वा॒ भुव॑ना । स्क॒न्नो य॒ज्ञः प्रज॑नयतु ।
अस्का॒नज॑नि॒ प्राज॑नि । आ स्क॒न्नाज्जा॑यते॒ वृषा᳚ ।
स्क॒न्नात् प्रज॑निषीमहि ॥ ये दे॒वा येषा॑मि॒दं भा॑ग॒धेयं॑ ब॒भूव॑ ।
येषां᳚ प्रया॒जा उ॒तानू॑या॒जाः । इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यः ।
अ॒ग्निहो॑तृभ्यो दे॒वेभ्यः॒ स्वाहा᳚ ॥ उ॒त त्या नो॒ दिवा॑ म॒तिः । 108 (10)
T.B.3.7.10.5
अदि॑तिरू॒त्या-ऽऽग॑मत् । सा शन्ता॑ची॒ मय॑स्करत् । अप॒ स्रिधः॑ ॥
उ॒त त्या दैव्या॑ भि॒षजा᳚ । शं न॑स्करतो अ॒श्विना᳚ । यू॒याता॑-म॒स्मद्रपः॑ ।
अप॒ स्रिधः॑ ॥ शम॒ग्नि-र॒ग्निभि॑स्करत् । शं न॑स्तपतु॒ सूर्यः॑ ।
शं ँवातो॑ वात्वर॒पाः । 109 (10)
T.B.3.7.10.6
अप॒ स्रिधः॑ ॥ तदित्प॒दं न विचि॑केत वि॒द्वान् ।
यन्मृ॒तः पुन॑र॒प्येति॑ जी॒वान् । त्रि॒वृद्यद् भुव॑नस्य रथ॒वृत् ।
जी॒वो गर्भो॒ न मृ॒तः स जी॑वात् ॥
प्रत्य॑स्मै॒ पिपी॑षते । विश्वा॑नि वि॒दुषे॑ भर । अ॒रं॒ ग॒माय॒ जग्म॑वे ।
अप॑श्चाद्दध्वने॒ नरे᳚ (Or अप॑श्चाद्दघ्वने॒ नरे᳚) ॥ इन्दु॒रिन्दु॒म-वा॑गात् ( ) ।
इन्दो॒रिन्द्रो॑-ऽपात् । तस्य॑ त इन्द॒विन्द्र॑-पीतस्य॒ मधु॑मतः ।
उप॑हूत॒स्योप॑हूतो भक्षयामि ॥ 110 (13)
(उ॒द॒र्॒.ष - इ॑न्द्रि॒येण॒ - गा - म॒ति - र॑र॒पा - अ॑गा॒त्रीणि॑ च) (A10)
T.B.3.7.11.1
ब्रह्म॑ प्रति॒ष्ठा मन॑सो॒ ब्रह्म॑ वा॒चः । ब्रह्म॑ य॒ज्ञानाꣳ॑ ह॒विषा॒-माज्य॑स्य ।
अति॑रिक्तं॒ कर्म॑णो॒ यच्च॑ ही॒नं । य॒ज्ञः पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पयन्न्॑ ।
स्वाहा॑कृ॒ता-ऽऽहु॑तिरेतु दे॒वान् ॥ आश्रा॑वितम॒त्याश्रा॑वितं ।
वष॑ट्कृत-म॒त्यनू᳚क्तं च य॒ज्ञे । अति॑रिक्तं॒ कर्म॑णो॒ यच्च॑ ही॒नं ।
य॒ज्ञः पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पयन्न्॑ ।
स्वाहा॑कृ॒ता-ऽऽहु॑तिरेतु दे॒वान् ॥ 111 (10)
T.B.3.7.11.2
यद्वो॑ देवा अतिपा॒दया॑नि । वा॒चा चि॒त्प्रय॑तं देव॒ हेड॑नं ।
अ॒रा॒यो अ॒स्माꣳ अ॒भि-दु॑च्छुना॒यते᳚। अ॒न्यत्रा॒स्मन्-म॑रुत॒स्त-न्निधे॑तन ॥
त॒तं म॒ आप॒स्तदु॑ तायत॒ पुनः॑ । स्वादि॑ष्ठा धी॒तिरु॒चथा॑य शस्यते ।
अ॒यꣳ स॑मु॒द्र उ॒त वि॒श्वभे॑षजः । स्वाहा॑-कृतस्य॒ समु॑तृप्णुत र्भुवः ॥
“उद्व॒यं तम॑स॒स्परि॑{6}” । “उदु॒ त्यं{7}” “चि॒त्रं{8}” । 112 (10)
T.B.3.7.11.3
“इ॒मं मे॑ वरुण॒{9}” “तत्त्वा॑ यामि{10}” । “त्वं नो॑ अग्ने॒{11}”
“स त्वं नो॑ अग्ने{12}” । “त्वम॑ग्ने अ॒याऽसि॒{13}” “प्रजा॑पते{14}” ॥
इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि । मैषां नु॑ गा॒दप॑रो॒ अद्र्ध॑मे॒तं ।
