तैत्तिरीय ब्राह्मणे तृतीयाष्टके अष्टमः प्रपाठकः (अश्वमेधं-वैश्वदेवम्)

कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणम् (TB 3.8)
Generated: 04-10-2026 15:15:17

1. अश्वमेधं-वैश्वदेवम्

(अश्वमेधब्राह्मणं वैश्वदेवं काण्डं)

3.8.1 साङ्ग्रहण्येष्ट्यादयः याजमानसंस्काराः T.B. 3.8.1

T.B.3.8.1.1

सा॒ङ्ग्र॒ह॒ण्येष्ट्या॑ यजते । इ॒मां ज॒नता॒ꣳ॒ सङ्ग॑ह्णा॒नीति॑ ॥

द्वाद॑शारत्नी रश॒ना भ॑वति । द्वाद॑श॒ मासाः᳚ सम् ँवथ्स॒रः ।

स॒म् ँव॒थ्स॒रमे॒वा व॑रुन्धे । मौ॒ञ्जी भ॑वति । ऊर्ग्वै मुञ्जाः᳚ ।

ऊर्ज॑मे॒ वा व॑रुन्धे ॥ चि॒त्रा नक्ष॑त्रं भवति । चि॒त्रं ँवा ए॒तत्कर्म॑ । 1(10)

T.B.3.8.1.2

यद॑श्वमे॒धः समृ॑द्ध्यै ॥ पुण्य॑नाम देव॒यज॑न-म॒द्ध्यव॑स्यति ।

पुण्या॑मे॒व तेन॑ की॒र्तिम॒भिज॑यति ॥

अप॑दाती-नृ॒त्विजः॑ स॒माव॑ह॒न्त्या सु॑ब्रह्म॒ण्यायाः᳚ ।

सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ के॒श॒श्म॒शृ व॑पते ।

न॒खानि॒ निकृ॑न्तते । द॒तो धा॑वते । स्नाति॑ । अह॑तं॒ ँवासः॒ परि॑धत्ते ( ) ।

पा॒प्मनोऽप॑हत्यै । वाचं॑ ँय॒त्वोप॑वसति । सु॒व॒र्गस्य॑ लो॒कस्य॒ गुप्त्यै᳚ ।

रात्रिं॑ जाग॒रय॑न्त आसते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 2 (15)

(कर्म॑ - धत्ते॒ पञ्च॑ च) (A1)

3.8.2 ब्रह्मौदनाभिधानम् T.B. 3.8.2

T.B.3.8.2.1

चतु॑ष्टय्य॒ आपो॑ भवन्ति ।

चतु॑श्शफो॒ वा अश्वः॑ प्राजाप॒त्यः समृ॑द्ध्यै ॥

ता दि॒ग्भ्यः स॒माभृ॑ता भवन्ति । दि॒क्षु वा आपः॑ ।

अन्नं॒ ँवा आपः॑ । अ॒द्भ्यो वा अन्नं॑ जायते । यदे॒वाद्भ्योऽन्नं॒ जाय॑ते ।

तदव॑रुन्धे ॥ तासु॑ ब्रह्मौद॒नं प॑चति । रेत॑ ए॒व तद्द॑धाति ॥ 3 (10)

T.B.3.8.2.2

चतु॑श्शरावो भवति । दि॒क्ष्वे॑व प्रति॑तिष्ठति ॥ उ॒भ॒यतो॑ रु॒क्मौ भ॑वतः ।

उ॒भ॒यत॑ ए॒वास्मि॒न्-रुचं॑ दधाति । उद्ध॑रति शृत॒त्वाय॑ ।

स॒र्पिष्वा᳚न् भवति मेद्ध्य॒त्वाय॑ । च॒त्वार॑ आर्.षे॒याः प्राश्ञ॑न्ति ।

दि॒शामे॒व ज्योति॑षि जुहोति । च॒त्वारि॒ हिर॑ण्यानि ददाति ।

दि॒शाम॒व ज्योती॒ᳺ॒ष्य व॑रुन्धे ॥ 4 (10)

T.B.3.8.2.3

यदाज्य॑-मु॒च्छिष्य॑ते । तस्मि॑न्-रश॒नां न्यु॑नत्ति । प्र॒जाप॑ति॒र्वा ओ॑द॒नः ।

रेत॒ आज्य᳚म् । यदाज्ये॑ रश॒नां न्यु॒नत्ति॑ ।

प्र॒जाप॑तिमे॒व रेत॑सा॒ सम॑द्‌र्धयति ॥

द॒र्भ॒मयी॑ रश॒ना भ॑वति ।

ब॒हु वा ए॒ष कु॑च॒रो॑-ऽमे॒द्ध्यमुप॑गच्छति ।

यदश्वः॑ । प॒वित्रं॒ ँवै द॒र्भाः । 5 (10)

T.B.3.8.2.4

यद्द॑र्भ॒मयी॑ रश॒ना भव॑ति । पु॒नात्ये॒वैन᳚म् । पू॒तमे॑नं॒ मेद्ध्य॒-माल॑भते ॥

अश्व॑स्य॒ वा आल॑ब्धस्य महि॒मोद॑-क्रामत् । स म॒हर्त्वि॑जः॒ प्रावि॑शत् ।

तन्म॒हर्त्वि॑जां महर्त्वि॒क्त्वम् । यन्म॒हर्त्वि॑जः प्रा॒श्ञन्ति॑ ।

म॒हि॒मान॑-मे॒वास्मि॒न्-तद्द॑धति ॥

अश्व॑स्य॒ वा आल॑ब्धस्य॒ रेत॒ उद॑क्रामत् ।

तथ्सु॒वर्ण॒ꣳ॒ हिर॑ण्य-मभवत् ( ) । यथ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यं॒ ददा॑ति ।

रेत॑ ए॒व तद्द॑धाति ॥ ओ॒द॒ने द॑दाति । रेतो॒ वा ओ॑द॒नः ।

रेतो॒ हिर॑ण्यम् । रेत॑सै॒वास्मि॒न् रेतो॑ दधाति ॥ 6 (16)

(द॒धा॒ति॒ - रु॒न्धे॒ - द॒र्भा - अ॑भव॒थ् षट्च॑) (A2)

3.8.3 रशनयाऽश्वबन्धनम् T.B. 3.8.3

T.B.3.8.3.1

यो वै ब्रह्म॑णे दे॒वेभ्यः॑ प्र॒जाप॑त॒ये-ऽप्र॑ति-प्रो॒च्याश्वं॒ मेद्ध्यं॑ ब॒द्ध्नाति॑ ।

आ दे॒वता᳚भ्यो वृश्च्यते । पापी॑यान्भवति । यः प्र॑ति॒प्रोच्य॑ ।

न दे॒वता᳚भ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति ॥ यदाह॑ ।

ब्रह्म॒न्नश्वं॒ मेद्ध्यं॑ भन्थ्स्यामि दे॒वेभ्यः॑ प्र॒जाप॑तये॒ तेन॑ राद्ध्यास॒मिति॑ ।

ब्रह्म॒ वै ब्र॒ह्मा ।

ब्रह्म॑ण ए॒व दे॒वेभ्यः॑ प्र॒जाप॑तये प्रति॒प्रोच्याश्वं॒ मेद्ध्यं॑ बद्ध्नाति । 7 (10)

T.B.3.8.3.2

न दे॒वता᳚भ्य॒ आवृ॑श्च्यते । वसी॑यान् भवति ॥

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ रश॒ना-माद॑त्ते॒ प्रसू᳚त्यै ।

अ॒श्विनो᳚-र्बा॒हुभ्या॒-मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑-मद्ध्व॒र्यू आस्ता᳚म् ।

पू॒ष्णो हस्ता᳚भ्या॒-मित्या॑ह॒ यत्यै᳚ ॥

व्यृ॑द्धं॒ ँवा ए॒तद्य॒ज्ञस्य॑ । यद॑य॒जुष्के॑ण क्रि॒यते᳚ ।

इ॒माम॑गृभ्णन्-रश॒ना-मृ॒तस्ये-त्यधि॑ वदति॒ यजु॑ष्कृत्यै ।

य॒ज्ञस्य॒ समृ॑द्ध्यै ॥ 8 (10)

T.B.3.8.3.3

तदा॑हुः । द्वाद॑शारत्नी रश॒ना क॑र्त॒व्या(3) त्रयो॑दशार॒त्नी(3)रिति॑ ।

ऋ॒ष॒भो वा ए॒ष ऋ॑तू॒नाम् । यथ्स॑म् ँवथ्स॒रः ।

तस्य॑ त्रयोद॒शो मासो॑ वि॒ष्टप᳚म् । ऋ॒ष॒भ ए॒ष य॒ज्ञाना᳚म् ।

यद॑श्वमे॒धः । यथा॒ वा ऋ॑ष॒भस्य॑ वि॒ष्टप᳚म् । ए॒वमे॒तस्य॑ वि॒ष्टप᳚म् ।

त्र॒यो॒द॒शम॑र॒त्निꣳ र॑श॒नाया॑-मु॒पाद॑धाति । 9 (10)

T.B.3.8.3.4

यथ॑र्.ष॒भस्य॑ वि॒ष्टपꣳ॑ सᳺस्क॒रोति॑ । ता॒दृगे॒व तत् ॥

पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्येत्या॑ह । आयु॑रे॒वास्मि॑न् दधाति ॥

तया॑ दे॒वाः सु॒तमाब॑भूवु॒-रित्या॑ह । भूति॑मे॒वोपाव॑र्तते ॥

ऋ॒तस्य॒ सामन᳚थ् स॒रमा॒रप॒न्तीत्या॑ह । स॒त्यं ँवा ऋ॒तम् ।

स॒त्येनै॒वैन॑ मृ॒तेनार॑भते ॥ अ॒भि॒धा अ॒सीत्या॑ह । 10 (10)

T.B.3.8.3.5

तस्मा॑-दश्वमेधया॒जी सर्वा॑णि भू॒तान्य॒भि भ॑वति । भुव॑न-म॒सीत्या॑ह ।

भू॒मान॑-मे॒वोप॑ति । य॒न्ता-ऽसीत्या॑ह । य॒न्तार॑मे॒वैनं॑ करोति ।

ध॒र्ताऽसीत्या॑ह । ध॒र्तार॑मे॒वैनं॑ करोति । सो᳚ऽग्निं ँवै᳚श्वान॒र-मित्या॑ह ।

अ॒ग्ना-वे॒वैनं॑ ँवैश्वान॒रे जु॑होति । सप्र॑थस॒मित्या॑ह । 11 (10)

T.B.3.8.3.6

प्र॒जयै॒वैनं॑ प॒शुभिः॑ प्रथयति । स्वाहा॑कृत॒ इत्या॑ह । होम॑ ए॒वास्य॒षः ।

पृ॒थि॒व्या-मित्या॑ह । अ॒स्यामे॒वैनं॒ प्रति॑ष्ठापयति ।

य॒न्ता राड्य॒न्ताऽसि॒ यम॑नो ध॒र्ताऽसि॑ ध॒रुण॒ इत्या॑ह ।

रू॒पमे॒वास्यै॒-तन्म॑हि॒मानं॒ ँव्याच॑ष्टे ।

कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य॒ त्वेत्या॑ह ।

आ॒शिष॑मे॒वैतामाशा᳚स्ते ॥

स्व॒गा त्वा॑ दे॒वेभ्य॒ इत्या॑ह ( ) । दे॒वेभ्य॑ ए॒वैनᳺ॑ स्व॒गा क॑रोति ।

स्वाहा᳚ त्वा प्र॒जाप॑तय॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ ।

यस्या॑ ए॒व दे॒वता॑या आल॒भ्यत᳚ । तयै॒वैन॒ꣳ॒ सम॑द्‌र्धयति ॥ 12 (15)

