Udaka Shanti Anushangam

कृष्ण यजुर्वेदीय आरण्यकम्
Generated: 03-10-2026 16:19:28

1. उदक शान्ति

1.1 वेदारंभे सर्वसाधारण्येन जप्याः मन्त्राः

ॐ भूः तथ्स॑वि॒॒तुर्-वरे᳚ण्यं । ॐ भुवः॑ भर्गो॑ दे॒॒वस्य॑ धीमहि ।

ओꣳ सुवः॑ धियो॒॒ योनः॑ प्रचो॒दया᳚त् ।

ॐ भूः तथ्स॑वि॒तुर्-वरे᳚ण्यं । भर्गो॑ दे॒वस्य॑ धीमहि । ॐ भुवः धियो॒ योनः॑ प्रचो॒दया᳚त् ।

ओꣳ सुवः॑ तथ्स॑वि॒तुर्-वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योनः॑ प्रचो॒दया᳚त् ।

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।

1.2 वेदाधया

अ॒ग्निमी᳚ळे पु॒रोहि॑तं-य॒ज्ञस्य॑

दे॒वमृ॒त्विजं᳚ । होता᳚रं रत्न॒ धात॑मं ।

इ॒षे त्वो॒र्जेत्वा॑ वा॒यव॑स्थो पा॒यव॑स्थ दे॒वो व॑सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आप्या॑यद्ध्वमघ्निया देवभा॒ग मूर्ज॑स्वतीः॒ पय॑स्वतीः प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा मा व॑ स्ते॒न ई॑शत॒ माऽघशꣳ॑सो रु॒द्रस्य॑ हे॒तिः परि॑ वो वृणक्तु धृ॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीर् यज॑मानस्य प॒शून् पा॑हि ॥ 1

(इ॒षे - त्रिच॑त्वारिꣳशत् )

अग्न॒ आया॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये । निहोता॑ सथ्सि ब॒र्॒.हिषि॑ ।

शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ । शं ँयोर॒भिस्र॑वन्तु नः ॥ 1 (1)

1.3 रक्षोघ्नं

TS 1.2.14.1 to TS 1.2.14.7 for Para 1 to 8

कृ॒णु॒ष्व पाजः॒ प्रसि॑ति॒न्न पृ॒थ्वीं ँया॒हि राजे॒ वाम॑वा॒ꣳ॒ इभे॑न । त्रृ॒ष्वी मनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑ऽसि॒ विध्य॑ र॒क्ष स॒स्तपि॑ष्ठैः । तव॑ भ्र॒मास॑ आशु॒या प॑तं॒ त्यनु॑स्पृश-धृष॒ता शोशु॑चानः ।

तपूᳺ॑ष्यग्ने जु॒ह्वा॑ पतं॒-गानस॑न्दितो॒ विसृ॑ज॒ विष्व॑ गु॒ल्काः । प्रति॒स्पशो॒ विसृ॑ज॒-तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः ॥ 2

योनो॑ दू॒रे अ॒घशꣳ॑सो॒यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्.षीत् ।

उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒न्य॑मित्राꣳ॑ ओषता-त्तिग्महेते । यो नो॒ अरा॑तिꣳ समिधान च॒क्रे नी॒चा तंध॑क्ष्यत॒ सन्न शुष्कं᳚ ।

ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्या-ध्य॒स्मदा॒ विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने । अव॑स्थि॒रा त॑नुहि यातु॒ जूनां᳚ जा॒मिमजा॑मिं॒ प्रमृ॑णीहि॒ शत्रून्॑ ॥ 3

सते॑ जानाति सुम॒तिं ँय॑ विष्ठ॒य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् । विश्वा᳚न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो विदुरो॑ अ॒भिद्यौ᳚त् ।

सेद॑ग्ने अस्तु सु॒भग॑ स्सु॒दानु॒र् यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः । पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒-साऽस॑दि॒ष्टिः ।

अर्चा॑मिते सुम॒तिं घोष्य॒र्वाख्-सन्ते॑ वा॒ वाता॑ जरता मि॒यंगीः ॥ 4

स्वश्वा᳚स्त्वा सु॒रथा॑ मर्जये-मा॒स्मे क्ष॒त्राणि॑ धारये॒र-नु॒द्यून् । इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒त्मन् दोषा॑वस्तर् दीदि॒वाꣳ स॒मनु॒द्यून् । क्रीड॑न्तस्त्वा सु॒मन॑स स्सपेमा॒भि द्यु॒म्ना त॑स्थि॒वाꣳसो॒ जना॑नां ।

यस्त्वा॒ स्वश्व॑स्सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न । तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्य मा॑नु॒षग् जुजो॑षत् ॥ 5

म॒होरु॑जामि ब॒न्धुता॒ वचो॑ भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒द न्वि॑याय । त्वन्नो॑ अ॒स्य वच॑स-श्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ।

अस्व॑प्न जस्त॒रण॑य स्सु॒शेवा॒ अत॑न्द्रासो ऽवृ॒का अश्र॑मिष्ठाः । ते पा॒यवः॑ स॒ध्रिय॑ञ्चो नि॒षद्याग्ने॒ तव॑ नः पान्त्वमूर ।

ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒ताद र॑क्षन्न् । र॒रक्ष॒ तान्थ् सु॒कृतो॑ वि॒श्ववे॑दा॒ दिफ्स॑न्त॒ इद्रि॒पवो॒ नाह॑ देभुः ॥ 6

त्वया॑ व॒यꣳ स॑ध॒न्य॑-स्त्वोता॒ स्तव॒ प्रणी᳚त्य श्याम॒ वाजान्॑ । उ॒भाशꣳ सा॑ सूदय सत्यता तेऽनुष्ठु॒या कृ॑णुह्य-ह्रयाण ।

अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒स्तोमꣳ॑ श॒स्यमा॑नं गृभाय । दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य॑स्मान् दृ॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ।

र॒क्षो॒हणं॑ ँवा॒जिन॒माजि॑ घर्मि मि॒त्रं प्रथि॑ष्ठ॒ मुप॑यामि॒ शर्म॑ ।

शिशा॑नो अ॒ग्निः क्रतु॑भि॒ स्समि॑द्ध॒-स्सनो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्तं᳚ ॥ 7

विज्योति॑षा बृह॒ता भा᳚त्य॒ग्नि रा॒विर्-विश्वा॑नि कृणुते महि॒त्वा । प्रादे॑वीर्मा॒या स्स॑हते दु॒रेवा॒ श्शिशी॑ते॒ शृंगे॒ रक्ष॑से वि॒निक्षे᳚ ।

उ॒तस्वा॒नासो॑ दि॒विष॑न्त्व॒ग्ने स्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒ वा उ॑ ॥ 8 (2)

1.4 इन्द्र सूक्तं

TS 1.6.12.1 to TS 1.6.12.6, for para 9 to 14

इन्द्रं॑ ँवो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने᳚भ्यः । अ॒स्माक॑मस्तु॒ केव॑लः । इन्द्रं॒ नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः । शूरो॒ नृषा॑ता॒ शव॑सश्चका॒ न आ गोम॑ति व्र॒जे भ॑जा॒ त्वन्नः॑ । इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ । इन्द्र॒ तानि॑ त॒ आ वृ॑णे । अनु॑ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्राते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚ ॥ 9

अनु॑ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ ।

आयस्मि᳚न्थ् स॒प्तवा॑स॒वा स्तिष्ठ॑न्ति स्वा॒रुहो॑ यथा । ऋषि॑र्.ह दीर्घ॒ शृत्त॑म॒ इन्द्र॑स्य घ॒र्मो अति॑थिः । आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यꣳ॑ रोहयो दि॒वि । घ॒र्मन्न साम॑न्तपता सुवृ॒क्तिभि॒र्-जुष्टं॒ गिर्व॑ण से॒गिरः॑ । इन्द्र॒मिद् गा॒थिनो॑ बृ॒हदिन्द्र॑ म॒र्केभि॑ र॒र्किणः॑ । इन्द्रं॒ ँवाणी॑रनूषत ॥ 10

गाय॑न्तित्वा गाय॒त्रिणोर्चं॑ त्य॒र्क म॒र्किणः॑ ।

ब्र॒ह्माण॑स्त्वा शतक्रत॒-वुद्व॒ꣳ॒ शमि॑व ये मिरे । अ॒ꣳ॒हो॒मुचे॒ प्रभ॑रेमा मनी॒षा मो॑षिष्ठ॒-दाव्ने॑ सुम॒तिं गृ॑णा॒नाः ।

इ॒दमि॑न्द्र॒ प्रति॑ ह॒व्यं गृ॑भाय स॒त्यास्स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ । वि॒वेष॒यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिन्द्र॒ मह्नः॑ । अꣳह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यान्त॑ मु॒भये॑ हवन्ते ॥ 11

प्रस॒म्राजं॑ प्रथ॒म म॑ध्व॒-राणा॑मꣳ हो॒ मुचं॑ ँवृष॒भं ँय॒ज्ञिया॑नां ।

अ॒पान्न-पा॑तमश्विना॒ हय॑न्त म॒स्मिन्न॑र इन्द्रि॒यं ध॑त्त॒मोजः॑ । विन॑ इन्द्र॒ मृधो॑ जहि नी॒ चा य॑च्छ पृतन्य॒तः । अ॒ध॒स्प॒दं तमीं᳚ कृधि॒ यो अ॒स्माꣳ अ॑भि॒दास॑ति ।

इन्द्र॑क्ष॒त्रम॒भि वा॒ममोजो ऽजा॑यथा वृषभ चर.षणी॒नां । अपा॑नुदो॒ जन॑ममित्र॒ यन्त॑ मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कं ।

मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आज॑गामा॒-पर॑स्याः ॥ 12

सृ॒कꣳ स॒ꣳ॒ शाय॑ प॒विमि॑न्द्र ति॒ग्मं ँविशत्रू᳚न् ताढि॒ विमृधो॑ नुदस्व ।

विशत्रू॒न्॒. विमृधो॑नुद॒ विवृ॒त्रस्य॒ हनू॑ रुज ।

विम॒न्युमि॑न्द्र भामि॒तो॑ ऽमित्र॑स्याभि॒ दास॑तः ।

त्रा॒तार॒मिन्द्र॑ मवि॒तार॒ मिन्द्र॒ꣳ॒ हवे॑ हवे सु॒हव॒ꣳ॒ शूर॒मिन्द्रं᳚ ।

हु॒वे नु श॒क्रं पु॑रुहू॒त मिन्द्रᳺ॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ॥ 13

मा ते॑ अ॒स्याꣳ स॑हसाव॒न् परि॑ष्टा व॒घाय॑ भूम हरिवः परा॒दै । त्राय॑स्वनो ऽवृ॒केभि॒र्-वरू॑थै॒ स्तव॑ प्रि॒यास॑ स्सू॒रिषु॑ स्याम ।

अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒न्-त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्तं᳚ । ब्र॒ह्माण॒ इन्द्रं॑ म॒हय॑न्तो अ॒र्कैरव॑र्द्धय॒-न्नह॑ये॒ हन्त॒ वा उ॑ । वृष्णे॒ यत्ते॒ वृष॑णो अ॒र्कमर्चा॒ निन्द्र॒ ग्रावा॑णो॒ अदि॑ति-स्स॒जोषाः᳚ ।

अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्त्तं त॒दस्यून्॑ ॥ 14 (3)

T.A.6.1.9 for para 15a, TS1.4.41.1 & TS1.4.42.1 for para 15b

यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि ।

मघ॑वन् च्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये॒ विद्विषो॒ विमृधो॑ जहि । स्व॒स्ति॒दा वि॒शस्पति॑-र्वृत्र॒हा विमृधो॑ व॒शी । वृषेन्द्रः॑ पु॒र ए॑तु न स्स्वस्ति॒दा अ॑भयं क॒रः । 15a

म॒हाꣳ इन्द्रो॒ वज्र॑ बाहु ष्षोड॒शी शर्म॑ यच्छतु । स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑ पा॒प्मानं॒ यो᳚ऽस्मान् द्वेष्टि॑ । स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भि॒ स्सोमं॑ पिब वृत्रहन् च्छूर वि॒द्वान् । ज॒हि शत्रू॒ꣳ॒ रप॒मृधो॑-नुद॒स्वाथा भ॑यं कृणुहि वि॒श्वतो॑ नः ॥ 15b (4)

1.5 ये देवाः TS 1.8.7.1 for para 16

ये दे॒वाः पु॑र॒स्सदो॒ऽग्नि ने᳚त्रा,

दक्षिण॒सदो॑ य॒मने᳚त्रा,

पश्चा॒थ्सद॑ स्सवि॒तृ ने᳚त्रा,

उत्तर॒सदो॒ वरु॑णनेत्रा,

उपरि॒षदो॒ बृह॒स्पति॑ नेत्रा,

रक्षो॒हण॒स्ते नः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्य॒ स्स्वाहा॒

-ऽग्नये॑ रक्षो॒घ्ने स्वाहा॑,

य॒माय॑ सवि॒त्रे ,

वरु॑णाय॒ बृह॒स्पत॑ये॒

दुव॑स्वते रक्षो॒घ्ने स्वाहा᳚ ॥ 16 (5)

1.6 ये देवाः (अनुषङ्गं)

ये दे॒वाः पु॑र॒स्सदो॒ऽग्नि ने᳚त्रा रक्षो॒हण॒स्तेनः॑ पान्तु॒ ते नो॑ऽवन्तु॒

तेभ्यो॒ नम॒स्तेभ्य॒ स्स्वाहा॒

ये दे॒वा द॑क्षिण॒सदो॑ य॒म ने᳚त्रा रक्षो॒हण॒स्तेनः॑ पान्तु॒ ते नो॑ऽवन्तु॒

तेभ्यो॒ नम॒स्तेभ्य॒ स्स्वाहा॒

ये दे॒वाः प॑श्चा॒थ्सद॑ स्सवि॒तृ ने᳚त्रा रक्षो॒हण॒स्तेनः॑ पान्तु॒ ते नो॑ऽवन्तु॒

तेभ्यो॒ नम॒स्तेभ्य॒ स्स्वाहा॒

ये दे॒वा उ॑त्तर॒सदो॒ वरु॑णनेत्रा रक्षो॒हण॒स्तेनः॑ पान्तु॒ ते नो॑ऽवन्तु॒

तेभ्यो॒ नम॒स्तेभ्य॒ स्स्वाहा॒

ये दे॒वा उ॑परि॒षदो॒ बृह॒स्पति॑ नेत्रा रक्षो॒हण॒स्तेनः॑ पान्तु॒ ते नो॑ऽवन्तु॒

तेभ्यो॒ नम॒स्तेभ्य॒ स्स्वाहा॒ऽग्नये॑

रक्षो॒घ्ने स्वाहा॑

य॒माय॑ रक्षो॒घ्ने स्वाहा॑

सवि॒त्रे र॑क्षो॒घ्ने स्वाहा॒

वरु॑णाय रक्षो॒घ्ने स्वाहा॒

बृह॒स्पत॑ये॒ दुव॑स्वते रक्षो॒घ्ने स्वाहा᳚ ॥ 16A (5A)

1.7 आयुष्कामेष्टि मन्त्राः TS 2.3.10.3 for para 17

अ॒ग्निरायु॑ष्मा॒न्थ्स वन॒स्पति॑भि॒-रायु॑ष्मा॒न् तेन॒त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॒,

सोम॒ आयु॑ष्मा॒न्थ्स ओष॑धीभिर्,

य॒ज्ञ आयु॑ष्मा॒न्थ्स दक्षि॑णाभि॒र्,

ब्रह्मायु॑ष्म॒त्तद् ब्रा᳚ह्म॒णै-रायु॑ष्मद्,

दे॒वा आयु॑ष्मन्त॒स्ते॑ ऽमृते॒ना यु॑ष्मन्त॒स्तेन॒त्वा

ऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि ॥ 17 (6)

1.8 आयुष्कामेष्टि मन्त्राः (अनुषङ्गं)

अ॒ग्निरायु॑ष्मा॒न्थ्स वन॒स्पति॑भि॒ रायु॑ष्मा॒न् तेन॒त्वा

ऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॒

सोम॒ आयु॑ष्मा॒न्थ्स ओष॑धीभि॒रायु॑ष्मा॒न् तेन॒त्वा

ऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि

य॒ज्ञ आयु॑ष्मा॒न्थ्स दक्षि॑णाभि॒रायु॑ष्मा॒न् तेन॒त्वा

ऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॒

ब्रह्मायु॑ष्म॒त्तद् ब्रा᳚ह्म॒णै-रायु॑ष्म॒त् तेन॒त्वा ऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि

दे॒वा आयु॑ष्मन्त॒स्ते॑ ऽमृते॒-नायु॑ष्मन्त॒स्तेन॒त्वा

ऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि ॥ 17A(6A)

1.9 अग्ंहोमुच मन्त्राः TS 2.3.13.1, for para 18

या वा॑मिन्द्रा वरुणा यत॒व्या॑ त॒नूस्तये॒ ममꣳह॑सो मुञ्चतं॒ ,

ँया वा॑मिन्द्रा वरुणा सह॒स्या॑, रक्ष॒स्या॑, तेज॒स्या॑,

त॒नूस्तये॒ ममꣳह॑सो मुञ्चतं॒,

ँयो वा॑मिन्द्रा वरुणा व॒ग्नौ स्राम॒स्तं ँवा॑ मे॒तेना व॑यजे॒,

यो वा॑मिन्द्रा वरुणा द्वि॒पाथ्सु॑ प॒शुषु॒, चतु॑ष्पाथ्सु,

गो॒ष्ठे, गृ॒हे-, ष्व॒फ्सोष॑धीषु॒, वन॒स्पति॑षु॒,

स्राम॒स्तं ँवा॑ मे॒तेना व॑यजे ॥ 18 (7)

1.10 अग्ंहोमुच मन्त्राः (अनुषङ्गं)

या वा॑मिन्द्रा वरुणा यत॒व्या॑ त॒नूस्तये॒ ममꣳह॑सो मुञ्चतं॒

या वा॑मिन्द्रा वरुणा सह॒स्या॑ त॒नूस्तये॒ ममꣳह॑सो मुञ्चतं॒

या वा॑मिन्द्रा वरुणा रक्ष॒स्या॑ त॒नूस्तये॒ ममꣳह॑सो मुञ्चतं॒

या वा॑मिन्द्रा वरुणा तेज॒स्या॑ त॒नूस्तये॒ ममꣳह॑सो मुञ्चतं

यो वा॑मिन्द्रा वरुणा व॒ग्नौ स्राम॒स्तं ँवा॑मे॒ तेना व॑यजे॒

यो वा॑मिन्द्रा वरुणा द्वि॒पाथ्सु॑ प॒शुषु॒ स्राम॒स्तं ँवा॑मे॒ तेना व॑यजे॒

यो वा॑मिन्द्रा वरुणा॒ चतु॑ष्पाथ्सु प॒शुषु॒ (*चतु॑ष्पाथ्सु॒) स्राम॒स्तं ँवा॑मे॒ तेना व॑यजे॒

यो वा॑मिन्द्रा वरुणा गो॒ष्ठे स्राम॒स्तं ँवा॑मे॒ तेना व॑यजे॒

यो वा॑मिन्द्रा वरुणा गृ॒हेषु॒ स्राम॒स्तं ँवा॑मे॒ तेना व॑यजे॒

यो वा॑मिन्द्रा वरुणा॒ऽफ्सु स्राम॒स्तं ँवा॑मे॒ तेना व॑यजे॒

यो वा॑मिन्द्रा वरु॒णौष॑धीषु॒ स्राम॒स्तं ँवा॑मे॒ तेना व॑यजे॒

यो वा॑मिन्द्रा वरुणा॒ वन॒स्पति॑षु॒ स्राम॒स्तं ँवा॑मे॒ तेना व॑यजे ॥ (18A) (7A)

1.11 शास्तृ सूक्तं (आप्यं) TS 5.7.4.3 for para 19

अग्ने॑ यशस्वि॒न॒. यश॑से॒ मम॑र्प॒येन्द्रा॑वती॒ मप॑चिती मि॒हाव॑ह ।

अ॒यं मू॒र्द्धा प॑रमे॒ष्ठी सु॒वर्चा᳚-स्समा॒नाना॑ मुत्त॒म श्लो॑को अस्तु ।

भ॒द्रं पश्य॑न्त॒ उप॑सेदु॒रग्रे॒ तपो॑ दी॒क्षा मृष॑य स्सुव॒र्विदः॑ ।

ततः॑ क्ष॒त्रं बल॒मोज॑श्च जा॒तं तद॒स्मै दे॒वा अ॒भिसन्न॑-मन्तु ।

धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक् प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा᳚ ।

स्तोमा॒-श्चन्दाꣳ॑सि नि॒विदो॑म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि-सन्न॑माम ।

अ॒भ्याव॑र्त्तद्ध्व॒-मुप॒मेत॑ सा॒कम॒यꣳ शा॒स्ता-ऽधि॑पतिर्वो अस्तु ।

अ॒स्य वि॒ज्ञान॒मनु॒सꣳ-र॑भद्ध्वमि॒मं प॒श्चादनु॑ जीवाथ॒ सर्वे᳚ ॥ 19 (8)

1.12 राष्ट्रभृतं TS 3.4.7.1, for para 20

ऋ॒ता॒षाड् ऋ॒तधा॑मा॒ऽग्निर्-ग॑न्ध॒र्वस्त-स्यौष॑धयोऽफ्स॒रस॒

ऊर्जो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒

तस्मै॒ स्वाहा॒ ताभ्य॒ स्स्वाहा॑ ,

सꣳहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्व-स्तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युव॑ ,