श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीः । ति॒रो मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥
इ॒ष्टेभ्यः॒ स्वाहा॒ वष॒डनि॑ष्टेभ्यः॒ स्वाहा᳚ ।
भे॒ष॒जं दुरि॑ष्ट्यै॒ स्वाहा॒ निष्कृ॑त्यै॒ स्वाहा᳚ ।
दौरा᳚द्र्ध्यै॒ स्वाहा॒ दैवी᳚भ्य-स्त॒नूभ्यः॒ स्वाहा᳚ । 113 (10)
T.B.3.7.11.4
ऋद्ध्यै॒ स्वाहा॒ समृ॑द्ध्यै॒ स्वाहा᳚ ॥ यत॑ इन्द्र॒ भया॑महे ।
ततो॑ नो॒ अभ॑यं कृधि । मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये᳚ ।
वि द्विषो॒ वि मृधो॑ जहि ॥ स्व॒स्ति॒दा वि॒शस्पतिः॑ ।
वृ॒त्र॒हा विमृधो॑ व॒शी । वृषेन्द्रः॑ पु॒र ए॑तु नः ।
स्व॒स्ति॒दा अ॑भयं क॒रः ॥ आ॒भि र्गी॒र्भि र्यदतो॑ न ऊ॒नं । 114 (10)
T.B.3.7.11.5
आप्या॑यय हरिवो॒ वद्र्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ ।
भू॒यि॒ष्ठ॒भाजो॒ अध॑ ते स्याम ॥ अना᳚ज्ञातं॒ ँयदाज्ञा॑तं ।
य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ । अग्ने॒ तद॑स्य कल्पय ।
त्वꣳ हि वेत्थ॑ यथात॒थं ॥ पुरु॑ष सम्मितो य॒ज्ञः ।
य॒ज्ञः पुरु॑ष सम्मितः । अग्ने॒ तद॑स्य कल्पय ( ) ।
त्वꣳ हि वेत्थ॑ यथात॒थं ॥ यत् पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न ।
य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः । अ॒ग्निष्टद्धोता᳚ क्रतु॒विद्वि॑जा॒नन्न् ।
यजि॑ष्ठो दे॒वाꣳ ऋ॑तु॒शो य॑जाति ॥ 115 (15)
(दे॒वाᳺ - श्चि॒त्रं - त॒नूभ्यः॒ स्वाहो॒ - नं - पुरु॑षसम्मि॒तोऽग्ने॒ तद॑स्य कल्पय॒ पञ्च॑ च) (A11)
T.B.3.7.12.1
यद्दे॑वा देव॒हेड॑नं । देवा॑सश्चकृ॒मा व॒यं । आदि॑त्या॒-स्तस्मा᳚न्मा मुञ्चत ।
ऋ॒तस्य॒र्तेन॒ मामु॒त ॥ देवा॑ जीवनका॒म्या यत् । वा॒चाऽनृ॑तमूदि॒म ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः । गार्.ह॑पत्यः॒ प्रमु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म ।
क॒रोतु॒ माम॑ने॒ नसं᳚ ॥ 116 (10)
T.B.3.7.12.2
ऋ॒तेन॑ द्यावापृथिवी । ऋ॒तेन॒ त्वꣳ स॑रस्वति । ऋ॒तान्मा॑ मुञ्च॒ताꣳह॑सः ।
यद॒न्य कृ॑तमारि॒म ॥ स॒जा॒त॒श॒ꣳ॒सादु॒त वा॑ जामिश॒ꣳ॒सात् ।
ज्याय॑सः॒ शꣳसा॑दु॒त वा॒ कनी॑यसः । अना᳚ज्ञातं दे॒वकृ॑तं॒ ँयदेनः॑ ।
तस्मा॒त्त्वम॒स्मा-ञ्जा॑तवेदो मुमुग्धि ॥ यद्वा॒चा यन्मन॑सा ।
बा॒हुभ्या॑-मू॒रुभ्या॑-मष्ठी॒वद्भ्यां᳚ । 117 (10)
T.B.3.7.12.3
शि॒श्ञै र्यदनृ॑तं चकृ॒मा व॒यं । अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥
यद्धस्ता᳚भ्यां च॒कर॒ किल्बि॑षाणि । अ॒क्षाणां᳚ ँव॒ग्नुमु॑प॒ जिघ्न॑मानः ।
दू॒रे॒प॒श्या च॑ राष्ट्र॒भृच्च॑ । तान्य॑फ्स॒रसा॒-वनु॑दत्ता-मृ॒णानि॑ ॥