(ब॒ध्ना॒ति॒ - समृ॑द्ध्या - उ॒पद॑धा - त्य॒सीत्या॑ह॒ - सप्र॑थस॒मीत्या॑ह - दे॒वेभ्य॒ इत्या॑ह॒ पञ्च॑ च) (A3)

3.8.4 अश्वस्य जलेऽवगाहनम् T.B. 3.8.4

T.B.3.8.4.1

यः पि॒तुर॑नु॒जायाः᳚ पु॒त्रः । स पु॒रस्ता᳚न्नयति ।

यो मा॒तुर॑नु॒जायाः᳚ पु॒त्रः । स प॒श्चान्न॑यति ।

विष्व॑ञ्चमे॒वास्मा᳚त्-पा॒प्मानं॒ ँविवृ॑हतः ॥

यो अर्व॑न्तं॒ जिघाꣳ॑सति॒ तम॒भ्य॑मीति॒ वरु॑ण॒ इति॒ श्वानं॑

चतुर॒क्षं प्रसौ॑ति ।

प॒रो मर्तः॑ प॒रः श्वेति॒ शुन॑श्चतु-र॒क्षस्य॒ प्रह॑न्ति ।

श्वेव॒ वै पा॒प्मा भ्रातृ॑व्यः । पा॒प्मान॑-मे॒वास्य॒ भ्रातृ॑व्यꣳ हन्ति ॥

सै॒द्ध्र॒कं मुस॑लं भवति । 13 (10)

T.B.3.8.4.2

कर्म॑ कर्मै॒वास्मै॑ साधयति ॥ पौ॒ᳺ॒श्च॒ले॒यो ह॑न्ति ।

पु॒ᳺ॒श्च॒ल्वां ँवै दे॒वाः शुचं॒ न्य॑दधुः । शु॒चैवास्य॒ शुचꣳ॑ हन्ति ॥

पा॒प्मा वा ए॒तमी᳚फ्स॒-तीत्या॑हुः । यो᳚ऽश्वमे॒धेन॒ यज॑त॒ इति॑ ।

अश्व॑स्याधस्प॒दमुपा᳚स्यति । व॒ज्री वा अश्वः॑ प्राजाप॒त्यः ।

वज्रे॑णै॒व पा॒प्मानं॒ भ्रातृ॑व्य॒-मव॑क्रामति ॥

द॒क्षि॒णा-ऽप॑प्लावयति । 14(10)

T.B.3.8.4.3

पा॒प्मान॑-मे॒वास्मा॒-च्छम॑ल॒-मप॑प्लावयति ॥ ऐ॒षी॒क उ॑दू॒हो भ॑वति ।

आयु॒र्वा इ॒षीकाः᳚ । आयु॑रे॒-वास्मि॑न् दधति । अ॒मृतं॒ ँवा इ॒षीकाः᳚ ।

अ॒मृत॑मे॒-वास्मि॑न् दधति ॥ वे॒त॒स॒शा॒खोप॒संब॑द्धा भवति ।

अ॒फ्सु-यो॑नि॒र्वा अश्वः॑ । अ॒फ्सु॒जो वे॑त॒सः ।

स्वादे॒वैनं॒ ँयोने॒र्निर्मि॑मीते ( ) ॥ पु॒रस्ता᳚त्-प्र॒त्यञ्च॑-म॒भ्युदू॑हति ।

पु॒रस्ता॑-दे॒वास्मि॑न् प्र॒तीच्य॒ मृतं॑ दधाति ॥

अ॒हं च॒ त्वं च॑ वृत्रह॒न्निति॑ ब्र॒ह्मा यज॑मानस्य॒ हस्तं॑ गृह्णाति ।

ब्र॒ह्म॒क्ष॒त्रे ए॒व सन्द॑धाति ।

अ॒भि क्रत्वे᳚न्द्र भू॒रध॒ ज्मन्नित्य॑-ध्व॒र्यु-र्यज॑मानं

 ँवाचयत्य॒-भिजि॑त्यै ॥ 15 (15)

(भ॒व॒ति॒ - प्ला॒व॒य॒ति॒ - मि॒मी॒ते॒ पञ्च॑ च) (A4)

3.8.5 अश्वस्य प्रोक्षणं महर्त्विजाम् T.B. 3.8.5

T.B.3.8.5.1

च॒त्वार॑ ऋ॒त्विजः॒ समु॑क्षन्ति ।

आ॒भ्य ए॒वैनं॑ चत॒सृभ्यो॑ दि॒ग्भ्यो॑-ऽभिसमी॑रयन्ति ॥

श॒तेन॑ राजपु॒त्रैः स॒हाद्ध्व॒र्युः ।

पु॒रस्ता᳚त्-प्र॒त्यङ्तिष्ठ॒न् प्रोक्ष॑ति । अ॒नेनाश्वे॑न॒ मेद्ध्ये॑ने॒ष्ट्वा ।

अ॒यꣳ राजा॑ वृ॒त्रं ँव॑द्ध्या॒दिति॑ । रा॒ज्यं ँवा अ॑द्ध्व॒र्युः ।

क्ष॒त्रꣳ रा॑जपु॒त्रः । रा॒ज्येनै॒-वास्मि॑न् क्ष॒त्रं द॑धाति ॥

श॒तेना॑-रा॒जभि॑रु॒ग्रैः स॒ह ब्र॒ह्मा । 16 (10)

T.B.3.8.5.2

द॒क्षि॒ण॒त उद॒ङ्तिष्ठ॒न् प्रोक्ष॑ति । अ॒नेनाश्वे॑न॒ मेद्ध्ये॑ने॒ष्ट्वा ।

अ॒यꣳ राजा᳚-ऽप्रतिधृ॒ष्यो᳚-ऽस्त्विति॑ । बलं॒ ँवै ब्र॒ह्मा ।

बल॑मरा॒जोग्रः । बल॑नै॒-वास्मि॒न् बलं॑ दधाति ॥

श॒तेन॑ सूतग्राम॒णिभिः॑ स॒ह होता᳚ । प॒श्चात्-प्राङ्तिष्ठ॒न् प्रोक्ष॑ति ।

अ॒नेनाश्वे॑न॒ मेद्ध्ये॑ने॒ष्ट्वा । अ॒यꣳ राजा॒ऽस्यै वि॒शः । 17 (10)

T.B.3.8.5.3

ब॒हु॒ग्वै ब॑ह्व॒श्वायै॑ बह्वजावि॒कायै᳚ । ब॒हु॒व्री॒हि॒य॒वायै॑ बहुमाषति॒लायै᳚ ।

ब॒हु॒हि॒र॒ण्यायै॑ बहुह॒स्तिका॑यै । ब॒हु॒दा॒स॒पू॒रु॒षायै॑ रयि॒मत्यै॒ पुष्टि॑मत्यै ।

ब॒हु॒रा॒य॒स्पो॒षायै॒ राजा॒ऽस्त्विति॑ । भू॒मा वै होता᳚ । भू॒मा सू॑तग्राम॒ण्यः॑ ।

भू॒म्नैवास्मि॑न् भू॒मानं॑ दधाति ॥ श॒तेन॑ क्षत्त-सङ्ग्रही॒तृभिः॑ स॒होद्गा॒ता ।

उ॒त्त॒र॒तो द॑क्षि॒णा तिष्ठ॒न् प्रोक्ष॑ति । 18 (10)

T.B.3.8.5.4

अ॒नेनाश्वे॑न॒ मेद्ध्ये॑ ने॒ष्ट्वा । अ॒यꣳ राजा॒ सर्व॒मायु॑रे॒त्विति॑ ।

आयु॒र्वा उ॑द्गा॒ता । आयुः॑ क्षत्त-सङ्ग्रही॒तारः॑ ।

आयु॑षै॒-वास्मि॒न्नायु॑-र्दधाति ॥ श॒तꣳ श॑तं भवन्ति ।

श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः ।

आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ॥ च॒तुः॒ श॒ता भ॑वन्ति ।

चत॑स्रो॒ दिशः॑ ( ) । दि॒क्ष्वे॑व प्रति॑तिष्ठति ॥ 19 (11)

(ब्र॒ह्मा - वि॒श - उ॑क्षति॒ - दिश॒ एकं॑ च) (A5)

3.8.6 भूमौ पततां बिन्दूनामभिमन्त्रणम् T.B. 3.8.6

T.B.3.8.6.1

यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वं ँवा ए॒तदश्व॑स्य स्कन्दति ।

यन्नि॒क्तमना॑-लब्ध-मुथ्सृ॒जन्ति॑ । यथ्स्तोक्या॑ अ॒न्वाह॑ ।

स॒र्व॒हुत॑-मे॒वैनं॑ करो॒त्य-स्क॑न्दाय । अस्क॑न्न॒ꣳ॒ हि तत् ।

यद्धु॒तस्य॒ स्कन्द॑ति ॥ स॒हस्र॒-मन्वा॑ह । स॒हस्र॑ सम्मितः सुव॒र्गो लो॒कः ।

सु॒व॒र्गस्य॑ लो॒कस्या॒-भिजि॑त्यै ॥ 20 (10)

T.B.3.8.6.2

यत्परि॑मिता अनुब्रू॒यात् । परि॑मित॒मव॑रुन्धीत । अप॑रिमिता॒ अन्वा॑ह ।

अप॑रिमितः सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥

स्तोक्या॑ जुहोति । या ए॒व वर्ष्या॒ आपः॑ । ता अव॑रुन्धे ॥

अ॒स्यां जु॑होति । इ॒यं ँवा अ॒ग्निर्वै᳚श्वान॒रः । 21 (10)

T.B.3.8.6.3

अ॒स्यामे॒वैनाः॒ प्रति॑ष्ठापयति ॥ उ॒वाच॑ ह प्र॒जाप॑तिः ।

स्तोक्या॑सु॒ वा अ॒हम॑श्वमे॒धꣳ सᳺस्था॑पयामि ।

तेन॒ ततः॒ सᳺस्थि॑तेन चरा॒मीति॑ ॥ अ॒ग्नये॒ स्वाहेत्या॑ह ।

अ॒ग्नय॑ ए॒वैनं॑ जुहोति ॥ सोमा॑य॒ स्वाहेत्या॑ह । सोमा॑यै॒वैनं॑ जुहोति ।

स॒वि॒त्रे स्वाहेत्या॑ह । स॒वि॒त्र ए॒वैनं॑ जुहोति । 22 (10)

T.B.3.8.6.4

सर॑स्वत्यै॒ स्वाहेत्या॑ह । सर॑स्वत्या ए॒वैनं॑ जुहोति । पू॒ष्णे स्वाहेत्या॑ह ।

पू॒ष्ण ए॒वैनं॑ जुहोति । बृह॒स्पत॑ये॒ स्वाहेत्या॑ह ।

बृह॒स्पत॑य ए॒वैनं॑ जुहोति । अ॒पां मोदा॑य॒ स्वाहेत्या॑ह ।

अ॒द्भ्य ए॒वैनं॑ जुहोति । वा॒यवे॒ स्वाहेत्या॑ह ।

वा॒यव॑ ए॒वैनं॑ जुहोति । 23 (10)