स्सुषु॒म्न स्सूर्य॑ रश्मि-श्च॒न्द्रमा॑ गन्ध॒र्व-स्तस्य॒ नक्ष॑त्राण्य-

फ्स॒रसो॑ बे॒कुर॑यो,

भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्व-स्तस्य॒ दक्षि॑णा अफ्स॒रस॑स् स्त॒वाः,

प्र॒जाप॑तिर्-वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वस्तस्य॑र्ख् सा॒मान्य॑-फ्स॒रसो॒ वह्न॑य,

इषि॒रो वि॒श्व व्य॑चा॒ वातो॑ गन्ध॒र्व-स्तस्यापो᳚ ऽफ्स॒रसो॑ मु॒दा,

भुव॑नस्य पते॒ यस्य॑त उ॒परि॑ गृ॒हा इ॒ह च॑ ।

स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ सम् ँवथ्स॒रीणाᳺ॑ स्व॒स्तिं ।

प॒र॒मे॒ष्ठ्यधि॑पतिर्-मृ॒त्युर् ग॑न्ध॒र्व-स्तस्य॒ विश्व॑मफ्स॒रसो॒ भुव॑,

स्सुक्षि॒थि- स्सुभू॑तिर्-भद्र॒कृथ् सुव॑र्वान् प॒र्जन्यो॑ गन्ध॒र्व-स्तस्य॑

वि॒द्युतो᳚ ऽफ्स॒रसो॒ रुचो॑,

दू॒रे हे॑तिर-मृड॒यो मृ॒त्युर् ग॑न्ध॒र्व-स्तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवः॒,

चारुः॑ कृपण का॒शी कामो॑ गन्ध॒र्व-स्तस्या॒धयो᳚ ऽफ्स॒रस॑ श्शा॒चय॑न्ती॒र्,

नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा॒

ताभ्य॒ स्स्वाहा॒,

स नो॑ भुवनस्य पते॒ यस्य॑त उ॒परि॑ गृ॒हा इ॒ह च॑ ।

उ॒रु ब्रह्म॑णे॒ऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ ॥ 20 (9)

1.13 राष्ट्रभृतं (अनुषङ्गं)

ऋ॒ता॒षाड् ऋ॒तधा॑मा॒ऽग्निर-ग॑न्ध॒र्वस्स-इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒

तस्मै॒ स्वाहा॒

तस्यौष॑धयोऽफ्स॒रस॒ ऊर्जो॒ नाम॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒

ताभ्य॒ स्स्वाहा॑

सꣳहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒

तस्मै॒ स्वाहा॒

तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युवो॒ नाम॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒

ताभ्य॒ स्स्वाहा॑

सुषु॒म्नस्सूर्य॑-रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒

तस्मै॒ स्वाहा॒

तस्य॒ नक्ष॑त्राण्य ऽफ्स॒रसो॑ बे॒कुर॑यो॒ नाम॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒

ताभ्य॒ स्स्वाहा॑

भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒

तस्य॒ दक्षि॑णा अफ्स॒रस॑ स्त॒वा नाम॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒

ताभ्य॒ स्स्वाहा᳚

प्र॒जाप॑तिर्-वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वस्स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒

तस्मै॒ स्वाहा॒

तस्य॑र्‌ख् सा॒मान्य॑-ऽफ्स॒रसो॒ वह्न॑यो॒ नाम॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒

ताभ्य॒ स्स्वाहेषि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒

तस्मै॒ स्वाहा॒

तस्यापो᳚-ऽफ्स॒रसो॑ मु॒दा नाम॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒

ताभ्य॒ स्स्वाहा॒

भुव॑नस्य पते॒ यस्य॑त उ॒परि॑ गृ॒हा इ॒ह च॑ ।

स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ सम् ँवथ्स॒रीणाᳺ॑

स्व॒स्तिᳺ स्वाहा॑

परमे॒ष्ठ्यधि॑पतिर्-मृ॒त्युर ग॑न्ध॒र्वस्स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒

तस्मै॒ स्वाहा॒

तस्य॒ विश्व॑मफ्स॒रसो॒ भुवो॒ नाम॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒

ताभ्य॒ स्स्वाहा॑

सुक्षि॒थि-स्सुभू॑तिर-भद्र॒कृथ् सुव॑र्वान् प॒र्जन्यो॑ गन्ध॒र्वस्स

इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒

तस्य॑ वि॒ध्युतो᳚-ऽफ्स॒रसो॒ रुचो॒ नाम॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒

ताभ्य॒ स्स्वाहा॑

दू॒रे हे॑तिर मृड॒यो मृ॒त्युर ग॑न्ध॒र्वस्स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒

तस्मै॒ स्वाहा॒

तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवो॒ नाम॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒

ताभ्य॒ स्स्वाहा॒

चारुः॑ कृपण का॒शी कामो॑ गन्ध॒र्वस्स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒

तस्मै॒ स्वाहा॒

तस्या॒धयो᳚ ऽफ्स॒रस॑ श्शो॒चय॑न्ती॒र् नाम॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒

ताभ्य॒ स्स्वाहा॒

स नो॑ भुवनस्यपते॒ यस्य॑त उ॒परि॑ गृ॒हा इ॒ह च॑ ।

उ॒रु ब्रह्म॑णे॒ऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ॒ स्वाहा᳚ ॥ (20A) (9A)

1.14 राष्ट्रभृतं (अनुषङ्गं) जयाति

(We have included this type also as this is followed at some schools)

ऋ॒ता॒षाड् ऋ॒तधा॑मा॒ऽग्निर्-गन्ध॒र्व-स्तस्यौष॑धयो-ऽफ्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य॒ स्स्वाहा॑

सꣳहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयो ऽफ्स॒रस॑ आ॒युवो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य॒ स्स्वाहा॑

सषु॒म्न स्सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नक्ष॑त्राण्यफ्स॒रसो॑

बे॒कुर॑यो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य॒ स्स्वाहा॑

भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दक्षि॑णा अफ्स॒रस॑-स्स्त॒वा नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य॒ स्स्वाहा᳚

प्र॒जाप॑तिर् वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वस्तस्य॑र्‌ख्सा॒मान्य॑फ्स॒रसो॒

वह्न॑यो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य स्स्वाहे॑

षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्व-स्तस्यापो᳚ऽफ्स॒रसो॑ मु॒दा नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒

तस्मै॒ स्वाहा॒ ताभ्य॒ स्स्वाहा॒

भुव॑नस्य पते॒ यस्य॑त उ॒परि॑ गृ॒हा इ॒ह च॑ ।

सनो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ संव ँथ्स॒रीणाᳺ॑

स्व॒स्तिᳺ स्वाहा॑

परमे॒ष्ठ्यधि॑पतिर् मृ॒त्युर् ग॑न्ध॒र्वस्तस्य॒ विश्व॑मफ्स॒रसो॒ भुवो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒

तस्मै॒ स्वाहा॒ ताभ्य॒ स्स्वाहा॑

सुक्षि॒ति स्सुभू॑तिर् भद्र॒कृथ् सुव॑र्वान् प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑ वि॒द्युतो᳚ ऽफ्स॒रसो॒ रुचो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य॒ स्स्वाहा॑

दू॒रेहे॑तिरमृड॒यो मृ॒त्युर् ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒

तस्मै॒ स्वाहा॒ ताभ्य॒ स्स्वाहा॒

चारुः॑ कृपणका॒शी कामो॑ गन्ध॒र्वस्त-स्या॒धयो᳚फ्स॒रस॑-श्शो॒चय॑न्ती॒र् नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य॒ स्स्वाहा॒

स नो॑ भुवनस्य पते॒ यस्य॑त उ॒परि॑ गृ॒हा इ॒ह च॑ ।

उ॒रु ब्रह्म॑णे॒स्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ॒ स्वाहा᳚ । (20B) (9B)

1.15 सर्प सूक्तं TS 4.2.8.3 for para 21

नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वी मनु॑ ।

ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्य॑ स्स॒र्पेभ्यो॒

नमः॑ । ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒फ्सु सदः॑ कृ॒तं तेभ्य॑ स्स॒र्पेभ्यो॒ नमः॑ । या इष॑वो यातु॒ धाना॑नां॒ ँये वा॒ वन॒स्पती॒ꣳ॒ रनु॑ । ये वा॑ऽव॒टेषु॒ शेर॑ते॒ तेभ्य॑ स्स॒र्पेभ्यो॒ नमः॑ ॥ 21 (10)

1.16 पञ्चचोडाः TS 4.4.3.1 for 22

अ॒यं पु॒रो हरि॑केश॒ स्सूर्य॑रश्मि॒-स्तस्य॑ रथगृ॒थ्सश्च॒ रथौ॑जाश्च सेनानि

ग्राम॒ण्यौ॑ पुञ्जिकस्थ॒ला च॑ कृतस्थ॒ला चा᳚फ्स॒रसौ॑ यातु॒ धाना॑ हे॒ती रक्षाꣳ॑सि॒ प्रहे॑ति ,

र॒यं द॑क्षि॒णा वि॒श्व क॑र्मा॒ तस्य॑ रथ स्व॒नश्च॒ रथे॑-चित्रश्च सेनानि ग्राम॒ण्यौ॑

मेन॒का च॑ सहज॒न्या चा᳚ऽफ्स॒रसौ॑ द॒ङ्ष्णवः॑ प॒शवो॑ हे॒तिः पौरु॑षेयो

व॒धः प्रहे॑ति,

र॒यं प॒श्चाद् वि॒श्व-व्य॑चा॒ स्तस्य॒ रथ॑ प्रोत॒श्चा-स॑मरथश्च सेनानि ग्राम॒ण्यौ᳚ प्र॒म्लोच॑न्ती चा नु॒म्लोच॑न्ती-चाऽफ्स॒रसौ॑ स॒र्पा हे॒तिर् व्या॒घ्राः प्रहे॑ति,

र॒य मु॑त्त॒राथ् स॒म् ँयद्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानि ग्राम॒ण्यौ॑

वि॒श्वाची॑च घृ॒ताची॑ चा-फ्स॒रसा॒ वापो॑ हे॒तिर् वातः॒ प्रहे॑ति ,

र॒य-मु॒पर्य॒र् वाग्व॑-सु॒स्तस्य॒ तार्क्ष्य॒-श्चारि॑ष्ट-नेमिश्च सेनानि ग्राम॒ण्या॑

वु॒र्वशी॑ च पू॒र्वचि॑त्तिश्चा-फ्स॒रसौ॑ वि॒द्युद्धे॒ति-र॑व॒स्फूर्ज॒न् प्रहे॑ति॒ ,

स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं ँवो॒

जंभे॑ दधामि ॥ 22 (11)

1.17 पंचचोडाः (अनुषङ्गं)

अ॒यं पु॒रो हरि॑केश॒ स्सूर्य॑रश्मि॒-स्तस्य॑ रथगृ॒थ्सश्च॒ रथौ॑जाश्च सेनानि

ग्राम॒ण्यौ॑ पुञ्जिकस्थ॒ला च॑ कृतस्थ॒ला चा᳚फ्स॒रसौ॑ यातु॒धाना॑ हे॒ती रक्षाꣳ॑सि॒ प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं ँवो॒ जंभे॑ दधाम्

य॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑ रथस्व॒नश्च॒ रथे॑ चित्रश्च सेनानि

ग्राम॒ण्यौ॑ मेन॒का च॑ सहज॒न्या चा᳚फ्स॒रसौ॑ द॒ङ्ष्णवः॑ प॒शवो॑ हे॒तिः पौरु॑षेयो व॒धः प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं ँवो॒ जंभे॑ दधाम्

य॒यं प॒श्चाद्-वि॒श्व व्य॑चा॒-स्तस्य॒ रथ॑प्रोत॒श्चा-स॑मरथश्च सेनानि

ग्राम॒ण्यौ॑ प्र॒म्लोच॑न्तीचा नु॒म्लोच॑न्ती-चाफ्स॒रसौ॑ स॒र्पा हे॒तिर् व्या॒घ्राः

प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ तेयं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं

ँवो॒ जंभे॑ दधाम्

य॒य-मु॑त्त॒राथ् स॒म् ँयद्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानि

ग्राम॒ण्यौ॑ वि॒श्वाची॑च घृ॒ताची॑चा-फ्स॒रसा॒ वापो॑ हे॒तिर् वातः॒

प्रह॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒

द्वेष्टि॒ तं ँवो॒ जंभे॑ दधाम्

य॒यमु॒पर्य॒र वाग्व॑सु॒स्तस्य॒ तार्क्ष्य॒-श्चारि॑ष्ट-नेमिश्च सेनानि

ग्राम॒ण्या॑ वु॒र्वशी॑ च पू॒र्वचि॑त्ति-श्चाफ्स॒रसौ॑ वि॒द्युद्धे॒तिर॑-व॒स्फूर्ज॒न्

प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं ँवो॒ जंभे॑ दधामि ॥ 22A(11A)

1.18 अप्रतिरथः

TS 4.6.4.1, for para 23 to 27

आ॒शुः शिशा॑नो वृष॒भो न यु॒ध्मो घ॑नाघ॒नः क्षोभ॑ण-श्चर्.षणी॒नां ।

सं॒क्रन्द॑नोऽनिमि॒ष ए॑क वी॒रश्श॒तꣳ सेना॑ अजयथ्सा॒कमिन्द्रः॑ ।

सं॒क्रन्द॑नेना निमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना᳚ ।

तदिन्द्रे॑ण जयत॒ तथ् स॑हध्वं॒ ँयुधो॑ नर॒ इषु॑ हस्तेन॒ वृष्णा᳚ ।

स इषु॑हस्तैः॒ स नि॑षं॒गिभि॑र्व॒शी सᳺ स्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ ।

स॒ꣳ॒सृ॒ष्ट॒जिथ् सो॑म॒पा बा॑हु श॒र्ध्यू᳚द्‌र्ध्व ध॑न्वा॒ प्रति॑हिताभि॒रस्ता᳚ ।

बृह॑स्पते॒ परि॑दीया॒ रथे॑न रक्षो॒हा ऽमित्राꣳ॑ अप॒ बाध॑मानः ॥ 23

प्र॒भं॒जन्थ् सेनाः᳚ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑-मेध्यवि॒ता रथा॑नां ।

गो॒त्र॒भिदं॑ गो॒विदं॒ ँवज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒-मोज॑सा ।

इ॒मꣳ स॑जाता॒ अनु॑वीर-यध्व॒ मिन्द्रꣳ॑ सखा॒योऽनु॒ सꣳ र॑भध्वं ।

ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑र॒-स्सह॑स्वान्. वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒माति॑ष्ठ गो॒वित् ॥ 24

अ॒भिगो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽदा॒यो वी॒रश्श॒तम॑न्यु॒रिन्द्रः॑ ।

दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑ यु॒ध्यो᳚-स्माक॒ꣳ॒ सेना॑ अवतु॒ प्रयु॒थ्सु ।

इन्द्र॑ आसां-ने॒ता बृह॒स्पति॒र् दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॒व॒से॒नाना॑-मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्रे᳚ ।

इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां᳚ म॒रुता॒ꣳ॒ शर्द्ध॑ उ॒ग्रं ।

म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒ मुद॑स्थात् ।

अ॒स्माक॒-मिन्द्र॒-स्समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ ँया इष॑व॒स्ता ज॑यन्तु ॥ 25

अ॒स्माकं॑ ँवी॒रा उत्त॑रे भवन्त्व॒स्मानु॑ देवा अवता॒ हवे॑षु । उद्ध॑र्.षय मघव॒-न्नायु॑धा॒-न्न्युथ्‌सत्व॑नां माम॒कानां॒ महाꣳ॑सि । उद्वृ॑त्रहन्-वा॒जिनां॒ ँवाजि॑ना॒न्युद्रथा॑नां॒ जय॑तामेतु॒ घोषः॑ ।

उप॒प्रेत॒ जय॑ता नरःस्थि॒रा व॑स्सन्तु बा॒हवः॑ ।

इन्द्रो॑ वः॒ शर्म॑ यच्छ त्वना-धृ॒ष्या यथास॑थ । अव॑सृष्टा॒ परा॑पत॒ शर॑व्ये॒ ब्रह्म॑ सꣳशिता ॥ 26

गच्छा॒मित्रा॒न् प्रवि॑श॒ मैषां॒ कञ्च॒नोच्छि॑षः । मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒ सोम॑स्त्वा॒ राजा॒ ऽमृते॑ना॒भि-व॑स्तां । उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्तं॒ त्वामनु॑ मदन्तु दे॒वाः ।

यत्र॑ बा॒णा-स्सं॒पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।

इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु ॥ 27 (12)

1.19 चमकं तृतीय अनुवाकः TS 4.7.3.1 & 2 for para 28 and 29

शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒

काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒

वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे

य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒

विश्वं॑ च मे॒ मह॑श्च मे (28)

स॒म् ँविच्च॑ मे॒ ज्ञात्रं॑ च मे॒

सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म

ऋ॒तं च॑ मे॒ऽमृतं॑ च मे ऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे

जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे

सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ॥ 29 (13)

1.20 विहव्यम्

TS 4.7.14.1 to TS 4.7.14.4 for para 30 to 33

ममा᳚ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑ना स्त॒नुवं॑ पुषेम ।

मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒ स्त्वया-ऽद्ध्य॑क्षेण॒ पृत॑ना जयेम ।

मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्रा॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः ।

ममा॒न्तरि॑क्ष मु॒रु गो॒पम॑स्तु॒ मह्यं॒ ँवातः॑ पवतां॒ कामे॑ अ॒स्मिन्न् ।

मयि॑ दे॒वा द्रवि॑ण॒ माय॑जन्तां॒ मय्या॒ शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः ॥ 30

दैव्या॒ होता॑रा वनिषन्त॒ पूर्वे ऽरि॑ष्टा-स्स्याम त॒नुवा॑ सु॒वीराः᳚ ।

मह्यं॑ ँयजन्तु॒ मम॒ यानि॑ ह॒व्याऽऽकू॑ति स्स॒त्या मन॑सो मे अस्तु ।

एनो॒ मानिगां᳚ कत॒मच्च॒ नाहं ँविश्वे॑ देवासो॒ अधि॑वोच ता मे ।

देवी᳚ष्षडुर् वीरु॒रुणः॑ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयद्ध्वं ।

माहा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र् मार॑धाम द्विष॒ते सो॑मराजन्न् ।

अ॒ग्निर्म॒न्युं प्र॑तिनु॒दन् पु॒रस्ता॒-दद॑ब्धो गो॒पाः परि॑पाहि न॒स्त्वं ॥ 31

प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒ पुन॒स्ते॑ ऽमैषां᳚ चि॒त्तं प्र॒बुधा॒ विने॑शत् ।

धा॒ता धा॑तृ॒णां भुव॑नस्य॒ यस्पति॑र् दे॒वꣳ स॑वि॒तार॑मभि माति॒षाहं᳚ ।

इ॒मं ँय॒ज्ञ म॒श्विनो॒भा बृह॒स्पति॑र् दे॒वाः पा᳚न्तु॒ यज॑मानन् न्य॒र्त्थात् ।

उ॒रु॒व्यचा॑ नो महि॒ष श्शर्म॑यꣳ सद॒स्मिन्. हवे॑ पुरुहू॒तः पु॑रु॒क्षु ।

स नः॑ प्र॒जायै॑ हर्यश्व मृड॒येन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑दाः ॥ 32

ये न॑ स्स॒पत्ना॒ अप॒ते भ॑वन्त्विन्द्रा॒-ग्निभ्या॒ मव॑ बाधामहे॒ तान् ।

वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒ स्पृशं॑ मो॒ग्रं-चेत्ता॑रमधि रा॒जम॑क्रन्न् ।

अ॒र्वाञ्च॒ मिन्द्र॑ म॒मुतो॑ हवामहे॒ यो गो॒जिद्-ध॑न॒-जिद॑श्व॒-जिद्यः ।

इ॒मन्नो॑ य॒ज्ञं ँवि॑ह॒वे जु॑षस्वा॒स्य कु॑र्मो हरिवो मे॒दिनं॑ त्वा ॥ 33 (14)

1.21 मृगारः

TS 4.7.15.1 to TS 4.7.15.4 for para 34 to 40

अ॒ग्नेर् म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒यं पाञ्च॑जन्यं ब॒हव॑ स्समि॒न्धते᳚ ।

विश्व॑स्यां ँवि॒शि प्र॑विविशि॒वाꣳ स॑मीमहे॒ स नो॑ मुञ्च॒त्वꣳ ह॑सः ।

यस्ये॒दं प्रा॒ण-न्नि॑मि॒षद् यदेज॑ति॒ यस्य॑ जा॒तं जन॑मानं च॒ केव॑लं ।

स्तौम्य॒ग्निं ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳ ह॑सः ।

इन्द्र॑स्य मन्ये प्रथ॒मस्य॒ प्रचे॑तसो वृत्र॒घ्नः स्तोमा॒ उप॒मा मु॒पागुः॑ ।

यो दा॒शुषः॑ सु॒कृतो॒ हव॒मुप॒ गन्ता॒ स नो॑ मुञ्च॒त्वꣳ ह॑सः ॥ 34

य स्सं॑ग्रा॒मं नय॑ति॒ सं ँव॒शी यु॒धे यः पु॒ष्टानि॑ सꣳसृ॒जति॑ त्र॒याणि॑ ।

स्तौमीन्द्रं॑ नाथि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳ ह॑सः ।

म॒न्वेवां᳚ मित्रावरुणा॒ तस्य॑ वित्त॒ꣳ॒ सत्यौ॑जसा दृꣳहणा॒ यं नु॒देथे᳚ ।

या राजा॑नꣳ स॒रथं॑ ँया॒थ उ॑ग्रा॒ ता नो॑ मुञ्चत॒ माग॑सः ।

यो वा॒ꣳ॒ रथ॑ ऋ॒जुर॑श्मिः स॒त्यध॑र्मा॒ मिथु॒-श्चर॑न्त-मुप॒याति॑ दू॒षयन्न्॑ ॥ 35

स्तौमि॑ मि॒त्रावरु॑णा नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒ माग॑सः ।

वा॒यो-स्स॑वि॒तुर् वि॒दथा॑नि मन्महे॒ यावा᳚त्म॒न्-वद्बि॑भृ॒तो यौ च॒ रक्ष॑तः ।

यौ विश्व॑स्य परि॒भू ब॑भू॒वतु॒स्तौ नो॑ मुञ्चत॒ माग॑सः । उप॒श्रेष्ठा॑न आ॒शिषो॑ दे॒वयो॒र्धर्मे॑ अस्थिरन्न् ।

स्तौमि॑ वा॒युꣳ स॑वि॒तारं॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒ माग॑सः ।

र॒थीत॑मौ रथी॒ना म॑ह्व ऊ॒तये॒ शुभं॒गमि॑ष्ठौ सु॒यमे॑-भि॒रश्वैः᳚ ॥ 36

ययो᳚र्वां देवौ दे॒वेष्व-नि॑शित॒ मोज॒स्तौ नो॑ मुञ्चत॒ माग॑सः ।

यदया॑तं व ँह॒तुꣳ सू॒र्याया᳚-स्त्रिच॒क्रेण॑ स॒ꣳ॒ सद॑मि॒च्छमा॑नौ ।

स्तौमि॑ दे॒वा व॒श्विनौ॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒ माग॑सः ।

म॒रुतां᳚ मन्वे॒ अधि॑नो बृवन्तु॒ प्रेमां ँवाचं॒ ँविश्वा॑मवन्तु॒ विश्वे᳚ ।

आ॒शून्. हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ।

ति॒ग्ममायु॑धं ँवीडि॒तꣳ सह॑स्वद दि॒व्यꣳ शर्द्धः॒ पृत॑नासु जि॒ष्णु ॥ 37

स्तौमि॑ दे॒वान् म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ।

दे॒वानां᳚ मन्वे॒ अधि॑ नो बृवन्तु॒ प्रेमां ँवाचं॒ ँविश्वा॑मवन्तु॒ विश्वे᳚ ।

आ॒शून्. हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ।

यदि॒दं मा॑ऽभि॒शोच॑ति॒ पौरु॑षेयेण॒ दैव्ये॑न । स्तौमि॒ विश्वा᳚न् दे॒वान् ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः ।

अनु॑नो॒-ऽद्यानु॑मति॒रन्विद॑नु मते॒ त्वं ँवै᳚श्वान॒रो न॑ ऊ॒त्या पृ॒ष्टो दि॒वि । 38

Below is the full text o the concised Mantra given in “italics” above.

This concised Mantra is formed by adding the First word/part from the first part of the first para , 2nd word /part from first part of Second para of Full Mantra which is given below. Add the Underlined words of the full Mantra to arrive at the above concised Mantra. It is more appropriate to chant the full version as given below. Please refer to your Guru for any clarifications/Explanations.

अनु॑नो॒ऽध्यानु॑मतिर् य॒ज्ञं दे॒वेषु॑

मन्यतां । अ॒ग्निश्च॑ हव्य॒ वाह॑नो॒ भव॑तां दा॒शुषे॒ मयः॑ । अन्विद॑नुमते॒ त्वं मन्या॑सै॒ शंच॑ नः कृधि । क्रत्वे॒ दक्षा॑य नो हिनु॒ प्रण॒ आयूꣳ॑षि तारिषः ॥ 38a

वै॒श्वा॒न॒रो न॑ ऊ॒त्या ऽऽप्रया॑तु परा॒वतः॑ । अ॒ग्निरु॒क्थेन॒ वाह॑सा ।

पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा-वि॑वेश ।

वै॒श्वा॒न॒र स्सह॑सा पृ॒ष्टो अ॒ग्निस्सनो॒ दिवा॒ सरि॒षः पा॑तु॒ नक्तं᳚ ॥ 38b

Expansion Ref . 38a - in TS 3.3.11.3 / 38b - in TS 1.5.11.1

ये अप्र॑थेता॒ ममि॑तेभि॒ रोजो॑भि॒ र्ये प्र॑ति॒ष्ठे अभ॑वतां॒ ँवसू॑नां ।

स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳ ह॑सः । उर्वी॑ रोदसी॒ वरि॑वः कृणोतं॒ क्षेत्र॑स्य पत्नी॒ अधि॑नो ब्रूयातं ।

स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳ ह॑सः । यत्ते॑ व॒यं पु॑रुष॒त्राय॑ वि॒ष्ठा वि॑द्वाꣳ सश्च कृ॒मा कच्च॒ नागः॑ ॥ 39

कृ॒धी स्व॑स्माꣳ अदि॑ते॒रना॑गा॒ व्येनाꣳ॑सि शिश्रथो॒ विष्व॑गग्ने । यथा॑ ह॒ तद् व॑सवो गौ॒र्यं॑ चित् प॒दिषि॒ता ममु॑ञ्चता यजत्राः ।

ए॒वा त्वम॒स्मत् प्रमु॑ञ्चा॒ व्यꣳहः॒ प्राता᳚र्यग्ने प्रत॒रान्न॒ आयुः॑ ॥ 40 (15)

1.22 सर्पाहुती मन्त्राः

TS 5.5.10.1 to TS 5.5.10.3 for para 41

स॒मीची॒ नामा॑सि॒ प्राची॒ दिक्तस्या᳚स्ते॒ ऽग्निरधि॑पति रसि॒तो र॑क्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौनो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं ँवां॒ जंभे॑ दधाम्यो-,

-ज॒स्विनी॒ नामा॑सि दक्षि॒णा दिक्तस्या᳚स्त॒ इन्द्रोऽधि॑पतिः॒ पृदा॑कुः॒ ,

प्राची॒ नामा॑सि प्र॒तीची॒ दिक्तस्या᳚स्ते॒ सोमोऽधि॑पति स्स्व॒जो॑ ,

ऽव॒स्थावा॒ नामा॒-स्युदी॑ची॒ दिक्तस्या᳚स्ते॒ वरु॒णोऽधि॑पति-स्ति॒रश्च॑ राजि॒,

-रधि॑पत्नी॒ नामा॑सि बृह॒ती दिक्तस्या᳚स्ते॒ बृह॒स्पति॒-रधि॑पति श्श्वि॒त्रो,

व॒शिनी॒ नामा॑सी॒ यं दिक्तस्या᳚स्ते य॒मोऽधि॑पतिः क॒ल्माष॑ ग्रीवो,

रक्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒

ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं ँवां॒ जंभे॑ दधामि ॥ 41 (16)

1.23 सर्पाहुती मन्त्राः (अनुषङ्गं)

स॒मीची॒ नामा॑सि॒ प्राची॒ दिक्तस्या᳚स्ते॒ ऽग्निरधि॑पति रसि॒तो

र॑क्षि॒ता-यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒

ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं ँवां॒ जंभे॑ दधाम्

योज॒स्विनी॒ नामा॑सि दक्षि॒णा दिक्तस्या᳚स्त॒ इन्द्रोऽधि॑पतिः॒ पृदा॑कू

रक्षि॒ता यश्चाधि॑पति॒र यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒

ते यं द्वि॒ष्मो यश्च॑नो॒ द्वेष्टि॒ तं ँवां॒ जंभे॑ दधामि॒

प्राची॒ नामा॑सि प्र॒तीची॒ दिक्तस्या᳚स्ते॒ सोमोऽधि॑पति स्स्व॒जो र॑क्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒

ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं ँवां॒ जंभे॑ दधाम्

यव॒स्थावा॒ नामा॒-स्युदी॑ची॒ दिक्तस्या᳚स्ते॒ वरु॒णोऽधि॑पति-स्ति॒रश्च॑

राजी रक्षि॒ता यश्चाधि॑पति॒र्-यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒

ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं ँवां॒ जंभे॑ दधा॒म्-

यधि॑पत्नी॒ नामा॑सि बृह॒ती दिक्तस्या᳚स्ते॒ बृह॒स्पति॒-रधि॑पतिः श्वि॒त्रो

र॑क्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒

ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं ँवां॒ जंभे॑ दधामि

व॒शिनी॒ नामा॑सी॒यं दिक्तस्या᳚स्ते य॒मोऽधि॑पतिः क॒ल्माष॑ ग्रीवो

रक्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒

ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं ँवां॒ जंभे॑ दधामि ॥ 41A (16A)

1.24 गन्धर्वाहुतीः

TS 5.5.10.4 to TS 5.5.10.5 for para 42

हे॒तयो॒ नाम॑स्थ॒ तेषां᳚ ँवः पु॒रो गृ॒हा अ॒ग्निर्व॒ इष॑व स्सलि॒लो,

नि॑लि॒पां नाम॑स्थ॒ तेषां᳚ ँवो दक्षि॒णा गृ॒हाः पि॒तरो॑ व॒ इष॑व॒ स्सग॑रो,

व॒ज्रिणो॒ नाम॑स्थ॒ तेषां᳚ ँवः प॒श्चाद्-गृ॒हा स्स्वप्नो॑ व॒ इष॑वो॒ गह्व॑रो,

ऽव॒स्थावा॑नो॒ नाम॑स्थ॒ तेषां᳚ ँव उत्त॒राद् गृ॒हा आपो॑ व॒ इष॑व स्समु॒द्रो-,

ऽधि॑पतयो॒ नाम॑स्थ॒ तेषां᳚ ँव उ॒परि॑ गृ॒हा व॒र्॒.षं ँव॒ इष॒वोऽव॑स्वान्,

क्र॒व्या नाम॑स्थ॒ पार्त्थि॑वा॒-स्तेषां᳚ ँव इ॒ह गृ॒हा अन्नं॑ ँव॒ इष॑वो निमि॒षो,

वा॑त ना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं ँवो॒ जंभे॑ दधामि ॥ 42 (17)

1.25 गन्धर्वाहुतीः (अनुषङ्गं)

हे॒तयो॒ नाम॑स्थ॒ तेषां᳚ ँवः पु॒रो गृ॒हा अ॒ग्निर्व॒ इष॑व-स्सलि॒लो

वा॑त ना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो

यश्च॑ नो॒ द्वेष्टि॒ तं ँवो॒ जंभे॑ दधामि

निलि॒पां नाम॑स्थ॒ तेषां᳚ ँवो दक्षि॒णा गृ॒हाः पि॒तरो॑ व॒ इष॑व॒-स्सग॑रो

वात ना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो

यश्च॑ नो॒ द्वेष्टि॒ तं ँवो॒ जंभे॑ दधामि

व॒ज्रिणो॒ नाम॑स्थ॒ तेषां᳚ ँवः प॒श्चाद्-गृ॒हा स्स्वप्नो॑ व॒ इष॑वो॒

गह्व॑रो वात ना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो

यश्च॑ नो॒ द्वेष्टि॒ तं ँवो॒ जंभे॑ दधाम्

यव॒स्था वा॑ नो॒ नाम॑स्थ॒ तेषां᳚ ँव उत्त॒राद् गृ॒हा आपो॑ व॒ इष॑व

स्समु॒द्रो वा॑त ना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं ँवो॒ जंभे॑ दधा॒म्