अदी᳚व्यन्नृ॒णं ँयद॒हं च॒कार॑ । यद्वाऽदा᳚स्यन्थ् संज॒गारा॒ जने᳚भ्यः ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥ यन्मयि॑ मा॒ता गर्भे॑ स॒ति । 118 (10)
T.B.3.7.12.4
एन॑श्च॒कार॒ यत्पि॒ता । अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥ यदा॑ पि॒पेष॑ मा॒तरं॑ पि॒तरं᳚ ।
पु॒त्रः प्रमु॑दितो॒ धयन्न्॑ । अहिꣳ॑सितौ पि॒तरौ॒ मया॒ तत् ।
तद॑ग्ने अनृ॒णो भ॑वामि ॥ यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्यां ।
यन्मा॒तरं॑ पि॒तरं॑ ँवा जिहिꣳसि॒म ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥ यदा॒शसा॑ नि॒शसा॒ यत्प॑रा॒शसा᳚ । 119 (10)
T.B.3.7.12.5
यदेन॑श्च कृ॒मा नूत॑नं॒ ँयत्पु॑रा॒णं । अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥
अति॑क्रामामि दुरि॒तं ँयदेनः॑ । जहा॑मि रि॒प्रं प॑र॒मे स॒धस्थे᳚ ।
यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ । तमारो॑हामि सु॒कृतां॒ नु लो॒कं ॥
त्रि॒ते दे॒वा अ॑मृजतै॒-तदेनः॑ । त्रि॒त ए॒तन्म॑नु॒ष्ये॑षु मामृजे ।
ततो॑ मा॒ यदि॒ किञ्चि॑दान॒शे । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । 120 (10)
T.B.3.7.12.6
गार्.ह॑पत्यः॒ प्रमु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नसं᳚ ॥
दि॒वि जा॒ता अ॒फ्सु जा॒ताः । या जा॒ता ओष॑धीभ्यः ।
अथो॒ या अ॑ग्नि॒जा आपः॑ । ता नः॑ शुन्धन्तु॒ शुन्ध॑नीः ॥
यदापो॒ नक्तं॑ दुरि॒तं चरा॑म । यद्वा॒ दिवा॒ नूत॑नं॒ ँयत्पु॑रा॒णं ।
हिर॑ण्य-वर्णा॒स्तत॒ उत्पु॑नीत नः ( ) ॥ “इ॒मं मे॑ वरुण॒{15}”
“तत्त्वा॑ यामि{16}” । “त्वं नो॑ अग्ने॒{17}” “स त्वं नो॑ अग्ने{18}” । “त्वम॑ग्ने अ॒याऽसि॑{19}” ॥ 121 (13)
(अ॒ने॒नस॑ - मष्ठी॒वद्भ्याꣳ॑ - स॒ति - प॑रा॒शसा॑ऽऽन॒शे᳚ - ऽग्निर्मा॒ तस्मा॒देन॑सः - पुनीत न॒स्त्रीणि॑ च) (A12)
Special Korvai
(यद् दे॑वा॒ गार्.ह॑पत्यो॒ यद्धस्ता᳚भ्यां॒ ँयन्मयि॑ मा॒ता यदा॑पि॒पेष॒ यद॒न्तरि॑क्षं॒ ँयदा॒शसाऽति॑क्रामामि त्रि॒ते दे॒वा दि॒वि जा॒ता अ॒फ्सु जा॒ता यदाप॑ इ॒मं मे॑ वरुणा॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽसि॑)
T.B.3.7.13.1
यत्ते॒ ग्राव्.ण्णा॑ चिच्छि॒दुः सो॑म राजन्न् ।
प्रि॒याण्यङ्गा॑नि॒ स्वधि॑ता॒ परूꣳ॑षि । तथ्सन्ध॒थ् स्वाज्ये॑नो॒त व॑द्र्धयस्व ।
अ॒ना॒गसो॒ अध॒मिथ्स॒ङ्क्षये॑म ॥ यत्ते॒ ग्रावा॑ बा॒हुच्यु॑तो॒ अचु॑च्यवुः ।
नरो॒ यत्ते॑ दुदु॒हु र्दक्षि॑णेन । तत्त॒ आप्या॑यतां॒ तत्ते᳚ ।
निष्ट्या॑यतां देव सोम ॥ यत्ते॒ त्वचं॑ बिभि॒दुर्यच्च॒ योनिं᳚ ।
यदा॒स्थाना॒त् प्रच्यु॑तो॒ वेन॑सि॒ त्मना᳚ । 122 (10)
T.B.3.7.13.2