T.B.3.8.6.5

मि॒त्राय॒ स्वाहेत्या॑ह । मि॒त्रायै॒वैनं॑ जुहोति । वरु॑णाय॒ स्वाहेत्या॑ह ।

वरु॑णायै॒वैनं॑ जुहोति ॥ ए॒ताभ्य॑ ए॒वैनं॑ दे॒वता᳚भ्यो जुहोति ॥

दश॑ दश स॒पान्दं॑ जुहोति । दशा᳚क्षरा वि॒राट् । अन्नं॑ ँवि॒राट् ।

वि॒राजै॒-वान्नाद्य॒मव॑रुन्धे ॥ प्र वा ए॒षो᳚-ऽस्माल्लो॒का-च्च्य॑वते ( ) ।

यः परा॑ची॒राहु॑ती-र्जु॒होति॑ । पुनः॑ पुनरभ्या॒वर्तं॑ जुहोति ।

अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति ॥

ए॒ताꣳ ह॒ वाव सो᳚ऽश्वमे॒धस्य॒ सᳺस्थि॑ति मुवा॒चा-स्क॑न्दाय ।

अस्क॑न्न॒ꣳ॒ हि तत् ।

यद्य॒ज्ञस्य॒ सᳺस्थि॑तस्य॒ स्कन्द॑ति ॥ 24 (16)

(अ॒भिजि॑त्यै - वैश्वान॒रः - स॑वि॒त्र ए॒वैन॑म् जुहोति - वा॒यव॑ ए॒वैन॑म् जुहोति - च्यवते॒ षट्च॑) (A6)

3.8.7 अथाध्वर्युप्रोक्षणम् T.B. 3.8.7

T.B.3.8.7.1

प्र॒जाप॑तये त्वा॒ जुष्टं॒ प्रोक्षा॒मीति॑ पु॒रस्ता᳚त्-प॒त्यङ्तिष्ठ॒न् प्रोक्ष॑ति ।

प्र॒जाप॑ति॒र्वै दे॒वाना॑-मन्ना॒दो वी॒र्या॑वान् ।

अ॒न्नाद्य॑-मे॒वास्मि॑न् वी॒र्यं॑ दधाति ।

तस्मा॒दश्वः॑ पशू॒ना-म॑न्ना॒दो वी॒र्या॑वत्तमः ॥

इ॒न्द्रा॒ग्निभ्यां॒ त्वेति॑ दक्षिण॒तः ।

इ॒न्द्रा॒ग्नी वै दे॒वाना॒मोजि॑ष्ठौ॒ बलि॑ष्ठौ । ओज॑ ए॒वास्मि॒न् बलं॑ दधाति ।

तस्मा॒दश्वः॑ पशू॒नामोजि॑ष्ठो॒ बलि॑ष्ठः ॥ वा॒यवे॒ त्वेति॑ प॒श्चात् ।

वा॒युर्वै दे॒वाना॑मा॒शुः सा॑रसा॒रित॑मः । 25 (10)

T.B.3.8.7.2

ज॒वमे॒वास्मि॑न्दधाति । तस्मा॒दश्वः॑ पशू॒नामा॒शुः सा॑रसा॒रित॑मः ॥

विश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्यु॑त्तर॒तः । विश्वे॒ वै दे॒वा दे॒वानां᳚ ँयश॒स्वित॑माः ।

यश॑ ए॒वास्मि॑न्दधाति । तस्मा॒दश्वः॑ पशू॒नां ँय॑श॒स्वित॑मः ॥

दे॒वेभ्य॒-स्त्वेत्य॒धस्ता᳚त् । दे॒वा वै दे॒वाना॒-मप॑चिततमाः ।

अप॑चिति-मे॒वास्मि॑-न्दधाति ।

तस्मा॒दश्वः॑ पशू॒ना-मप॑चिततमः ॥ 26 (10)

T.B.3.8.7.3

सर्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्यु॒परि॑ष्टात् । सर्वे॒ वै दे॒वास्त्विषि॑मन्तो हर॒स्विनः॑ ।

त्विषि॑मे॒-वास्मि॒न्॒. हरो॑ दधाति ।

तस्मा॒दश्वः॑ पशू॒नां त्विषि॑मान्. हर॒स्वित॑मः ॥

दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेत्या॑ह ।

ए॒भ्य ए॒वैनं॑ ँलो॒केभ्यः॒ प्रोक्ष॑ति ॥

स॒ते त्वाऽस॑ते त्वा॒-ऽद्भ्यस्त्वौ-ष॑धीभ्यस्त्वा॒ विश्वे᳚भ्यस्त्वा

भू॒तेभ्य॒ इत्या॑ह ।

तस्मा॑दश्वमेधया॒जिन॒ꣳ॒ सर्वा॑णि भू॒तान्युप॑ जीवन्ति ॥

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यत्प्रा॑जाप॒त्योऽश्वः॑ ( ) ।

अथ॒ कस्मा॑देन-म॒न्याभ्यो॑ दे॒वता॒भ्योऽपि॒ प्रोक्ष॒तीति॑ ।

अश्वे॒ वै सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः ।

तं ँयद्विश्वे᳚भ्यस्त्वा भू॒तेभ्य॒ इति॑ प्रा॒क्षति॑ ।

दे॒वता॑ ए॒वास्मि॑न्-न॒न्वाया॑तयति ।

तस्मा॒दश्वे॒ सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः ॥ 27 (15)

(सा॒र॒सा॒रित॒मो - ऽप॑चिततमः - प्राजाप॒त्योऽश्वः॒ पञ्च॑ च) (A7)

3.8.8 अश्वचरितानामश्वरूपाणां च होमाः T.B. 3.8.8

T.B.3.8.8.1

यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वं ँवा ए॒तदश्व॑स्य स्कन्दति ।

यत्प्रोक्षि॑त॒-मना॑लब्ध-मुथ्सृ॒जन्ति॑ । यद॑श्व-चरि॒तानि॑ जु॒होति॑ ।

स॒र्व॒हुत॑-मे॒वैनं॑ करो॒त्य-स्क॑न्दाय । अस्क॑न्न॒ꣳ॒ हि तत् ।

यद्धु॒तस्य॒ स्कन्द॑ति ॥ ईं॒का॒राय॒ स्वाहें कृ॑ताय॒ स्वाहेत्या॑ह ।

ए॒तानि॒ वा अ॑श्वचरि॒तानि॑ । च॒रि॒तैरे॒वैन॒ꣳ॒ सम॑द्‌र्धयति ॥ 28 (10)

T.B.3.8.8.2

तदा॑हुः । अना॑हुतयो॒ वा अ॑श्वचरि॒तानि॑ । नैता हो॑त॒व्या॑ इति॑ ।

अथो॒ खल्वा॑हुः । हो॒त॒व्या॑ ए॒व । अत्र॒ वावैवं ँवि॒द्वान॑श्वमे॒धꣳ

सᳺस्था॑पयति । यद॑श्व-चरि॒तानि॑ जु॒होति॑ । तस्मा᳚-द्धोत॒व्या॑ इति॑ ॥

ब॒हि॒द्‌र्धा वा ए॑नमे॒तदा॒यत॑नाद्-दधाति ।

भ्रातृ॑व्यमस्मै जनयति । 29 (10)

T.B.3.8.8.3

यस्या॑ नायत॒ने᳚-ऽन्यत्रा॒ग्ने-राहु॑तीर् जु॒होति॑ ।

सा॒वि॒त्रि॒या इष्ट्याः᳚ पु॒रस्ता᳚थ्स्विष्ट॒ कृतः॑ ।

आ॒ह॒व॒नीये᳚-ऽश्वचरि॒तानि॑ जुहोति ।

आ॒यत॑न ए॒वास्याहु॑तीर् जुहोति । नास्मै॒ भ्रातृ॑व्यं जनयति ॥ तदा॑हुः ।

य॒ज्ञ॒मु॒खे य॑ज्ञमुखे होत॒व्याः᳚ । य॒ज्ञस्य॒ क्लृप्त्यै᳚ ।

सु॒व॒र्गस्य॑ लो॒कस्या-नु॑ख्यात्या॒ इति॑ ॥ अथो॒ खल्वा॑हुः । 30 (10)

T.B.3.8.8.4

यद्य॑ज्ञमु॒खे य॑ज्ञमुखे जुहु॒यात् । प॒शुभि॒-र्यज॑मानं॒ ँव्य॑द्‌र्धयेत् ।

अव॑ सुव॒र्गाल्लो॒का-त्प॑द्येत । पापी॑यान् थ्स्या॒दिति॑ ।

स॒कृदे॒व हो॑त॒व्याः᳚ । न यज॑मानं प॒शुभि॒-र्व्य॑द्‌र्धयति ।

अ॒भि सु॑व॒र्गं ँलो॒कं ज॑यति । न पापी॑यान् भवति ॥

अ॒ष्टाच॑त्वारिꣳशतमश्व रू॒पाणि॑ जुहोति ।

अ॒ष्टाच॑त्वारिꣳशदक्षरा॒ जग॑ती ( ) । जाग॒तोऽश्वः॑ प्राजाप॒त्यः समृ॑द्ध्यै ॥

एक॒मति॑रिक्तं जुहोति । तस्मा॒देकः॑ प्र॒जास्वद्‌र्धु॑कः ॥ 31 (13)

(अ॒द्‌र्ध॒य॒ति॒ - ज॒न॒य॒ति॒ - खल्वा॑हु॒र् - जग॑ती॒ त्रीणि॑ च) (A8)

3.8.9 अश्वस्य नाम्नामभिवाचनं, उथ्सर्गश्च T.B. 3.8.9

T.B.3.8.9.1

वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्रेत्या॑ह । इ॒यं ँवै मा॒ता । अ॒सौ पि॒ता ।

आ॒भ्यामे॒वैनं॒ परि॑ददाति ॥ अश्वो॑ऽसि॒ हयो॒ऽसीत्या॑ह ।

शास्त्ये॒वैन॑मे॒तत् । तस्मा᳚च्छि॒ष्टाः प्र॒जा जा॑यन्ते ॥ अत्यो॒ऽसीत्या॑ह ।

तस्मा॒दश्वः॒ सर्वा᳚न् प॒शूनत्ये॑ति ।

तस्मा॒दश्वः॒ सर्वे॑षां पशू॒नाᳺ श्रैष्ठ्‌यं॑ गच्छति ॥ 32 (10)

T.B.3.8.9.2

प्र यशः॒ श्रैष्‌ठ्य॑माप्नोति । य ए॒वं ँवेद॑ ॥

नरो॒ऽस्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्या॑ह ।

रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ ँव्याच॑ष्टे ॥

ययु॒र्नामा॒-ऽसीत्या॑ह । ए॒तद्वा अश्व॑स्य प्रि॒यं ना॑म॒धेय᳚म् ।

प्रि॒येणै॒वैनं॑ नाम॒धेये॑ना॒भिव॑दति । तस्मा॒दप्या॑मि॒त्रौ स॒गन्त्य॑ ।

नाम्ना॒ चेद्ध्वये॑ते । मि॒त्रमे॒व भ॑वतः ॥ 33 (10)

T.B.3.8.9.3

आ॒दि॒त्यानां॒ पत्वा-ऽन्वि॒हीत्या॑ह । आ॒दि॒त्याने॒वैनं॑ गमयति ॥

अ॒ग्नये॒ स्वाहा॒ स्वाहे᳚न्द्रा॒ग्निभ्या॒मिति॑ पूर्वहो॒मा-ञ्जु॑होति ।

पूव॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒-मति॑क्रामति ॥

भूर॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वेत्युथ्सृ॑जति सर्व॒त्वाय॑ ॥