यधि॑पतयो॒ नाम॑स्थ॒ तेषां᳚ ँव उ॒परि॑ गृ॒हा व॒॒र॒.षं॒ ँव॒ इष॒वोऽव॑स्वान् वात ना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो

यश्च॑ नो॒ द्वेष्टि॒ तं ँवो॒ जंभे॑ दधामि

क्र॒व्या नाम॑स्थ॒ पार्त्थि॑वा॒-स्तेषां᳚ ँव इ॒ह गृ॒हा अन्नं॑ ँव॒ इष॑वो निमि॒षो वा॑त ना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते

यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं ँवो॒ जंभे॑ दधामि ॥ 42A (17A)

1.26 अज्यानि मन्त्राः

TS 5.7.2.3 to TS 5.7.2.5 for para 43

श॒तायु॑धाय श॒तवी᳚र्याय श॒तोत॑ये ऽभिमाति॒षाहे᳚ । श॒तं ँयो न॑ श्श॒रदो॒ अजी॑ता॒-निन्द्रो॑ नेष॒दति॑ दुरि॒तानि॒ विश्वा᳚ ।

ये च॒त्वारः॑ प॒थयो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । तेषां॒ ँयो अज्या॑नि॒- मजी॑ति-मा॒वहा॒त्तस्मै॑ नो देवाः॒ परि॑दत्ते॒ह सर्वे᳚ । ग्री॒ष्मो हे॑म॒न्त उ॒त नो॑ वस॒न्त श्श॒रद् व॒र्॒.षा स्सु॑वि॒तन्नो॑ अस्तु ।

तेषा॑-मृतू॒नाꣳ श॒तशा॑रदाना-न्निवा॒त ए॑षा॒मभ॑ये स्याम । इ॒दु॒व॒थ्स॒राय॑ परिवथ्स॒राय॑ सम् ँवथ्स॒राय॑ कृणुता बृ॒हन्नमः॑ । तेषां᳚ ँव॒यꣳ सु॑म॒तौ य॒ज्ञिया॑नां॒ ज्योगजी॑ता॒ अह॑ता स्स्याम ।

भ॒द्रान्नः॒ श्रेय॒ स्सम॑नैष्ट देवा॒ स्त्वया॑ऽव॒सेन॒ सम॑शी महित्वा ।

सनो॑मयो॒ भूः पि॑तो॒ आवि॑शस्व॒ शंतो॒काय॑ त॒नुवे᳚ स्यो॒नः ॥ 43 (18)

TS 7.3.12.1, for para 44

भू॒तं भव्यं॑ भवि॒ष्यद् वष॒ट् थ्स्वाहा॒ ,

नम॒ ऋख् साम॒-यजु॒र् वष॒ट् थ्स्वाहा॒ ,

नमो॑ गाय॒त्री त्रि॒ष्टुब् जग॑ती॒ वष॒ट् थ्स्वाहा॒ ,

नमः॑ पृथि॒व्य॑न्तरि॑क्षं॒ द्यौर् वष॒ट् थ्स्वाहा॒ ,

नमो॒ ऽग्निर्वा॒यु-स्सूर्यो॒ वष॒ट् थ्स्वाहा॒ ,

नमः॑ प्रा॒णो-व्या॒नो॑-ऽपा॒नो वष॒ट् थ्स्वाहा॒ ,

नमोऽन्नं॑ कृ॒षिर् वृष्टि॒र् वष॒ट् थ्स्वाहा॒ ,

नमः॑ पि॒ता पु॒त्रः पौत्रो॒ वष॒ट् थ्स्वाहा॒ ,

नमो॒ भूर्भुव॒स्सुव॒ र्वष॒ट् थ्स्वाहा॒ नमः॑ ॥ 44 (19)

1.27 अथर्वशीर्षं

TB 1.5.8.1 to TB 1.5.8.3 for para 45 to 47

इन्द्रो॑ दधी॒चो अ॒स्तभिः॑ । वृ॒त्राण्य प्र॑तिष्कुतः । ज॒घान॑ नव॒तीर्नव॑ । इ॒च्छन्न-श्व॑स्य॒ यच्छिरः॑ । पर्व॑ते॒ष्वप॑श्रितं । तद्वि॑दच्छर्‌य॒णाव॑ति ।

अत्राह॒ गोरम॑न्वत । नाम॒ त्वष्टु॑र-पी॒च्यं᳚ । इ॒त्था च॒न्द्रम॑सो गृ॒हे ।

इन्द्र॒मिद् गा॒थिनो॑ बृ॒हत् ॥ 45

इन्द्र॑ म॒र्केभि॑ र॒र्किणः॑ । इन्द्रं॒ ँवाणी॑रनूषत । इन्द्र॒ इद्धर्यो॒ स्सचा᳚ ।

सं मि॑श्ल॒ आव॑चो॒ युजा᳚ । इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑। इन्द्रो॑ दी॒र्घाय॒ चक्ष॑से ।

आसूर्यꣳ॑ रोहयद् दि॒वि । वि गोभि॒रद्रि॑मैरयत् ।

इन्द्र॒ वाजे॑षु नो अव । स॒हस्र॑ प्रधनेषु च ॥ 46

उ॒ग्र उ॒ग्राभि॑-रू॒तिभिः॑ । तमिन्द्रं॑ ँवा जयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । स वृषा॑ वृष॒भो-भु॑वत् । इन्द्र॒ स्सदा म॑ने कृ॒तः । ओजि॑ष्ठ॒ स्सबले॑ हि॒तः । द्यु॒म्नी श्लो॒की स सौ॒म्यः॑ । गि॒रा वज्रो॒ न संभृ॑तः । सब॑लो॒ अन॑पच्युतः ।

व॒व॒क्षु रु॒ग्रो अस्तृ॑तः ॥ 47 (20)

1.28 प्रत्यङ्गिरसः

T.B.2.4.2.1 to T.B.2.4.2.4 for para 48 to 50

चक्षु॑षो हेते॒ मन॑सो हेते ।

वाचो॑ हेते॒ ब्रह्म॑णो हेते ।

योमा॑ऽघा॒यु-र॑भि॒दास॑ति । तम॑ग्ने मे॒न्याऽमे॒निं कृ॑णु । योमा॒ चक्षु॑षा॒ यो मन॑सा । यो वा॒चा ब्रह्म॑णाऽघा॒यु-र॑भि॒दास॑ति ।

तया᳚ऽग्ने॒ त्वं मे॒न्या । अ॒मुम॑ मे॒निं कृ॑णु ।

यत् किञ्चा॒सौ मन॑सा॒ यच्च॑ वा॒चा । य॒ज्ञैर् जु॒होति॒ यजु॑षा ह॒विर्भिः॑ ॥ 48

तन् मृ॒त्युर् निर्.ऋ॑त्या सम् ँविदा॒नः । पु॒रा दि॒ष्टा दाहु॑ती रस्यहन्तु । या॒तु॒ धाना॒ निर्.ऋ॑ति॒ रादु॒रक्षः॑ । ते अ॑स्यघ्न॒न् त्वनृ॑तेन स॒त्यं ।

इन्द्र॑षिता॒ आज्य॑मस्य मथ्नन्तु ।

मातथ् समृ॑द्धि॒ यद॒सौ क॒रोति॑ ।

हन्मि॑ते॒ऽहं कृ॒तꣳ ह॒विः । यो मे॑ घो॒रमची॑ कृतः । अपा᳚ञ्चौ त उ॒भौ बा॒हू । अप॑नह्याम्या॒स्यं᳚ ॥ 49

अप॑नह्यामिते बा॒हू । अप॑ नह्याम्या॒स्यं᳚ । अ॒ग्नेर् दे॒वस्य॒ ब्रह्म॑णा । सर्वं॑ ते ऽवधिषं कृ॒तं । पु॒राऽमुष्य॑ वषट् का॒रात् । य॒ज्ञं दे॒वेषु॑ नस्कृधि । स्वि॑ष्ट-म॒स्माकं॑ भूयात् । माऽस्मान् प्राप॒न्नरा॑तयः । अन्ति॑दू॒रे स॒तो अ॑ग्ने । भ्रातृ॑व्यस्या भि॒दास॑तः । व॒ष॒ट् का॒रेण॒ वज्रे॑ण । कृ॒त्याꣳ ह॑न्मि कृ॒ताम॒हं ।

यो मा॒ नक्तं॒ दिवा॑ सा॒यं । प्रा॒त-श्चाह्नो॑ नि॒पीय॑ति । अ॒द्या-तमि॑न्द्र॒ वज्रे॑ण ।

भ्रातृ॑व्यं पादयामसि ॥ 50 (21)

T.B.2.5.1.1 to T.B.2.5.1.3 for para 51 to 53

प्रा॒णो र॑क्षति॒ विश्व॒मेज॑त् । इर्यो॑ भू॒त्वा ब॑हु॒धा ब॒हूनि॑ । स इथ् सर्वं॒ ँव्या॑नशे ।

यो दे॒वो दे॒वेषु॑ वि॒भूर॒न्तः ।

आवृ॑दू॒दात् क्षेत्रिय॑द्ध्व॒गद् वृषा᳚ ।

तमित् प्रा॒णं मन॒सोप॑ शिक्षत ।

अग्रं॑ दे॒वाना॑-मि॒दम॑त्तु नो ह॒विः । मन॑स॒श्चि-त्ते॒दं । भू॒तं भव्यं॑ च गुप्यते । तद्धि दे॒वेष्व॑-ग्रि॒यं ॥ 51

आन॑ एतु पुरश्च॒रं । स॒ह दे॒वै-रि॒मꣳ हवं᳚ । मनः॒ श्रेय॑सि श्रेयसि । कर्म॑न्. य॒ज्ञप॑तिं॒ दध॑त् । जु॒षतां᳚ मे॒ वागि॒दꣳ ह॒विः । वि॒राड् दे॒वी पु॒रोहि॑ता । ह॒व्य॒वाडन॑-पायिनी । यया॑ रू॒पाणि॑ बहु॒धा वद॑न्ति । पेशाꣳ॑सि दे॒वाः प॑र॒मे ज॒नित्रे᳚ । सा नो॑ वि॒राडन॑प स्फुरन्ती ॥ 52

वाग्दे॒वी जु॑षता मि॒दꣳ ह॒विः । चक्षु॑र् दे॒वानां॒ ज्योति॑र॒मृते॒ न्य॑क्तं ।

अ॒स्य वि॒ज्ञाना॑य बहु॒धा निधी॑यते । तस्य॑ सु॒म्न-म॑शीमहि । मा नो॑ हासीद् विचक्ष॒णं । आयु॒रिन्नः॒ प्रती᳚र्यतां । अन॑न्धा॒-श्चक्षु॑षा व॒यं । जी॒वा ज्योति॑-रशीमहि । सुव॒र् ज्योति॑-रु॒तामृतं᳚ । श्रोत्रे॑ण भ॒द्र मु॒त-शृ॑ण्वन्ति स॒त्यं । श्रोत्रे॑ण॒ वाचं॑ बहु॒धोद्यमा॑नां । श्रोत्रे॑ण॒ मोद॑श्च॒ मह॑श्च श्रूयते ।