त्वया॒ तथ्सो॑म गु॒प्तम॑स्तु नः । सा नः॑ स॒धां-ऽस॑त्पर॒मे व्यो॑मन्न् ॥
अहा॒च्छरी॑रं॒ पय॑सा स॒मेत्य॑ । अ॒न्यो᳚ऽन्यो भवति॒ वर्णो॑ अस्य ।
तस्मि॑न् व॒यमुप॑हूता॒स्तव॑ स्मः । आ नो॑ भज॒ सद॑सि वि॒श्वरू॑पे ॥
नृ॒चक्षाः॒ सोम॑ उ॒त शु॒शृग॑स्तु । मा नो॒ विहा॑सी॒द्गिर॑ आवृणा॒नः ।
अना॑गा-स्त॒नुवो॑ वावृधा॒नः । आ नो॑ रू॒पं ँव॑हतु॒ जाय॑मानः ॥ 123 (10)
T.B.3.7.13.3
उप॑क्षरन्ति जु॒ह्वो॑ घृ॒तेन॑ । प्रि॒याण्यङ्गा॑नि॒ तव॑ व॒द्र्धय॑न्तीः ।
तस्मै॑ ते सोम॒ नम॒ इद्वष॑ट्च । उप॑ मा राजन्थ् सुकृ॒ते ह्व॑यस्व ॥
सं प्रा॑णापा॒नाभ्या॒ꣳ॒ समु॒ चक्षु॑षा॒ त्वं ।
सᳺ श्रोत्रे॑ण गच्छस्व सोम राजन्न् ।
यत्त॒ आस्थि॑त॒ꣳ॒ शमु॒ तत्ते॑ अस्तु । जा॒नी॒तान्नः॑ स॒ङ्गम॑ने पथी॒नां ॥
ए॒तं जा॑नीतात्पर॒मे व्यो॑मन्न् । वृकाः᳚ सधस्था वि॒द रू॒पम॑स्य । 124 (10)
T.B.3.7.13.4
यदा॒गच्छा᳚त् प॒थिभि॑ र्देव॒यानैः᳚ । इ॒ष्टा॒पू॒र्ते कृ॑णुता-दा॒विर॑स्मै ॥
अरि॑ष्टो राजन्नग॒दः परे॑हि । नम॑स्ते अस्तु॒ चक्ष॑से रघूय॒ते ।
नाक॒मारो॑ह स॒ह यज॑मानेन । सूर्यं॑ गच्छतात्पर॒मे व्यो॑मन्न् ॥
अभू᳚द्दे॒वः स॑वि॒ता वन्द्यो॒ नु नः॑ । इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ ।
वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॑ । श्रेष्ठं॑ नो॒ अत्र॒ द्रवि॑णं॒ ँयथा॒ दध॑त् ( ) ॥
उप॑ नो मित्रावरुणा-वि॒हाव॑तं । अ॒न्वादी᳚द्ध्या-थामि॒ह नः॑ सखाया ।
आ॒दि॒त्यानां॒ प्रसि॑तिर्. हे॒तिः । उ॒ग्रा श॒तापा᳚ष्ठा घ॒विषा॒ परि॑णो वृणक्तु ॥
“आप्या॑यस्व॒{20}” “सं ते᳚{21}” ॥ 125 (15)
(त्मना॒ - जाय॑मानो - ऽस्य॒ - दध॒त् पञ्च॑ च) (A13)
T.B.3.7.14.1
यद्दि॑दी॒क्षे मन॑सा॒ यच्च॑ वा॒चा । यद्वा᳚ प्रा॒णैश्चक्षु॑षा॒ यच्च॒ श्रोत्रे॑ण ।
यद्रेत॑सा मिथु॒नेना-प्या॒त्मना᳚ । अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यं ।
शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः ।
आपो॑ विमो॒क्त्री र्मयि॒ तेज॑ इन्द्रि॒यं ॥
यदृ॒चा साम्ना॒ यजु॑षा । प॒शू॒नां चर्म॑न्. ह॒विषा॑ दिदी॒क्षे ।
यच्छन्दो॑भि॒-रोष॑धीभि॒-र्वन॒स्पतौ᳚ ।
अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यं । 126 (10)
T.B.3.7.14.2
शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः ।
आपो॑ विमो॒क्त्री र्मयि॒ तेज॑ इन्द्रि॒यं ॥
येन॒ ब्रह्म॒ येन॑ क्ष॒त्रं । येने᳚न्द्रा॒ग्नी प्र॒जाप॑तिः॒ सोमो॒ वरु॑णो॒ येन॒ राजा᳚ ।
विश्वे॑ दे॒वा ऋष॑यो॒ येन॑ प्रा॒णाः । अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यं ।
शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः ।