देवा॑ आशापाला ए॒तं दे॒वेभ्योऽश्वं॒ मेधा॑य॒ प्रोक्षि॑तं गोपाय॒तेत्या॑ह ।

श॒तं ँवै तल्प्या॑ राजपु॒त्रा दे॒वा आ॑शापा॒लाः । तेभ्य॑ ए॒वैनं॒ परि॑ददाति ॥

ई॒श्व॒रो वा अश्वः॒ प्रमु॑क्तः॒ परां᳚ परा॒वतं॒ गन्तोः᳚ ।

इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒

स्वाहेति॑ चतृ॒षु प॒थ्सु जु॑होति । 34 (10)

T.B.3.8.9.4

ए॒ता वा अश्व॑स्य॒ बन्ध॑नम् । ताभि॑रे॒वैनं॑ बद्ध्नाति ।

तस्मा॒दश्वः॒ प्रमु॑क्तो॒ बन्ध॑न॒-माग॑च्छति ।

तस्मा॒दश्वः॒ प्रमु॑क्तो॒ बन्ध॑नं॒ न ज॑हाति ॥

रा॒ष्ट्रं ँवा अ॑श्वमे॒धः । रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते ।

येऽश्वं॒ मेद्ध्य॒ꣳ॒ रक्ष॑न्ति । तेषां॒ ँय उ॒दृचं॒ गच्छ॑न्ति ।

रा॒ष्ट्रादे॒व ते रा॒ष्ट्रं ग॑च्छन्ति । अथ॒ य उ॒दृचं॒ न गच्छ॑न्ति ( ) । 35 (10)

T.B.3.8.9.5

रा॒ष्ट्रादे॒व ते व्यव॑च्छिद्यन्ते । परा॒ वा ए॒ष सि॑च्यते ।

यो॑-ऽब॒लो᳚-ऽश्वमे॒धेन॒ यज॑ते । यद॒मित्रा॒ अश्वं॑ ँवि॒न्देरन्न्॑ ।

ह॒न्येता᳚स्य य॒ज्ञः । च॒तु॒श्श॒ता र॑क्षन्ति । य॒ज्ञस्याघाताय ॥

अथा॒न्य-मा॒नीय॒ प्रोक्षे॑युः । सैव ततः॒ प्राय॑श्चित्तिः ॥ 36 (9)

(ग॒च्छ॒ति॒ - भ॒व॒तः॒ - प॒थ्सु जु॑होति॒ - न गच्छ॑न्ति॒ - +नव॑ च) (A9)

3.8.10 दीक्षाभिधानम् तत्र वैश्वदेवहोमः T.B. 3.8.10

T.B.3.8.10.1

प्र॒जाप॑ति-रकामयताश्वमे॒धेन॑ यजे॒येति॑ । स तपो॑ऽतप्यत ।

तस्य॑ तेपा॒नस्य॑ । स॒प्तात्मनो॑ दे॒वता॒ उद॑क्रामन्न् ।

सा दी॒क्षा-ऽभ॑वत् । स ए॒तानि॑ वैश्वदे॒वान्य॑पश्यत् । तान्य॑ जुहोत् ।

तैर्वै स दी॒क्षामवा॑रुन्ध । यद्वै᳚श्व दे॒वानि॑ जु॒होति॑ ।

दी॒क्षामे॒व-तैर्यज॑मा॒नो-ऽव॑रुन्धे ॥ 37 (10)

T.B.3.8.10.2

स॒प्त जु॑होति । स॒प्त हि ता दे॒वता॑ उ॒दक्रा॑मन्न् ॥ अ॒न्व॒हं जु॑होति ।

अ॒न्व॒हमे॒व दी॒क्षामव॑रुन्धे ॥ त्रीणि॑ वैश्वदे॒वानि॑ जुहोति ।

च॒त्वार्यौ᳚द्ग्रह॒णानि॑ । स॒प्त सम्प॑द्यन्ते । स॒प्त वै शी॑र.ष॒ण्याः᳚ प्रा॒णाः ।

प्रा॒णा दी॒क्षा । प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑रुन्धे ॥ 38 (10)

T.B.3.8.10.3

एक॑विꣳशतिं ँवैश्वदे॒वानि॑ जुहोति । एक॑विꣳशति॒र्वै दे॑वलो॒काः ।

द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः ।

अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒शः ॥ ए॒ष सु॑व॒र्गो लो॒कः । तद्दैव्यं॑ क्ष॒त्त्रम् ।

सा श्रीः । तद्ब्र॒द्ध्नस्य॑ वि॒ष्टप᳚म् । तथ्स्वारा᳚ज्य-मुच्यते ॥ 39 (10)

T.B.3.8.10.4

त्रि॒ꣳ॒शत॑मौद्ग्रह॒णानि॑ जुहोति । त्रि॒ꣳ॒शद॑क्षरा वि॒राट् ।

अन्नं॑ ँवि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे ॥

त्रे॒धा वि॒भज्य॑ दे॒वतां᳚ जुहोति । त्र्या॑वृतो॒ वै दे॒वाः ।

त्र्या॑वृत इ॒मे लो॒काः । ए॒षां ँलो॒काना॒माप्त्यै᳚ ।

ए॒षां ँलो॒कानां॒ क्लृप्त्यै᳚ ॥

अप॒ वा ए॒तस्मा᳚त्प्रा॒णाः क्रा॑मन्ति । 40 (10)

T.B.3.8.10.5

यो दी॒क्षाम॑ति-रे॒चय॑ति । स॒प्ता॒हं प्रच॑रन्ति ।

स॒प्त वै शी॑र्.ष॒ण्याः᳚ प्रा॒णाः । प्रा॒णा दी॒क्षा ।

प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑रुन्धे ॥ पू॒र्णा॒हु॒ति-मु॑त्त॒मां जु॑होति ।

सर्वं॒ ँवै पू᳚र्णाहु॒तिः । सर्व॑मे॒वाप्नो॑ति । अथो॑ इ॒यं ँवै पू᳚र्णाहु॒तिः ।

अ॒स्यामे॒व प्रति॑तिष्ठति ( ) ॥ 41 (10)

(रु॒न्धे॒ - प्रा॒णान् दी॒क्षामव॑रुन्ध - उच्यते - क्रामन्ति - तिष्ठति) (A10)

3.8.11 वैश्वदेवहोममन्त्रव्याख्यानम् T.B. 3.8.11

T.B.3.8.11.1

प्र॒जाप॑ति-रश्वमे॒ध-म॑सृजत । तꣳ सृ॒ष्टं न किञ्च॒नोद॑यच्छत् ।

तं ँवै᳚श्वदे॒वान्ये॒-वोद॑यच्छन्न् । यद्वै᳚श्वदे॒वानि॑ जु॒होति॑ ।

य॒ज्ञस्योद्य॑त्यै ॥ स्वाहा॒-ऽऽधिमाधी॑ताय॒ स्वाहा᳚ ।

स्वाहा-ऽऽधी॑तं॒ मन॑से॒ स्वाहा᳚ । स्वाहा॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा᳚ ।

काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहेति॑ प्राजाप॒त्ये मुख्ये॑ भवतः ।

प्र॒जाप॑ति-मुखाभिरे॒वैनं॑ दे॒वता॑भि॒रुद्य॑च्छते ॥ 42 (10)

T.B.3.8.11.2

अदि॑त्यै॒ स्वाहाऽदि॑त्यै म॒ह्यै᳚ स्वाहाऽदि॑त्यै सुमृडी॒कायै॒ स्वाहेत्या॑ह ।

इ॒यं ँवा अदि॑तिः । अ॒स्या ए॒वैनं॑ प्रति॒ष्ठायोद्य॑च्छते ॥

सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै बृह॒त्यै᳚ स्वाहा॒ सर॑स्वत्यै

पाव॒कायै॒ स्वाहेत्या॑ह ।

वाग्वै सर॑स्वती । वा॒चैवैन॒मुद्य॑च्छते ॥

पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहेत्या॑ह ।

प॒शवो॒ वै पू॒षा । प॒शुभि॑रे॒वैन॒-मुद्य॑च्छते ॥

त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्र॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहेत्या॑ह ( ) ।

त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृत् । रू॒पमे॒व प॒शुषु॑ दधाति ।

अथो॑ रू॒पैरे॒वैन॒-मुद्य॑च्छते ॥

विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहेत्या॑ह ।

य॒ज्ञो वै विष्णुः॑ । य॒ज्ञायै॒वैन॒-मुद्य॑च्छते ॥

पू॒र्णा॒हु॒ति-मु॑त्त॒मां जु॑होति । प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ॥ 43 (18)

(य॒च्छ॒ते॒ - पु॒रु॒रूपा॑य॒ स्वाहेत्या॑हा॒ष्टौ च॑) (A11)

3.8.12 अश्वसञ्चरणवथ्सरे प्रतिदिनं देवयजनदेशे कर्तव्यमिष्टित्रयमभिधीयते T.B. 3.8.12

T.B.3.8.12.1

सा॒वि॒त्र-म॒ष्टक॑पालं प्रा॒तर्निर्व॑पति । अ॒ष्टाक्ष॑रा गाय॒त्री ।

गा॒य॒त्रं प्रा॑तस्सव॒नं ।

प्रा॒त॒स्स॒व॒ना दे॒वैनं॑ गायत्रि॒या॑007A;छन्द॒सोऽधि॒ निर्मि॑मीते ।

अथो᳚ प्रातस्सव॒नमे॒व तेना᳚प्नोति । गा॒य॒त्रीं छन्दः॑ ॥

स॒वि॒त्रे प्र॑सवि॒त्र एका॑दश-कपालं म॒द्ध्यन्दि॑ने । एका॑दशाक्षरा त्रि॒ष्टुप् ।

त्रैष्टु॑भं॒ माद्ध्य॑न्दिन॒ꣳ॒ सव॑नम् ।

माद्ध्य॑न्दिना-दे॒वैन॒ꣳ॒ सव॑नात्‌त्रि॒ष्टुभः॒-छन्द॒सोऽधि॒ निर्मि॑मीते । 44 (10)

T.B.3.8.12.2

अथो॒ माद्ध्य॑न्दिनमे॒व सव॑नं॒ तेना᳚प्नोति । त्रि॒ष्टुभं॒ छन्दः॑ ॥

स॒वि॒त्र आ॑सवि॒त्रे द्वाद॑श-कपाल-मपरा॒ह्णे । द्वाद॑शाक्षरा॒ जग॑ती ।

जाग॑तं तृतीय सव॒नम् ।

तृ॒ती॒य॒ स॒व॒नादे॒वैनं॒ जग॑त्या॒॑007A;छन्द॒सोऽधि॒ निर्मि॑मीते ।

अथो॑ तृतीय सव॒नमे॒व तेना᳚प्नोति ।

जग॑तीं॒ छन्दः॑ ॥ ई॒श्व॒रो वा अश्वः॒ प्रमु॑क्तः॒ परां᳚ परा॒वतं॒ गन्तोः᳚ ।

इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहेति॒ चत॑स्र॒ आहु॑ती-र्जुहोति ( ) । 45 (10)

T.B.3.8.12.3

चत॑स्रो॒ दिशः॑ । दि॒ग्भिरे॒वैनं॒ परि॑गृह्णाति ॥ आश्व॑त्थो व्र॒जो भ॑वति ।

प्र॒जाप॑ति-र्दे॒वेभ्यो॒ निला॑यत । अश्वो॑ रू॒पं कृ॒त्वा ।

सो᳚ऽश्व॒त्थे स॑म् ँवथ्स॒र-म॑तिष्ठत् । तद॑श्व॒त्थस्या᳚-श्वत्थ॒त्वम् ।

यदाश्व॑त्थो व्र॒जो भव॑ति । स्व ए॒वैनं॒ ँयोनौ॒ प्रति॑ष्ठापयति ॥ 46 (9)