श्रोत्रे॑ण॒ सर्वा॒ दिश॒ आशृ॑णोमि । येन॒ प्राच्या॑ उ॒त द॑क्षि॒णा । प्र॒तीच्यै॑ दि॒शः शृ॒ण्वन्त्यु॑त्त॒रात् । तदिच्छ्रोत्रं॑ बहु॒धोद्यमा॑नं ।

अ॒रान्न ने॒मिः परि॒सर्वं॑ बभूव ॥ 53 (22)

T.B.2.7.7.1 to T.B.2.7.7.7, for para 54 to 60

सि॒ꣳ॒हे व्या॒घ्र उ॒त या पृदा॑कौ । त्विषि॑-र॒ग्नौ ब्रा᳚ह्म॒णे सूर्ये॒या ।

इन्द्रं॒ ँया दे॒वी सु॒भगा॑ ज॒जान॑ ।

सा न॒ आग॒न् वर्च॑सा सम् ँविदा॒ना ।

या रा॑ज॒न्ये॑ दुन्दु॒-भावाय॑तायां । अश्व॑स्य॒ क्रन्द्ये॒ पुरु॑षस्य मा॒यौ । इन्द्रं॒ ँया दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न् वर्च॑सा सम् ँविदा॒ना । या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये । त्विषि॒-रश्वे॑षु॒ पुरु॑षेषु॒ गोषु॑ ॥ 54

इन्द्रं॒ ँया दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न् वर्च॑सा सम् ँविदा॒ना । रथे॑ अ॒क्षेषु॑ वृष॒भस्य॒ वाजे᳚ । वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे᳚ । इन्द्रं॒ ँया दे॒वी सु॒भगा॑ ज॒जान॑ ।

सा न॒ आग॒न् वर्च॑सा सम् ँविदा॒ना ।

राड॑सि वि॒राड॑सि । स॒म्राड॑सि स्व॒राड॑सि ।

इन्द्रा॑य त्वा॒ तेज॑स्वते॒ तेज॑स्वन्तᳺ श्रीणामि ।

इन्द्रा॑य॒ त्वौज॑स्वत॒ ओज॑स्वन्तᳺ श्रीणामि ॥ 55

इन्द्रा॑य त्वा॒ पय॑स्वते॒ पय॑स्वन्तᳺ श्रीणामि ।

इन्द्रा॑य त्वा॒ऽऽयु॑ष्मत॒ आयु॑ष्मन्तᳺ श्रीणामि । तेजो॑ऽसि । तत्ते॒ प्रय॑च्छामि । तेज॑स्वदस्तु मे॒ मुखं᳚ । तेज॑स्व॒च्छिरो॑ अस्तु मे । तेज॑स्वान्. वि॒श्वतः॑ प्र॒त्यङ् । तेज॑सा॒ सं पि॑पृग्धिमा । ओजो॑ऽसि । तत्ते॒ प्रय॑च्छामि ॥ 56

ओज॑स्वदस्तु मे॒ मुखं᳚ । ओज॑स्व॒च्छिरो॑ अस्तु मे ।

ओज॑स्वान्. वि॒श्वतः॑ प्र॒त्यङ् । ओज॑सा॒ संपि॑पृग्धि मा । पयो॑ऽसि ।

तत्ते॒ प्रय॑च्छामि । पय॑स्वदस्तु मे॒ मुखं᳚ । पय॑स्व॒च्छिरो॑ अस्तु मे । पय॑स्वान्. वि॒श्वतः॑ प्र॒त्यङ् । पय॑सा॒ संपि॑पृग्धि मा ॥ 57

आयु॑रसि । तत्ते॒ प्रय॑च्छामि । आयु॑ष्मदस्तु मे॒ मुखं᳚ । आयु॑ष्म॒च्छिरो॑ अस्तु मे । आयु॑ष्मान्. वि॒श्वतः॑ प्र॒त्यङ् । आयु॑षा॒ संपि॑पृग्धि मा । इ॒म म॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि ।

प्रि॒यꣳ रेतो॑ वरुण सोम राजन्न् । मा॒ ते वा᳚स्मा अदिते॒ शर्म॑ यच्छ । विश्वे॑ देवा॒ जर॑दष्टि॒र् यथाऽस॑त् ॥ 58

आयु॑रसि वि॒श्वायु॑रसि । स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि । यतो॒ वातो॒ मनो॑जवाः ।

यतः॒ क्षर॑न्ति॒ सिन्ध॑वः । तासां᳚ त्वा॒ सर्वा॑साꣳ रु॒चा । अ॒भिषि॑ञ्चामि॒ वर्च॑सा । स॒मु॒द्र इ॑वासि ग॒ह्मना᳚ । सोम॑ इवा॒स्यदा᳚भ्यः । अ॒ग्निरि॑व वि॒श्वतः॑ प्र॒त्यङ् । सूर्य॑ इव॒ ज्योति॑षा वि॒भूः ॥ 59

अ॒पां ँयो द्रव॑णे॒ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । तेज॑से ब्रह्मवर्च॒साय॑ गृह्णामि । अ॒पां ँय ऊ॒र्मौ रसः॑ ।

तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । ओज॑से वी॒र्या॑य गृह्णामि । अ॒पां ँयो म॑द्ध्य॒तो रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ ।

पुष्ट्यै᳚ प्र॒जन॑नाय गृह्णामि । अ॒पां ँयो य॒ज्ञियो॒ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । आयु॑षे दीर्घायु॒त्वाय॑ गृह्णामि ॥ 60 (23)

1.29 अन्न सूक्तं

TB 2.8.8.1 to TB 2.8.8.4 for para 61 to 63

अ॒हम॑स्मि प्रथम॒जा ऋ॒तस्य॑ । पूर्वं॑ दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ ।

यो मा॒ ददा॑ति॒ स इ दे॒व मा वाः᳚ । अ॒हमन्न॒ मन्न॑ म॒दन्त॑मद्मि । पूर्व॑-म॒ग्नेरपि॑ दह॒त्यन्नं᳚ । य॒त्तौ हा॑साते अहमुत्त॒रेषु॑ ।

व्यात्त॑मस्य प॒शव॑-स्सु॒जंभं᳚ । पश्य॑न्ति॒ धीराः॒ प्रच॑रन्ति॒ पाकाः᳚ ।

जहा᳚म्य॒न्यं न ज॑हाम्य॒न्यं । अ॒हमन्नं॒ ँवश॒मिच्च॑रामि ॥ 61

स॒मा॒नमर्थं॒ पर्ये॑मि भुं॒जत् । को मा मन्नं॑ मनु॒ष्यो॑ दयेत । परा॑के॒ अन्नं॒ निहि॑तं ँलो॒क ए॒तत् । विश्वै᳚र् दे॒वैः पि॒तृभि॑र् गु॒प्तमन्नं᳚ । यद॒द्यते॑ लु॒प्यते॒ यत् प॑रो॒प्यते᳚ । श॒त॒-त॒मीसा त॒नूर्मे॑ बभूव ।

म॒हान्तौ॑ च॒रू स॑कृद् दु॒ग्धेन॑ पप्रौ । दिव॑ञ्च॒ पृश्ञि॑ पृथि॒वीं च॑ सा॒कं । तथ्सं॒-पिब॑न्तो॒ नमि॑नन्ति वे॒धसः॑ । नैतद्भूयो॒ भव॑ति॒ नो कनी॑यः ॥ 62

अन्नं॑ प्रा॒णमन्न॑ मपा॒न-मा॑हुः । अन्नं॑ मृ॒त्युं तमु॑ जी॒वातु॑ माहुः ।

अन्नं॑ ब्र॒ह्माणो॑ ज॒रसं॑ ँवदन्ति । अन्न॑माहुः प्र॒जन॑नं प्र॒जानां᳚ ।

मोघ॒-मन्नं॑ ँविन्दते॒ अप्र॑चेताः । स॒त्यं ब्र॑वीमि व॒ध इथ्स तस्य॑ । नार्य॒मणं॒ पुष्य॑ति॒ नो सखा॑यं । केव॑लाघो भवति केवला॒दी । अ॒हं मे॒घ स्स्त॒नय॒न् वर्.ष॑न्नस्मि । माम॑दन्त्य॒-हम॑द्म्य॒न्यान् ॥

अ॒हꣳ सद॒मृतो॑ भवामि ।

मदा॑दि॒त्या अधि॒ सर्वे॑ तपन्ति । 63

1.30 वाक् सूक्तं TB 2.8.8.4 for Para 64

दे॒वीं वाच॑म जनयन्त॒ यद् वाग्वद॑न्ति । 64

Below is the full text of the concised Mantra given in “italics” above. This concised Mantra is formed by adding the First word/part from the first part of the first para , 2nd word /part from first part of Second para of Full Mantra which is given below. Add the Underlined words of the full Mantra to arrive at the above concised Mantra. It is more appropriate to chant the full version as given below. Please refer to your Guru for any clarifications/Explanations.