आपो॑ विमो॒क्त्री र्मयि॒ तेज॑ इन्द्रि॒यं ॥
अ॒पां पुष्प॑म॒स्यो-ष॑धीना॒ꣳ॒ रसः॑ । सोम॑स्य प्रि॒यं धाम॑ । 127 (10)
T.B.3.7.14.3
अ॒ग्नेः प्रि॒यत॑मꣳ ह॒विः स्वाहा᳚ ॥ अ॒पां पुष्प॑-म॒स्योष॑धीना॒ꣳ॒ रसः॑ ।
सोम॑स्य प्रि॒यं धाम॑ । इन्द्र॑स्य प्रि॒यत॑मꣳ ह॒विः स्वाहा᳚ ।
अ॒पां पुष्प॑म॒स्यो-ष॑धीना॒ꣳ॒ रसः॑ । सोम॑स्य प्रि॒यं धाम॑ ।
विश्वे॑षां दे॒वानां᳚ प्रि॒यत॑मꣳ ह॒विः स्वाहा᳚ ॥ व॒यꣳ सो॑म व्र॒ते तव॑ ।
मन॑स्त॒नूषु॒ पिप्र॑तः । प्र॒जाव॑न्तो अशीमहि ॥ 128 (10)
T.B.3.7.14.4
दे॒वेभ्यः॑ पि॒तृभ्यः॒ स्वाहा᳚ । सो॒म्येभ्यः॑ पि॒तृभ्यः॒ स्वाहा᳚ ।
क॒व्येभ्यः॑ पि॒तृभ्यः॒ स्वाहा᳚ ॥ देवा॑स इ॒ह मा॑दयद्ध्वं ।
सोम्या॑स इ॒ह मा॑दयद्ध्वं । कव्या॑स इ॒ह मा॑दयद्ध्वं ॥
अन॑न्तरिताः पि॒तरः॑ सो॒म्याः सो॑मपी॒थात् ॥
अपै॑तु मृ॒त्युर॒मृतं॑ न॒ आगन्न्॑ । वै॒व॒स्व॒तो नो॒ अभ॑यं कृणोतु ।
प॒र्णं ँवन॒स्पते॑रिव । 129 (10)
T.B.3.7.14.5
अ॒भि नः॑ शीयताꣳ र॒यिः । सच॑तां नः॒ शची॒पतिः॑ ॥
परं॑ मृत्यो॒ अनु॒परे॑हि॒ पन्थां᳚ । यस्ते॒ स्व इत॑रो देव॒याना᳚त् ।
चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि । मा नः॑ प्र॒जाꣳ री॑रिषो॒ मोत वी॒रान् ॥
इ॒दमू॒ नु श्रेयो॑ऽव॒सान॒-माग॑न्म । यद्गो॒जिद्-ध॑न॒जि-द॑श्व॒जिद्यत् ।
प॒र्णं ँवन॒स्पते॑रिव । अ॒भि नः॑ शीयताꣳ र॒यिः ( ) ।
सच॑तां नः॒ शची॒पतिः॑ ॥ 130 (11)
(वन॒स्पता॑व॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यं धामा॑ - शीमही - वा॒ - भि नः॑ शीयताꣳ र॒यिरेकं॑ च) (A14)
Prapaataka Korvai with starting Padams of 1 to 14 Anuvaakams :-
(सर्वा॒न्॒. - यद् विष्ष॑ण्णेन॒ - वि वै - याः पु॒रस्ता॒द् - देवा॑ दे॒वेषु॒ - परि॑स्तणित॒ - सक्षे॒दं - ँयद॒स्य पा॒रे॑ - ऽना॒गस॒ - उद॑स्तां फ्सी॒द् - ब्रह्म॑ प्रति॒ष्ठा - यद् दे॑व॒ - यत्ते॒ ग्राव.ण्णा॒ - यद् दि॑दी॒क्षे चतु॑र्दश)
Korvai with starting Padams of 1, 11, 21 Series of Dasinis :-
(सर्वा॒न् - भूति॑मे॒व - यामे॒वाफ्स्वाहु॑तिम् - ँव्र॒तानां᳚ - पर्णव॒ल्कः - सो॒म्याना॑ - म॒स्मिन्. य॒ज्ञे - ऽग्ने॒ यो नो॒ - ज्योग्जी॒वाः - प॒रोर॑जास्ते॒ - प्र ते॑ म॒हे - ब्रह्म॑ प्रति॒ष्ठा - गार्.ह॑पत्या
स्त्रि॒ꣳ॒शदु॑त्तरश॒तं)
First अन्द् ळस्त् फदम् 3rd आश्तकम् 6th प्रपातकम् ः-
(सर्वा॒न्॒. वै - शची॒पतिः॑)
॥ हरिः॑ ओं ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके सप्तमः प्रपाठकः समाप्तः ॥
Appendix (of एक्ष्पन्सिओन्स्)
T.B.3.7.8.3 "na vA u# veqtanmri#yase{1}"