(त्रि॒ष्टुभ॒॑007A;छन्द॒सोऽधि॒ निर्मि॑मीते - जुहोति॒ - +नव॑ च) (A12)

3.8.13 संवथ्सराद्‌र्ध्वमुख्यस्याग्रेरूपस्थानम् T.B. 3.8.13

T.B.3.8.13.1

आ ब्र॑ह्मन् ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒-मित्या॑ह ।

ब्रा॒ह्म॒ण ए॒व ब्र॑ह्मवर्च॒सं दधाति ।

तस्मा᳚त्पु॒रा ब्रा᳚ह्म॒णो ब्र॑ह्मवर्च॒स्य॑ जायत ॥

आऽस्मिन् रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्यः॑ शूरो॑ महार॒थो जा॑यता॒-मित्या॑ह ।

रा॒ज॒न्य॑ ए॒व शौ॒र्यं म॑हि॒मानं॑ दधाति ।

तस्मा᳚त्पु॒रा रा॑ज॒न्य॑ इष॒व्यः॑ शूरो॑ महार॒थो॑-ऽजायत ॥

दोग्ध्री॑ धे॒नुरित्या॑ह । धे॒न्वामे॒व पयो॑ दधाति ।

तस्मा᳚त्पु॒रा दोग्ध्री॑ धे॒नुर॑जायत । वोढा॑ऽन॒ड्वा-नित्या॑ह । 47 (10)

T.B.3.8.13.2

अ॒न॒डुह्ये॒व वी॒र्यं॑ दधाति । तस्मा᳚त्पु॒रा वोढा॑ऽन॒ड्वान॑जायत ।

आ॒शुः सप्ति॒रित्या॑ह । अश्व॑ ए॒व ज॒वं द॑धाति ।

तस्मा᳚त्पु॒रा-ऽऽशुरश्वो॑-ऽजायत । पुर॑न्धि॒र्योषेत्या॑ह ।

यो॒षित्ये॒व रू॒पं द॑धाति । तस्मा॒थ्स्त्री यु॑व॒तिः प्रि॒या भावु॑का ॥

जि॒ष्णू र॑थे॒ष्ठा इत्या॑ह । आ ह॒ वै तत्र॑ जि॒ष्णू र॑थे॒ष्ठा जा॑यते । 48 (10)

T.B.3.8.13.3

यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ स॒भेयो॒ युवेत्या॑ह । यो वै पू᳚र्ववय॒सी ।

स स॒भेयो॒ युवा᳚ । तस्मा॒द्युवा॒ पुमा᳚न् प्रि॒यो भावु॑कः ॥

आऽस्य यज॑मानस्य वी॒रो जा॑यता॒-मित्या॑ह ।

आ ह॒ वै तत्र॒ यज॑मानस्य वी॒रो जा॑यते ।

यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ नि॒का॒मेनि॑कामे नः प॒र्जन्यो॑ वर्.ष॒त्वित्या॑ह ।

नि॒का॒मेनि॑कामे ह॒ वै तत्र॑ प॒र्जन्यो॑ वर्.षति ( ) ।

यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ फ॒लिन्यो॑ न॒ ओष॑धयः पच्यन्ता॒-मित्या॑ह ।

फ॒लिन्यो॑ ह॒ वै तत्रौष॑धयः पच्यन्ते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।

यो॒ग॒क्षे॒मो नः॑ कल्पता॒-मित्या॑ह ।

कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगक्षे॒मः ।

यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ 49 (17)

(अ॒न॒ड्वानित्या॑ह - जायते - वर्.षति स॒प्त च॑) (A13)

3.8.14 अन्नहोमाः. त्रिरात्ररूपस्याश्वमेधस्य प्रथमदिनरात्रौ T.B. 3.8.14

T.B.3.8.14.1

प्र॒जाप॑ति-र्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑शत् । स आ॒त्म-न्न॑श्वमे॒धम॑धत्त ।

तं दे॒वा अ॑बृवन्न् । ए॒ष वाव य॒ज्ञः । यद॑श्वमे॒धः ।

अप्ये॒व नोऽत्रा॒स्त्विति॑ । तेभ्य॑ ए॒तान॑न्नहो॒मान् प्राय॑च्छत् ।

तान॑जुहोत् । तैर्वै स दे॒वान॑ प्रीणात् । यद॑न्न-हो॒माञ्जु॒होति॑ । 50 (10)

T.B.3.8.14.2

दे॒वाने॒व तैर्यज॑मानः प्रीणाति ॥ आज्ये॑न जुहोति ।

अ॒ग्नेर्वा ए॒तद्रू॒पम् । यदाज्य᳚म् । यदाज्ये॑न जु॒होति॑ ।

अ॒ग्निमे॒व तत्प्री॑णाति ॥ मधु॑ना जुहोति ।

म॒ह॒त्यै वा ए॒तद्दे॒वता॑यै रू॒पम् । यन्मधु॑ । यन्मधु॑ना जु॒होति॑ । 51 (10)

T.B.3.8.14.3

म॒ह॒तीमे॒व तद्दे॒वतां᳚ प्रीणाति । त॒ण्डु॒लै-र्जु॑होति ।

वसू॑नां॒ ँवा ए॒तद्रू॒पम् । यत्त॑ण्डु॒लाः । यत्त॑ण्डु॒लै-र्जु॒होति॑ ।

वसू॑ने॒व तत्प्री॑णाति । पृथु॑कैर्जुहोति) ।

रु॒द्राणां॒ ँवा ए॒तद्रू॒पम् । यत्पृथु॑काः । यत्पृथु॑कै-र्जु॒होति॑ । 52 (10)

T.B.3.8.14.4

रु॒द्राने॒व तत्प्री॑णाति । ला॒जैर्जु॑होति । आ॒दि॒त्यानां॒ ँवा ए॒तद्रू॒पम् ।

यल्ला॒जाः । यल्ला॒जै-र्जु॒होति॑ । आ॒दि॒त्याने॒व तत्प्री॑णाति ।

क॒रम्बै᳚-र्जुहोति । विश्वे॑षां॒ ँवा ए॒तद्दे॒वानाꣳ॑ रू॒पम् । यत्क॒रम्बाः᳚ ।

यत्क॒रम्बै᳚-र्जु॒होति॑ । 53 (10)

T.B.3.8.14.5

विश्वा॑ने॒व तद्दे॒वान् प्री॑णाति । धा॒नाभि॑-र्जुहोति ।

नक्ष॑त्राणां॒ ँवा ए॒तद्रू॒पम् । यद्धा॒नाः । यद्धा॒नाभि॑-र्जु॒होति॑ ।

नक्ष॑त्राण्ये॒व तत्प्री॑णाति । सक्तु॑भि-र्जुहोति । प्र॒जाप॑ते॒र्वा ए॒तद्रू॒पम् ।

यथ्सक्त॑वः । यथ्सक्तु॑भि-र्जु॒होति॑ । 54 (10)

T.B.3.8.14.6

प्र॒जाप॑तिमे॒व तत्प्री॑णाति । म॒सूस्यै᳚र्जुहोति ।

सर्वा॑सां॒ ँवा ए॒तद्दे॒वता॑नाꣳ रू॒पम् । यन्म॒सूस्या॑नि ।

यन्म॒सूस्यै᳚-र्जु॒होति॑ । सर्वा॑ ए॒व तद्दे॒वताः᳚ प्रीणाति ।

प्रि॒य॒ङ्गु॒त॒ण्डु॒लै-र्जु॑होति । प्रि॒याङ्गा॑ ह॒ वै नामै॒ते ।

ए॒तैर्वै दे॒वा अश्व॒स्याङ्गा॑नि॒ सम॑दधुः । यत्प्रि॑यङ्गुतण्डु॒लै-र्जु॒होति॑ ( ) । अश्व॑स्यै॒वाङ्गा॑नि॒ सन्द॑धाति ॥ दशान्ना॑नि जुहोति । दशा᳚क्षरा वि॒राट् ।

वि॒राट्-कृ॒थ्स्नस्या॒-न्नाद्य॒स्या-व॑रुद्ध्यै ॥ 55 (14)

(जु॒होति॒ - मधु॑ना जु॒होति॒ - पृथु॑कैर्जु॒होति॑ - क॒रम्बै᳚र्जु॒होति॒ - सक्तु॑भिर्जु॒होति॑ - प्रियङ्गुतण्डु॒लैर्जु॒होति॑ च॒त्वारि॑ च) (A14)

Special Korvai

(अ॒न्न॒हो॒मानाज्ये॑ना॒ग्नेर्मधु॑ना तण्डु॒लैः पृथु॑कैर्ला॒जैः क॒रम्बै᳚द्‌र्धा॒नाभिः॒ सक्तु॑भिर्म॒सूस्यैः᳚ प्रियङ्गुतण्डु॒लैर् दशान्ना॑नि॒ द्वाद॑श)

3.8.15 तत्प्रकारविशेष T.B. 3.8.15

T.B.3.8.15.1

प्र॒जाप॑ति-रश्वमे॒धम॑सृजत । तꣳ सृ॒ष्टꣳ रक्षाᳺ॑स्य जिघाꣳसन्न् ।

स ए॒तान् प्र॒जाप॑तिर्नक्तꣳ हो॒मान॑-पश्यत् । तान॑ जुहोत् ।

तैर्वै स य॒ज्ञाद् रक्षा॒ᳺ॒स्यपा॑हन्न् । यन्न॑क्तꣳ हो॒माञ्जु॒होति॑ ।

य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षा॒ᳺ॒स्यप॑हन्ति ॥ आज्ये॑न जुहोति ।

वज्रो॒ वा आज्य᳚म् । वज्रे॑णै॒व य॒ज्ञाद् रक्षा॒ᳺ॒स्यप॑हन्ति ॥ 56 (10)

T.B.3.8.15.2

आज्य॑स्य प्रति॒पदं॑ करोति । प्रा॒णो वा आज्य᳚म् ।

मु॒ख॒त ए॒वास्य॑ प्रा॒णं द॑धाति ॥ अ॒न्न॒हो॒मा-ञ्जु॑होति ।

शरी॑रवदे॒वाव॑रुन्धे ॥ व्य॒त्यासं॑ जुहोति । उ॒भय॒स्या व॑रुद्ध्यै ॥

नक्तं॑ जुहोति । रक्ष॑सा॒मप॑हत्यै ॥ आज्ये॑नान् त॒तो जु॑होति । 57 (10)

T.B.3.8.15.3

प्रा॒णो वा आज्य᳚म् । उ॒भ॒यत॑ ए॒वास्य॑ प्रा॒णं द॑धाति ।

पु॒रस्ता᳚-च्चो॒परि॑ष्टाच्च ॥ एक॑स्मै॒ स्वाहेत्या॑ह ।

अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । द्वाभ्या॒ᳺ॒ स्वाहेत्या॑ह ।

अ॒मुष्मि॑न्ने॒व लो॒के प्रति॑तिष्ठति । उ॒भयो॑रे॒व लो॒कयाः॒ प्रति॑तिष्ठति ।

अ॒स्मिᳺश्चा॒-मुष्मिᳺ॑श्च ॥ श॒ताय॒ स्वाहेत्या॑ह ( ) ।

श॒तायु॒र्वै पुरु॑षः श॒तवी᳚र्यः । आयु॑रे॒व वी॒र्य॑मव॑रुन्धे ।

स॒हस्रा॑य॒ स्वाहेत्या॑ह । आयु॒र्वै स॒हस्र᳚म् । आयु॑रे॒वा-व॑रुन्धे ॥

सर्व॑स्मै॒ स्वाहेत्या॑ह । अप॑रिमितमे॒वा व॑रुन्धे ॥ 58 (17)