न वा उ॑वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाꣳ इदे॑षि प॒थिभिः॑ सु॒गेभिः॑ ।
हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा᳚स्थाद्-वा॒जी धु॒रि रास॑भस्य ॥ {1}
(Appearing in T.S.4.6.9.4)
-------------------------------------------------------------
T.B.3.7.8.3 "ASA#nAM tvAq{2}", "viSvAq ASA$H{3}"
आशा॑नां त्वा ऽऽशापा॒लेभ्यः॑ । च॒तुर्भ्यो॑ अ॒मृते᳚भ्यः ।
इ॒दं भू॒तस्याध्य॑क्षेभ्यः । वि॒धेम॑ ह॒विषा॑ व॒यम् ॥ {2}
विश्वा॒ आशा॒ मधु॑ना॒ सꣳसृ॑जामि । अ॒न॒मी॒वा आप॒ ओष॑धयो भवन्तु ।
अ॒यं ँयज॑मानो॒ मृधो॒ व्य॑स्यताम् । अगृ॑भीताः प॒शवः॑ सन्तु॒ सर्वे᳚ ॥ {3}
(Both {2} and {3} appearing in T.B.2.5.3.3)
-------------------
T.B.3.7.9.5 - "miqtro janAqn{4}" "pra sa mi#tra{5}"
मि॒त्रो जनान्॑ यातयति प्रजा॒नन् मि॒त्रो दा॑धार पृथि॒वीमु॒त द्यां ।
मि॒त्रः कृ॒ष्टीरनि॑मिषा॒ऽभि च॑ष्टे स॒त्याय॑ ह॒व्यं घृ॒तव॑द्-विधेम ॥ {4}
प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्. यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ ।
न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मꣳहो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ॥ {5}
(Both {4} and {5} appearing in T.S.3.4.11.5
-------------------------------------------------------------
T.B.3.7.11.2 - "udvaqyaM tama#saqspari#{6}"
उद्व॒यं तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रं ।
दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मं ॥ {6}
(Appearing in T.S.4.1.7.4)
-------------------------------------------------------------
T.B.3.7.11.2 - "uduq tyaM{7}" "ciqtraM{8}"
उदु॒ त्यं जा॒तवे॑दसं दे॒वं ँव॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्यं᳚ ॥ {7}
चि॒त्रं दे॒वाना॒-मुद॑गा॒दनी॑कं॒ चक्षु॑र् मि॒त्रस्य॒ वरु॑णस्या॒ऽग्नेः ।
आऽ प्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ꣳ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ {8}
( Both {7} and {8] appearing in T.S.1.4.43.1)
-------------------------------------------------------------
T.B.3.7.11.3 - "iqmaM me# varuNaq{9}" "tattvA# yAmi{10}"
इ॒मं मे॑ वरुण शृधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युरा च॑के ॥ {9}
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒-स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥ {10}
( Both {9} and {10] appearing in T.S.2.1.11.6)
-------------------------------------------------------------
T.B.3.7.11.3 - "tvaM no# agneq{11}" "sa tvaM no# agne{12}"
त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडोऽव॑ यासि सीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑ तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषाꣳ॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ॥ {11}
स त्वन्नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।
अव॑ यक्ष्व नो॒ वरु॑ण॒ꣳ॒ ररा॑णो वी॒हि मृ॑डी॒कꣳ सु॒हवो॑ न एधि ॥ {12}
( Both {11} and {12] appearing in T.S.2.5.12.3)
-------------------------------------------------------------
T.B.3.7.11.3 - "tvama#gne aqyA&siq{13}" "prajA#pate{14}"
त्वम॑ग्ने अ॒याऽसि॑ । अ॒या सन्मन॑सा हि॒तः । अ॒या सन्.ह॒व्यमू॑हिषे ।
अ॒या नो॑ धेहि भेष॒जम् । इ॒ष्टो अ॒ग्निराहु॑तः । स्वाहा॑कृतः पिपर्तु नः ।
स्व॒गा दे॒वेभ्य॑ इ॒दं नमः॑ ॥ {13} ({13} appearing in T.B.2.4.1.9)
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यᳺ स्या॑म॒ पत॑यो रयी॒णाम् ॥ {14}
( {14} appearing in T.S.1.8.14.2)
-------------------------------------------------------------
T.B. 3.7.12.6 - "इ॒मं मे॑ वरुण॒{15}" "तत्त्वा॑ यामि{16}"
Item mo.{15} is same as {9} above
Item mo.{16} is same as {10} above
-------------------------------------------------------------
T.B.3.7.12.6 - "tvaM no# agneq{17}" "sa tvaM no# agne{18}"
Item mo.{17} is same as {11} above
Item mo.{18} is same as {12} above
-------------------------------------------------------------
T.B.3.7.12.6- "tvama#gne aqyA&si#{19}"
Item mo.{19} is same as {13} above
-------------------------------------------------------------
T.B.3.7.13.4 - "ApyA#yasvaq{20}" "saM te${21}"
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यं ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥ {20}
सं ते॒ पयाꣳ॑सि॒ समु॑ यन्तु॒ वाजाः॒ सं ँवृष्णि॑या-न्यभिमाति॒षाहः॑ ।
आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवाᳺ॑स्युत्त॒मानि॑ धिष्व ॥ {21}
(Both {20} and {21} appearing in TS 4.2.7.4)
-------------------------------------------------------------
++++++++++++++++++++++
ओं नमः परमात्मने, श्री महागणपतये नमः
श्री गुरुभ्यो नमः, ह॒रिः॒ ओं
3. कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टकं