(ए॒व य॒ज्ञाद् रक्षा॒ᳺ॒स्यप॑हन् - त्यन्त॒तो जु॑होति - श॒ताय॒ स्वाहेत्या॑ह सप्त च॑) (A15)

3.8.16 विवरणमेतयोः T.B. 3.8.16

T.B.3.8.16.1

प्र॒जाप॑तिं॒ ँवा ए॒ष ई᳚फ्स॒तीत्या॑हुः । यो᳚ऽश्वमे॒धेन॒ यज॑त॒ इति॑ ।

अथो॑ आहुः । सर्वा॑णि भू॒तानीति॑ ॥ एक॑स्मै॒ स्वाहेत्या॑ह ।

प्र॒जाप॑ति॒र्वा एकः॑ । तमे॒वाप्नो॑ति ॥

एक॑स्मै॒ स्वाहा॒ द्वाभ्या॒ᳺ॒ स्वाहेत्य॑भि-पू॒र्वमाहु॑ती-र्जुहोति ।

अ॒भि॒पू॒र्वमे॒व स॑व॒र्गं ँलो॒कमे॑ति ॥ ए॒को॒त्त॒रं जु॑होति । 59 (10)

T.B.3.8.16.2

ए॒क॒वदे॒व सु॑व॒र्गं ँलो॒कमे॑ति ॥ सन्त॑तं जुहोति ।

सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै ॥ श॒ताय॒ स्वाहेत्या॑ह ।

श॒तायु॒र्वै पुरु॑षः श॒तवी᳚र्यः । आयु॑रे॒व वी॒र्य॑मव॑रुन्धे ।

स॒हस्रा॑य॒ स्वाहेत्या॑ह । आयु॒र्वै स॒हस्र᳚म् । आयु॑रे॒वा व॑रुन्धे ॥

अ॒युता॑य॒ स्वाहा॑ नि॒युता॑य॒ स्वाहा᳚ प्र॒युता॑य॒ स्वाहेत्या॑ह । 60 (10)

T.B.3.8.16.3

त्रय॑ इ॒मे लो॒काः । इ॒माने॒व लो॒कानव॑रुन्धे ॥ अर्बु॑दाय॒ स्वाहेत्या॑ह ।

वाग्वा अर्बु॑दम् । वाच॑मे॒वा व॑रुन्धे ॥ न्य॑र्बुदाय॒ स्वाहेत्या॑ह ।

यो वै वा॒चो भू॒मा । तन्न्य॑र्बुदम् ।

वा॒च ए॒व भू॒मान॒मव॑रुन्धे ॥

स॒मु॒द्राय॒ स्वाहेत्या॑ह । 61 (10)

T.B.3.8.16.4

स॒मु॒द्रमे॒वाप्नो॑ति । मद्ध्या॑य॒ स्वाहेत्या॑ह । मद्ध्य॑मे॒वाप्नो॑ति ।

अन्ता॑य॒ स्वाहेत्या॑ह । अन्त॑मे॒-वाप्नो॑ति । प॒रा॒द्‌र्धाय॒ स्वाहेत्या॑ह ।

प॒रा॒द्‌र्धमे॒वाप्नो॑ति ॥ उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्या॑ह । रात्रि॒र्वा उ॒षाः ।

अह॒र्व्यु॑ष्टिः ( ) । अ॒हो॒रा॒त्रे ए॒वाव॑रुन्धे ।

अथो॑ अहोरा॒त्रयो॑रे॒व प्रति॑तिष्ठति ॥

ता यदु॒भयी॒र्दिवा॑ वा॒ नक्तं॑ ँवा जुहु॒यात् । अ॒हो॒रा॒त्रे मो॑हयेत् ।

उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहो॑देष्य॒ते स्वाहो᳚द्य॒ते

स्वाहेत्यनु॑दिते जुहोति ।

उदि॑ताय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहेत्युदि॑ते जुहोति ।

अ॒हो॒रा॒त्रयो॒-रव्य॑तिमोहाय ॥ 62 (17)

(ए॒को॒त्त॒रम् जु॑होति - प्र॒युता॑य॒ स्वाहेत्या॑ह - समु॒द्राय॒ स्वाहेत्या॒हाह॒र् - व्यु॑ष्टिः स॒प्त च॑) (A16)

3.8.17 सप्तमकाण्डगतान्नहोमानुवाका व्याख्यायन्ते T.B. 3.8.17

T.B.3.8.17.1

वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्रेत्य॑श्व-ना॒मानि॑ जुहोति ।

उ॒भयो॑रे॒वैनं॑ ँलो॒कयो᳚-र्नाम॒धेयं॑ गमयति ॥

आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहेत्यु॑द्-द्रा॒वाञ्जु॑होति ।

सर्व॑मे॒वैन॒-मस्क॑न्नꣳ सुव॒र्गं ँलो॒कं ग॑मयति ॥

अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेति॑ पूर्वहा॒मा-ञ्जु॑होति ।

पूर्व॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒-मति॑क्रामति ॥

पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् ॥

अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेति॑ पूर्वदी॒क्षा जु॑होति ।

पूर्व॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒-मति॑क्रामति ॥ 63 (10)

T.B.3.8.17.2

पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्ये॑-कवि॒ꣳ॒शिनीं᳚ दी॒क्षां जु॑होति ।

एक॑विꣳशति॒र्वै दे॑वलो॒काः । द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ ।

त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒शः । ए॒ष सु॑व॒र्गो लो॒कः ।

सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥

भुवो॑ दे॒वानां॒ कर्म॒णेत्यृ॑तु-दी॒क्षा जु॑होति ।

ऋ॒तूने॒-वास्मै॑ कल्पयति ॥

अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहेति॑ जुहो॒त्य-न॑न्तरित्यै ॥ 64 (10)

T.B.3.8.17.3

अ॒र्वाङ्य॒ज्ञः सङ्क्रा॑म॒त्वि-त्याप्ती᳚-र्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्याप्त्यै᳚ ॥

भू॒तं भव्यं॑ भवि॒ष्यदिति॒ पर्या᳚प्ती-र्जुहोति ।

सु॒व॒र्गस्य॑ लो॒कस्य॒ पर्या᳚प्त्यै ॥

आ मे॑ गृ॒हा भ॑व॒न्त्वित्या॒भू-र्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्या भू᳚त्यै ॥

अ॒ग्निना॒ तपो-ऽन्व॑भव॒दित्य॑नु॒भू-र्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्यानु॑भूत्यै ॥

स्वाहा॒-ऽऽधिमाधी॑ताय॒ स्वाहेति॒ सम॑स्तानि वैश्वदे॒वानि॑ जुहोति ।

सम॑स्तमे॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒-मति॑क्रामति ॥ 65 (10)

T.B.3.8.17.4

द॒द्भ्यः स्वाहा॒ हनू᳚भ्या॒ᳺ॒ स्वाहेत्य॑ङ्गहो॒मा-ञ्जु॑होति ।

अङ्गे॑ अङ्गे॒ वै पुरु॑षस्य पा॒प्मोप॑श्लिष्टः ।

अङ्गा॑दङ्गा दे॒वैनं॑ पा॒प्मन॒स्तेन॑ मुञ्चति ॥

अ॒ञ्ज्ये॒ताय॒ स्वाहा॑ कृ॒ष्णाय॒ स्वाहा᳚ श्वे॒ताय॒ स्वाहेत्य॑-

श्वरू॒पाणि॑ जुहोति ।

रू॒पैरे॒वैन॒ꣳ॒ सम॑द्‌र्धयति ॥

ओष॑धीभ्यः॒ स्वाहा॒ मूले᳚भ्यः॒ स्वाहेत्यो॑षधि हो॒माञ्जु॑होति ।

द्व॒य्यो वा ओष॑धयः । पुष्पे᳚भ्यो॒ऽन्याः फलं॑ गृ॒ह्णन्ति॑ ।

मूले᳚भ्यो॒ऽन्याः । ता ए॒वोभयी॒रव॑रुन्धे ॥ 66 (10)

T.B.3.8.17.5

वन॒स्पति॑भ्यः॒ स्वाहेति॑ वनस्पति-हो॒माञ्जु॑होति ।

आ॒र॒ण्यस्या॒न्नाद्य॒स्याव॑रुद्ध्यै ॥

मे॒षस्त्वा॑ पच॒तै-र॑व॒त्वित्य-पा᳚व्यानि जुहोति ।

प्रा॒णा वै दे॒वा अपा᳚व्याः । प्रा॒णाने॒वाव॑रुन्धे ॥

कूप्या᳚भ्यः॒ स्वाहा॒ऽद्भ्यः स्वाहेत्य॒पाꣳ होमा᳚ञ्जुहोति ।

अ॒फ्सु वा आपः॑ । अन्नं॒ ँवा आपः॑ ।

अ॒द्भ्यो वा अन्नं॑ जायते । यदे॒वाद्भ्योऽन्नं॒ जाय॑ते ( ) ।

तदव॑रुन्धे ॥ 67 (11)

(पू॒र्व॒दी॒क्षा जु॑होति॒ पूर्व॑ ए॒व द्वि॒षन्त॒म् भ्रातृ॑व्य॒मति॑क्राम॒ - त्यन॑न्तरित्यै - क्रामति - रुन्धे॒ - जाय॑त॒ एकं॑ च) (A17)

3.8.18 सप्तमकाण्डगतान्नहोमानुवाका व्याख्यायन्ते T.B. 3.8.18

T.B.3.8.18.1

अम्भाꣳ॑सि जुहोति । अ॒यं ँवै लो॒को-ऽम्भाꣳ॑सि ।

तस्य॒ वस॒वो-ऽधि॑पतयः । अ॒ग्निर्ज्योतिः॑ । यदम्भाꣳ॑सि जु॒होति॑ ।

इ॒ममे॒व लो॒कमव॑रुन्धे । वसू॑ना॒ꣳ॒ सायु॑ज्यं गच्छति ।

अ॒ग्निं ज्योति॒रव॑रुन्धे ॥ नभाꣳ॑सि जुहोति ।

अ॒न्तरि॑क्षं॒ ँवै नभाꣳ॑सि । 68 (10)

T.B.3.8.18.2

तस्य॑ रु॒द्रा अधि॑पतयः । वा॒युर्ज्योतिः॑ । यन्नभाꣳ॑सि जु॒होति॑ ।

अ॒न्तरि॑क्षमे॒वा-व॑रुन्धे । रु॒द्राणा॒ꣳ॒ सायु॑ज्यं गच्छति ।

वा॒युं ज्योति॒रव॑रुन्धे । महाꣳ॑सि जुहोति । अ॒सौ वै लो॒को महाꣳ॑सि ।

तस्या॑दि॒त्या अधि॑पतयः। सूर्यो॒ ज्योतिः॑ । 69 (10)

T.B.3.8.18.3

यन्महाꣳ॑सि जु॒होति॑ । अ॒मुमे॒व लो॒कमव॑रुन्धे ।

आ॒दि॒त्याना॒ꣳ॒ सायु॑ज्यं गच्छति । सूर्यं॒ ज्योति॒रव॑रुन्धे ॥

नमो॒ राज्ञ॒ नमो॒ वरु॑णा॒येति॑ य॒व्यानि॑ जुहोति ।

अ॒न्नाद्य॒स्याव॑रुद्ध्यै ॥ म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा इति॑ ग॒व्यानि॑ जुहोति ।

प॒शू॒नामव॑रुद्ध्यै ॥

प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहेति॑ सन्तति-हो॒माञ्जु॑होति ।

सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै ॥ 70 (10)

T.B.3.8.18.4

सि॒ताय॒ स्वाहा-ऽसि॑ताय॒ स्वाहेति॒ प्रमु॑क्ती-र्जुहोति ।

सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रमु॑क्त्यै ॥ पृ॒थि॒व्यै स्वाहा॒-ऽन्तरि॑क्षाय॒ स्वाहेत्या॑ह ।

य॒था॒ य॒जुरे॒वैतत् ॥

द॒त्वते॒ स्वाहा॑-ऽद॒न्तका॑य॒ स्वाहेति॑ शरीर-हो॒माञ्जु॑होति ।

पि॒तृ॒लो॒कमे॒व तैर्यज॑मा॒नो-ऽव॑रुन्धे ॥

कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्विति॑ परि॒धीन्. यु॑नक्ति ।

इ॒मे वै लो॒काः प॑रि॒धयः॑ । इ॒माने॒वास्मै॑ लो॒कान्. यु॑नक्ति ।

सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 71 (10)

T.B.3.8.18.5

यः प्रा॑ण॒तो य आ᳚त्म॒दा इति॑ महि॒मानौ॑ जुहोति ।

सु॒व॒र्गो वै लो॒को महः॑ । सु॒व॒र्गमे॒व ताभ्यां᳚ ँलो॒कं ँयज॑मा॒नोऽव॑रुन्धे ॥

आ ब्रह्म॑न् ब्राह्म॒णो ब्र॑ह्मवच॒र्सी जा॑यता॒मिति॒ सम॑स्तानि

ब्रह्मवर्च॒सानि॑ जुहोति ।

ब्र॒ह्म॒व॒र्च॒समे॒व तैर्यज॑मा॒नो ऽव॑रुन्धे ॥

जज्ञि॒ बीज॒मिति॑ जुहो॒त्य-न॑न्तरित्यै ॥

अ॒ग्नये॒ सम॑नम-त्पृथि॒व्यै सम॑नम॒दिति॑ सन्नति हो॒माञ्जु॑होति ।

सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्न॑त्यै ॥

भू॒ताय॒ स्वाहा॑ भविष्य॒ते स्वाहेति॑ भूताभ॒व्यौ होमौ॑ जुहोति ।

अ॒यं ँवै लो॒को भू॒तम् । 72 (10)

T.B.3.8.18.6

असौ भ॑वि॒ष्यत् । अ॒नयो॑रे॒व लो॒कयोः॒ प्रति॑तिष्ठति ।

सर्व॒स्याप्त्यै᳚ । सर्व॒स्याव॑रुद्ध्यै ॥

यदक्र॑न्दः प्रथ॒मं जाय॑मान॒ इत्य॑श्वस्तो॒मीयं॑ जुहोति ।

सर्व॒स्याप्त्यै᳚ । सर्व॑स्य॒ जित्यै᳚ ॥ सर्व॑मे॒व तेना᳚प्नोति ।

सर्वं॑ जयति । यो᳚ऽश्वमे॒धेन॒ यज॑ते ( ) । 73 (10)

T.B.3.8.18.7

य उ॑ चैनमे॒वं ँवेद॑ ॥ य॒ज्ञꣳ रक्षाᳺ॑स्य जिघाꣳसन्न् ।

स ए॒तान् प्र॒जाप॑ति-र्नक्तꣳ हो॒मान॑पश्यत् । तान॑जुहोत् ।

तैर्वै स य॒ज्ञाद्रक्षा॒ᳺ॒स्यपा॑हन्न् । यन्न॑क्तꣳ हो॒माञ्जु॒होति॑ ।

य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षा॒ᳺ॒स्यप॑हन्ति ॥

उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्य॑न्त॒तो जु॑होति ।

सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 74 (9)

(वै नभाꣳ॑सि॒ - सूर्यो॒ ज्योतिः॒ - सन्त॑त्यै॒ - सम॑ष्ट्यै - भू॒तम् - ँयज॑ते॒ - +नव॑ च) (A18)

3.8.19 औपसथ्यदिने यूपप्रयोगाः T.B. 3.8.19

T.B.3.8.19.1

ए॒क॒यू॒पो वै॑काद॒शिनी॑ वा । अ॒न्येषां᳚ ँय॒ज्ञानां॒ ँयूपा॑ भवन्ति ।

ए॒क॒वि॒॒शिन्य॑श्वमे॒धस्य॑ । सु॒व॒र्गस्य॑ लो॒कस्या॒-भिजि॑त्यै ॥

बै॒ल॒.वो वा॑ खादि॒रो वा॑ पाला॒शो वा᳚ ।

अ॒न्येषां᳚ ँयज्ञक्रतू॒नां ँयूपा॑ भवन्ति ।

राज्जु॑दाल॒ एक॑विꣳशत्य-रत्निरश्वमे॒धस्य॑ ।

सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ नान्येषां᳚ पशू॒नां ते॑ज॒न्या अ॑व॒द्यन्ति॑ ।

अव॑द्य॒न्त्यश्व॑स्य । 75 (10)

T.B.3.8.19.2

पा॒प्मा वै ते॑ज॒नी । पा॒प्मनोऽप॑हत्यै ॥

प्ल॒क्ष॒शा॒खाया॑म॒न्येषां᳚ पशू॒नाम॑व॒द्यन्ति॑ । वे॒त॒स॒-शा॒खाया॒-मश्व॑स्य ।

अ॒फ्सुयो॑नि॒र्वा अश्वः॑ । अ॒फ्सु॒जो वे॑त॒सः ।

स्व ए॒वास्य॒ योना॒व-व॑द्यति ॥

यूपे॑षु ग्रा॒म्यान् प॒शून्नि॑-यु॒ञ्जन्ति॑ । आ॒रो॒केष्वा॑-र॒ण्यान्धा॑रयन्ति ।

प॒शू॒नां ँव्यावृ॑त्त्यै ( ) ॥ आ ग्रा॒म्यान् प॒शून्- ँलभ॑न्ते ।

प्रार॒ण्यान्‌थ्सृ॑जन्ति । पा॒प्मनो-ऽप॑हत्यै ॥ 76 (13)

(अश्व॑स्य॒ - व्यावृ॑त्त्य॒ त्रीणि॑ च) (A19)

3.8.20 यूपानां स्थानादयः T.B. 3.8.20

T.B.3.8.20.1

राज्जु॑दाल-मग्नि॒ष्ठं मि॑नोति । भ्रू॒ण॒ह॒त्याया॒ अप॑हत्यै ॥

पौतु॑द्रवाव॒भितो॑ भवतः । पुण्य॑स्य ग॒न्धस्याव॑रुद्ध्यै ।

भ्रू॒ण॒ह॒त्या-मे॒वास्मा॑-दप॒हत्य॑ । पुण्ये॑न ग॒न्धेनो॑भ॒यतः॒ परि॑गृह्णाति ॥

षड्बै॒॒ल्॒.वा भ॑वन्ति । ब्र॒ह्म॒व॒र्च॒सस्या-व॑रुद्ध्यै ॥ षट्खा॑दि॒राः ।

तेज॒सो-ऽव॑रुद्ध्यै ॥ 77 (10)

T.B.3.8.20.2

षट्पा॑ला॒शाः । सो॒म॒पी॒थस्या-व॑रुद्ध्यै ॥ एक॑विꣳशतिः॒ सम्प॑द्यन्ते ।

एक॑विꣳशति॒र्वै दे॑वलो॒काः । द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ ।

त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒शः ।

ए॒ष सु॑व॒र्गो लो॒कः ।

सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ श॒तं प॒शवो॑ भवन्ति । 78 (10)

T.B.3.8.20.3

श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ॥

सर्वं॒ ँवा अ॑श्वमे॒द्ध्याप्नो॑ति । अप॑रिमिता भवन्ति ।

अप॑रिमित॒स्या-व॑रुद्ध्यै ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कस्मा᳚थ्स॒त्यात् ।

द॒क्षि॒ण॒तो᳚-ऽन्येषां᳚ पशू॒नाम॑व॒द्यन्ति॑ । उ॒त्त॒र॒तो-ऽश्व॒स्येति॑ ।

वा॒रु॒णो वा अश्वः॑ । 79 (10)

T.B.3.8.20.4

ए॒षा वै वरु॑णस्य॒ दिक् । स्वाया॑मे॒वास्य॑ दि॒श्यव॑द्यति ।

यदित॑रेषां पशू॒नाम॑व॒द्यति॑ । श॒त॒दे॒व॒त्यं॑ तेनाव॑रुन्धे ॥

चि॒ते᳚-ऽग्ना-वधि॑वैत॒से कटेऽश्वं॑ चिनोति । अ॒फ्सु-यो॑नि॒र्वा अश्वः॑ ।

अ॒फ्सु॒जो वे॑त॒सः । स्व ए॒वैनं॒ ँयोनौ॒ प्रति॑ष्ठापयति ॥

पु॒रस्ता᳚-त्प्र॒त्यञ्चं॑ तूप॒रं चि॑नोति । प॒श्चात्प्रा॒चीनं॑ गोमृ॒गम् । 80 (10)

T.B.3.8.20.5

प्रा॒णा॒पा॒ना-वे॒वास्मिन᳚ थ्स॒म्यञ्चौ॑ दधाति ॥

अश्वं॑ तूप॒रं गो॑मृ॒गमिति॑ सर्व॒हुत॑ ए॒ताञ्जु॑होति ।

ए॒षां ँलो॒काना॑-म॒भिजि॑त्यै ॥ आ॒त्मना॒-ऽभिजु॑होति ।

सात्मा॑नमे॒वैन॒ꣳ॒ सत॑नुं करोति ॥ सात्मा॒ऽमुष्मि॑न् ँला॒के भ॑वति ।

य ए॒वं ँवेद॑ । अथो॒ वसो॑रे॒व धारां॒ तेनाव॑रुन्धे ॥

इ॒लु॒वर्दा॑य॒ स्वाहा॑ बलि॒वर्दा॑य॒ स्वाहेत्या॑ह ।

स॒म् ँव॒थ्स॒रो वा इ॑लु॒वर्दः॑ ( ) ।

प॒रि॒व॒थ्स॒रो ब॑लि॒वर्दः॑ । स॒म् ँव॒थ्स॒रादे॒व प॑रिवथ्स॒रादायु॒र व॑रुन्धे ।

आयु॑रे॒वास्मि॑न्-दधाति ।

तस्मा॑दश्व-मेधया॒जी ज॒रसा॑ वि॒स्रसा॒ऽमुं ँलो॒कमे॑ति ॥ 81 (14)

(तेज॒सोऽव॑रुद्ध्यै - भव॒न् - त्यश्वो॑ - गोमृ॒ग - मि॑लु॒वर्द॑ श्च॒त्वारि॑ च) (A20)

3.8.21 चेतव्याग्नयादेर्विशेषः T.B. 3.8.21

T.B.3.8.21.1

ए॒क॒वि॒ꣳ॒शो᳚ऽग्निर्भ॑वति । ए॒क॒वि॒ꣳ॒शः स्तोमः॑ । एक॑विꣳशति॒र्यूपाः᳚ ॥

यथा॒ वा अश्वा॑ वर्.र्ष॒भा वा॒ वृषा॑णः सᳺस्फु॒रेरन्न्॑ ।

ए॒वमे॒तथ्स्तोमाः॒ सᳺस्फु॑रन्ते । यदे॑कवि॒ꣳ॒शाः । ते यथ्स॑मृ॒च्छेरन्न्॑ ।

ह॒न्येता᳚स्य य॒ज्ञः ॥ द्वा॒द॒श ए॒वाग्निः स्या॒दित्या॑हुः ।

द्वा॒द॒शः स्तोमः॑ । 82 (10)

T.B.3.8.21.2

एका॑दश॒ यूपाः᳚ ॥ यद्द्वा॑द॒शो᳚-ऽग्निर्भव॑ति । द्वाद॑श॒ मासाः᳚ सम् ँवथ्स॒रः ।

स॒म् ँव॒थ्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे ॥ यद्दश॒ यूपा॒ भव॑न्ति ।

दशा᳚क्षरा वि॒राट् । अन्नं॑ ँवि॒राट् । वि॒राजै॒वान्नाद्य॒-मव॑रुन्धे ।

य ए॑काद॒शः । स्तन॑ ए॒वास्यै॒ सः । 83 (10)

T.B.3.8.21.3

दु॒ह ए॒वैनां॒ तेन॑ ॥ तदा॑हुः ।

यद्द्वा॑द॒शो᳚ऽग्निः स्या᳚द्द्वाद॒शः स्तोम॒ एका॑दश॒ यूपाः᳚ ।

यथा॒ स्थूरि॑णा या॒यात् । ता॒दृक्तत् ॥

ए॒क॒वि॒ꣳ॒श ए॒वाग्निः स्या॒दित्या॑हुः । ए॒क॒वि॒ꣳ॒शः स्तोमः॑ ।

एक॑विꣳशति॒र्यूपाः᳚ । यथा॒ प्रष्टि॑भि॒र्याति॑ ।

ता॒दृगे॒व तत् ॥ 84 (10)

T.B.3.8.21.4

यो वा अ॑श्वमे॒धे ति॒स्रः क॒कुभो॒ वेद॑ । क॒कुद्ध॒ राज्ञां᳚ भवति ।

ए॒क॒वि॒ꣳ॒शो᳚-ऽग्निर्भ॑वति । ए॒क॒वि॒ꣳ॒शः स्तोमः॑ । एक॑विꣳशति॒र्यूपाः᳚ ।

ए॒ता वा अ॑श्वम॒धे ति॒स्रः क॒कुभः॑ । य ए॒वं ँवेद॑ ।

क॒कुद्ध॒ राज्ञां᳚ भवति ॥

यो वा अ॑श्वमे॒धे त्रीणि॑ शी॒र्॒.षाणि॒ वेद॑ । शिरो॑ ह॒ राज्ञां᳚ भवति ( ) ।

ए॒क॒वि॒ꣳ॒शो᳚-ऽग्निर्भ॑वति । ए॒क॒वि॒ꣳ॒शः स्तोमः॑ । एक॑विꣳशति॒र्यूपाः᳚ ।

ए॒तानि॒ वा अ॑श्वमे॒धे त्रीणि॑ शी॒र॒.षाणि॑ । य ए॒वं ँवेद॑ ।

शिरो॑ ह॒ राज्ञां᳚ भवति ॥ 85 (16)

(द्वा॒द॒शः स्तोमः॒-स- ए॒व तच् - छिरो॑ ह॒ राज्ञां᳚ भवति॒ षट्च॑) (A21)

3.8.22 उक्थ्याख्ये द्वितीयेऽहनि बहिष्पवमाने अश्वस्योद्रातृत्वम् T.B. 3.8.22

T.B.3.8.22.1

दे॒वा वा अ॑श्वमे॒धे पव॑माने । सु॒व॒र्गं ँलो॒कं न प्राजा॑नन्न् ।

तमश्वः॒ प्राजा॑नात् ।

यद॑श्वम॒धे-ऽश्वे॑न॒ मेद्ध्ये॒नोद॑ञ्चो बहिष्पवमा॒नꣳ सर्प॑न्ति ।

सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै ।

न वै म॑नु॒ष्यः॑ सुव॒र्गं लो॒कमञ्ज॑सा वेद ।

अश्वो॒ वै सु॑व॒र्गं ँलो॒कमञ्ज॑सा वेद ॥ यदु॑द्गा॒-तोद्गाये᳚त् ।

यथाऽक्षे᳚त्रज्ञो॒ऽन्येन॑ प॒था प्र॑तिपा॒दये᳚त् ।

ता॒दृक्तत् । 86 (10)

T.B.3.8.22.2

उ॒द्गा॒तार॑-मप॒रुद्ध्य॑ । अश्व॑-मुद्गी॒थाय॑ वृणीते ।

यथा᳚ क्षेत्र॒ज्ञो-ऽञ्ज॑सा॒ नय॑ति ।

ए॒वमे॒वैन॒मश्वः॑ सुव॒र्गं ँलो॒कमञ्ज॑सा नयति ॥ पुच्छ॑म॒न्वार॑भन्ते ।

सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ हिं क॑रोति । सामै॒वाकः॑ ।

हिं क॑रोति । उ॒द्गी॒थ ए॒वास्य॒ सः ॥ 87 (10)

T.B.3.8.22.3

वड॑बा॒ उप॑ रुन्धन्ति । मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै ।

अथो॒ यथो॑पगा॒तार॑ उप॒गाय॑न्ति । ता॒दृगे॒व तत् ॥

उद॑गासी॒दश्वो॒ मेद्ध्य॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ ।

प्र॒जाप॑ति-रुद्गी॒थः । उ॒द्गी॒थमे॒वाव॑रुन्धे ।

अथो॑ ऋख्सा॒मयो॑रे॒व प्रति॑तिष्ठति ॥ हिर॑ण्येनो॒पाक॑रोति ( ) ।

ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒व मु॑ख॒तो द॑धाति ।

यज॑माने च प्र॒जासु॑ च ।

अथो॒ हिर॑ण्यज्योतिरे॒व यज॑मानः सुव॒र्गं ँलो॒कमे॑ति ॥ 88 (14)

(तथ् - स - उ॒पाक॑रोति च॒त्वारि॑ च) (A22)

3.8.23 अश्वे पर्यग्न्यप्रयन्तानां पशूनां नियोजनं T.B. 3.8.23

T.B.3.8.23.1

पुरु॑षो॒ वै य॒ज्ञः । य॒ज्ञः प्र॒जाप॑तिः । यदश्वे॑ प॒शून्नि॑यु॒ञ्जन्ति॑ ।

य॒ज्ञादे॒व तद्य॒ज्ञं प्रयु॑ङ्क्ते ॥ अश्वं॑ तूप॒रं गो॑मृ॒गम् । तान॑ग्नि॒ष्ठ आल॑भते ।

से॒ना॒मु॒खमे॒व तथ्सᳺश्य॑ति । तस्मा᳚द् राजमु॒खं भी॒ष्मं भावु॑कम् ॥

आ॒ग्ने॒यं कृ॒ष्णग्री॑वं पु॒रस्ता᳚-ल्ल॒लाटे᳚ । पू॒र्वा॒ग्निमे॒व तं कु॑रुते । 89 (10)

T.B.3.8.23.2

तस्मा᳚-त्पूर्वा॒ग्निं पु॒रस्ता᳚-थ्स्थापयन्ति ॥ पौ॒ष्णम॒न्वञ्च᳚म् ।

अन्नं॒ ँवै पू॒षा । तस्मा᳚-त्पूर्वा॒ग्ना-वा॑हा॒र्य॑-माह॑रन्ति ॥

ऐ॒न्द्रा॒पौ॒ष्ण मु॒परि॑ष्टात् । ऐ॒न्द्रो वै रा॑ज॒न्योऽन्नं॑ पू॒षा ।

अ॒न्नाद्ये॑नै॒वैन॑-मुभ॒यतः॒ परि॑गृह्णाति । तस्मा᳚द् राज॒न्यो᳚न्ना॒दो भावु॑कः ॥

आ॒ग्ने॒यौ कृ॒ष्णग्री॑वौ बाहु॒वोः । बा॒हु॒वोरे॒व वी॒र्यं॑ धत्ते । 90 (10)

T.B.3.8.23.3

तस्मा᳚द् राज॒न्यो॑ बाहुब॒ली भावु॑कः ॥ त्वा॒ष्ट्रौ लो॑मशस॒क्थौ स॒क्थ्योः ।

स॒क्थ्योरे॒व वी॒र्यं॑ धत्ते । तस्मा᳚द् राज॒न्य॑ ऊरुब॒ली भावु॑कः ॥

शि॒ति॒पृ॒ष्ठौ बा॑र्.हस्प॒त्यौ पृ॒ष्ठे । ब्र॒ह्म॒व॒र्च॒स-मे॒वोपरि॑ष्टाद्धत्ते ।

अथो॑ क॒वचे॑ ए॒वैते अ॒भितः॒ पर्यू॑हते ।

तस्मा᳚द् राज॒न्यः॑ सन्न॑द्धो वी॒र्यं॑ करोति ॥ धा॒त्रे पृ॑षोद॒र-म॒धस्ता᳚त् ।

प्र॒ति॒ष्ठामे॒वैतां कु॑रुते ( ) । अथो॑ इ॒यं ँवै धा॒ता ।

अ॒स्यामे॒व प्रति॑तिष्ठति ॥ सौ॒र्यं ब॒लक्षं॒ पुच्छे᳚ । उ॒थ्से॒धमे॒व तं कु॑रुते ।

तस्मा॑दुथ्से॒धं भ॒ये प्र॒जा अ॒भिसᳺश्र॑यन्ति ॥ 91 (15)

(कु॒रु॒ते॒ - ध॒त्ते॒ - कु॒रु॒ते॒ पञ्च॑ च) (A23)

prapaataka Korvai with starting Padams of 1 to 23 Anuvaakams -

(सा॒ङ्ग्र॒ह॒ण्या - चतु॑ष्टय्यो॒ - यो वै - यः पि॒तु - श्च॒त्वारा॒ - यथा॑ नि॒क्तम् - प्र॒जाप॑तये त्वा॒- यथा॒ प्रोक्षि॑तं - वि॒भूरा॑ह- प्र॒जाप॑तिरकामयताश्वमे॒धेन॑ - प्र॒जाप॑ति॒र्न किञ्च॒ न - सा॑वि॒त्र - मा ब्रह्म॑न् - प्र॒जाप॑तिर् दे॒वेभ्यः॑ - प्र॒जाप॑ति॒ रक्षाꣳ॑सि - प्र॒जाप॑तिमीफ्सति - वि॒भूर॑श्वना॒मान्य - म्भाᳺ॑ - स्येकयू॒पो -

राज्जु॑दाल - मेकवि॒ꣳ॒शो - दे॒वाः - पुरु॑ष॒ स्त्रयो॑विꣳशतिः)

Korvai with starting Padams of 1, 11, 21 Series of Dasinis :-

(सा॒ङ्ग्र॒ह॒ण्या - तस्मा॑दश्वमेधया॒जी - यत् परि॑मिता॒ - यद् य॑ज्ञमु॒खे - यो दी॒क्षाम् - दे॒वाने॒व - त्रय॑ इ॒मे - सि॒ताय॑ - प्राणापा॒नावे॒वास्मि॒न् - तस्मा᳚द् राज॒न्य॑ एक॑नवतिः)

First अन्द् ळस्त् फदम् 3rd आश्तकम् 8th प्रपातकम् ः-

(सा॒ङ्ग्र॒ह॒ण्या - सᳺश्र॑यन्ति)

॥ हरिः ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके अष्टमः प्रपाठकः समाप्तः ॥

+++++++++++++++++++++++++++

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

3. कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टकं