दे॒वीं ँवाच॑मजनयन्त दे॒वाः । तां ँवि॒श्वरू॑पाः प॒शवो॑ वदन्ति ।

सा नो॑ म॒न्द्रेष॒ मूर्जं॒ दुहा॑ना । धे॒नुर्वाग॒स्मा-नुप॒सुष्टु॒तैतु॑ । 64a

यद् वाग्वद॑न्त्य विचेत॒नानि॑ । राष्ट्री॑ दे॒वानां᳚ निष॒साद॑ म॒न्द्रा । चत॑स्र॒ ऊर्जं॑ दुदुहे॒ पयाꣳ॑सि । क्व॑स्वि दस्याः पर॒मं ज॑गाम ॥ 64b

The Expansion 64a appearing in TB.2.4.6.10

The Expansion 64b appearing in TB.2.4.6.11

TB 2.8.8.4 to TB 2.8.8.5 for Para 65,66

अ॒न॒न्ता-मन्ता॒दधि॒ निर्मि॑तां म॒हीं ।

यस्यां᳚ दे॒वा अ॑दधु॒र् भोज॑नानि ।

एका᳚क्षरां द्वि॒पदा॒ꣳ॒ षट्प॑दाञ्च ।

वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे᳚ ।

वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे᳚ । वाचं॑ गन्ध॒र्वाः प॒शवो॑ मनु॒ष्याः᳚ ।

वा॒चीमा विश्वा॒ भुव॑ना॒-न्यर्पि॑ता । सा नो॒ हवं॑ जुषता॒-मिन्द्र॑ पत्नी । वाग॒क्षरं॑ प्रथम॒जा ऋ॒तस्य॑ । वेदा॑नां मा॒ता-ऽमृत॑स्य॒ नाभिः॑ ॥ 65

सा नो॑ जुषा॒णोप॑ य॒ज्ञ मागा᳚त् । अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु । या मृष॑यो मन्त्र॒ कृतो॑ मनी॒षिणः॑ । अ॒न्वैच्छ॑न् दे॒वा-स्तप॑सा॒ श्रमे॑ण । तां दे॒वीं ँवाचꣳ॑ ह॒विषा॑ यजामहे । सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के ।

च॒त्वारि॒ वाक् परि॑मिता प॒दानि॑ । तानि॑ विदुर् ब्राह्म॒णा ये म॑नी॒षिणः॑ ।

गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति । तु॒रीयं॑ ँवा॒चो म॑नु॒ष्या॑ वदन्ति ॥ 66

1.31 श्रद्धा सूक्तं

TB 2.8.8.5 to TB 2.8.8.8 for Para 67,68, 69a

श्र॒द्धया॒ऽग्नि स्समि॑ध्यते । श्र॒द्धया॑ विन्दते ह॒विः । श्र॒द्धां भग॑स्य मू॒र्धनि॑ । वच॒सा वे॑दयामसि । प्रि॒यᳺ श्र॑द्धे॒ दद॑तः । प्रि॒यᳺ श्र॑द्धे॒ दिदा॑सतः । प्रि॒यं भो॒जेषु॒ यज्व॑सु । इ॒दं म॑ उदि॒तं कृ॑धि ।

यथा॑ दे॒वा असु॑रेषु । श्र॒द्धा मु॒ग्रेषु॑ चक्रि॒रे ॥ 67

ए॒वं भो॒जेषु॒ यज्व॑सु । अ॒स्माक॑-मुदि॒तं कृ॑धि । श्र॒द्धां दे॑वा॒ यज॑मानाः ।

वा॒यु-गो॑पा॒ उपा॑सते । श्र॒द्धाꣳ हृ॑द॒य्य॑या-ऽऽकू᳚त्या । श्र॒द्धया॑ हूयते ह॒विः । श्र॒द्धां प्रा॒तर्. ह॑वामहे ।

श्र॒द्धां म॒द्ध्यन्दि॑नं॒ परि॑ । श्र॒द्धाꣳ सूर्य॑स्य नि॒मृचि॑ । श्रद्धे॒ श्रद्धा॑पये॒ हमा᳚ ॥ 68

श्र॒द्धा दे॒वान-धि॑वस्ते । श्र॒द्धा विश्व॑ मि॒दं जग॑त् । श्र॒द्धां काम॑स्य मा॒तरं᳚ । ह॒विषा॑ वर्द्धयामसि । 69a

1.32 ब्रह्म सूक्तं

TB 2.8.8.10 to TB 2.8.8.11 for Para 69b to 71

ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता᳚त् । विसी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः ।

स बु॒द्ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः । स॒तश्च॒ योनि॒-मस॑तश्च॒ विवः॑ ॥ पि॒ता-वि॒राजा॑ मृष॒भो-र॑यी॒णां । अ॒न्तरि॑क्षं ँवि॒श्वरू॑प॒ आवि॑वेश ॥ 69b

तम॒र्कैर॒भ्य॑र्च्चन्ति व॒थ्सं । ब्रह्म॒ सन्तं॒ ब्रह्म॑णा व॒र्द्धय॑न्तः ॥ ब्रह्म॑ दे॒वान॑जनयत् । ब्रह्म॒ विश्व॑मि॒दं जग॑त् ॥

ब्रह्म॑णः क्ष॒त्रं निर्मि॑तं । ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ ॥ अ॒न्तर॑स्मि-न्नि॒मे लो॒काः । अ॒न्त र्विश्व॑मि॒दं जग॑त् । ब्रह्मै॒व भू॒तानां॒ ज्येष्ठं᳚ । तेन॒ को॑ऽर्.हति॒ स्पर्द्धि॑तुम् ॥ 70

ब्रह्मं॑ दे॒वा-स्त्रय॑स्त्रिꣳशत् । ब्रह्म॑-न्निन्द्र प्रजाप॒ती । ब्रह्म॑न्.ह॒ विश्वा॑ भू॒तानि॑ । ना॒वी वा॒न्त-स्स॒माहि॑ता ॥ चत॑स्र॒ आशाः॒ प्रच॑रन्त्व॒-ग्नयः॑ । इ॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन्न् ।

घृ॒तं पिन्व॑न्न॒ जरꣳ॑ सु॒वीरं᳚ ।

ब्रह्म॑ स॒मिद् भ॑व॒त्याहु॑तीनां ॥ 71

1.33 गो सूक्तं

TB 2.8.8.11 to TB 2.8.8.11 for Para 72

आगावो॑ अग्मन्नु॒त भ॒द्र-म॑क्रन्न् । सीद॑न्तु गो॒ष्ठे-र॒णय॑न्त्व॒स्मे ॥ प्र॒जाव॑तीः पुरु॒ रूपा॑ इ॒ह स्युः । इन्द्रा॑य पू॒र्वी रु॒षसो॒ दुहा॑नाः । इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्षति । उपेद्द॑दाति॒ न स्वं मु॑षायति । भूयो॑ भूयो र॒यिमिद॑स्य व॒र्द्धयन्न्॑ । अभि॑न्ने खि॒ल्ले निद॑धाति देव॒युं ।

न ता न॑शन्ति॒ न ता अर्वा᳚ । 72

Below is the full text of the concised Mantra given in “italics” above.

This concised Mantra is formed by adding the First word/part from the first part of the first para , 2nd word /part from first part of Second para of Full Mantra which is given below. Add the Underlined words of the full Mantra to arrive at the above concised Mantra. It is more appropriate to chant the full version as given below. Please refer to your Guru for any clarifications/Explanations.

न ता न॑शन्ति॒ नद॑भाति॒ तस्क॑रः ।

नैना॑ अमि॒त्रो व्यथि॒रा द॑धर्षति ।

दे॒वाᳺश्च॒ याभि॒र् यज॑ते॒ ददा॑ति च ।

ज्योगित्ताभि॑ स्सचते॒ गोप॑ति स्स॒ह ॥ 72a

न ता अर्वा॑ रे॒णु क॑काटो अश्नुते ।

न सᳺ॑ स्कृत॒त्र-मुप॑यन्ति॒ ता अ॒भि ।

उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॑ ।

गावो॒ मर्त्य॑स्य॒ विच॑रन्ति॒ यज्व॑नः । 72b

Both 72a and 72b appearing in T.B.2.4.6.9

TB 2.8.8.12 for Para 73 to 74

गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छात् ।

गाव॒ स्सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः ।

इ॒मा या गाव॒-स्सज॑नास॒ इन्द्रः॑ ।

इ॒च्छामी-द्धृ॒दा मन॑सा-चि॒दिन्द्रं᳚ ।

यू॒यं गा॑वो मेदयथा कृ॒शञ्चि॑त् । अ॒श्ली॒लं चि॑त् कृणुथा सु॒प्रती॑कं ॥ 73

भ॒द्रं गृ॒हं कृ॑णुथ भद्र वाचः । बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ।

प्र॒जाव॑ती स्सू॒यव॑सꣳ-रि॒शन्तीः᳚ ।

शु॒द्धा अ॒प स्सु॑प्रपा॒णे पिब॑न्तीः ।

माव॑ स्ते॒न ई॑शत॒ माघशꣳ॑सः । परि॑वो हे॒ती रु॒द्रस्य॑ वृंज्यात् । उपे॒द-मु॑प॒-पर्च॑नं । आ॒सु गोषूप॑ पृच्यतां । उप॑र्.ष॒भस्य॒ रेत॑सि । उपे᳚न्द्र॒ तव॑ वी॒र्ये᳚ ॥ 74 (24)

1.34 सूर्या चन्द्रमसा सूक्तं

TB 2.8.9.1 for Para 75 to 77

ता सू᳚र्या चन्द्र॒मसा॑ विश्व॒-भृत्त॑मा म॒हत् । तेजो॒ वसु॑मद्राजतो दि॒वि । सामा᳚त्माना चरत स्साम-चा॒रिणा᳚ । ययो᳚र्व्र॒तं नम॒मे जातु॑ दे॒वयोः᳚ । उ॒भावन्तौ॒ परि॑यात॒ अर्म्या᳚ ।

दि॒वो न र॒श्मीᳺ॑ स्त॑नु॒तो-व्य॑र्ण॒वे ।

उ॒भा भु॑व॒न्ती भुव॑ना क॒विक्र॑तू ।

सूर्या॒ न च॒न्द्रा च॑रतो ह॒ताम॑ती ।

पती᳚द्यु॒मद् वि॑श्व॒-विदा॑ उ॒भा दि॒वः ।

सूर्या॑ उ॒भा च॒न्द्रम॑सा विचक्ष॒णा ॥ 75

वि॒श्ववा॑रा वरिवो॒ भा वरे᳚ण्या । ता नो॑ऽवतं मति॒मन्ता॒ महि॑व्रता । वि॒श्व॒वप॑री प्र॒तर॑णा तर॒न्ता । सु॒व॒र्विदा॑ दृ॒शये॒ भूरि॑ रश्मी ।

सूर्या॒ हि च॒न्द्रा वसु॑त्वे॒ष-द॑र्.शता । म॒न॒स्विनो॒ ऽभानु॑चर॒तोनु॒-संदिवं᳚ ।

अ॒स्य श्रवो॑ न॒द्य॑ स्स॒प्त बि॑भ्रति । द्यावा॒ क्षामा॑ पृथि॒वी द॑र्.श॒तं ँवपुः॑ ।

अ॒स्मे सू᳚र्या चन्द्र॒मसा॑-ऽभि॒चक्षे᳚ । श्र॒द्धेक-मि॑न्द्र चरतो विचर्तु॒रं ॥ 76

पू॒र्वा॒प॒रं च॑रतो मा॒य यै॒तौ ।

शिशू॒ क्रीड॑न्तौ॒ परि॑यातो अध्व॒रं ।

विश्वा᳚न्य॒न्यो भुव॑ना ऽभि॒चष्टे᳚ ।

ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ।

हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासा॒ꣳ॒ राजा᳚ । यासां᳚ दे॒वा श्शि॒वेन॑ मा॒ चक्षु॑षा पश्यत ।

आपो॑ भ॒द्रा आदित्प॑श्यामि । 77

Below is the full text o the concised Mantra given in “italics” above.

This concised Mantra is formed by adding the First word/part from the first part of the first para , 2nd word /part from first part of Second para of Full Mantra which is given below. Add the Underlined words of the full Mantra to arrive at the above concised Mantra. It is more appropriate to chant the full version as given below. Please refer to your Guru for any clarifications/Explanations.

हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑।

अ॒ग्निंया ँ गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आप॒श्शᳺ स्यो॒ना भ॑वन्तु ॥

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्यं॒ जना॑नां ।

म॒धु॒श्चुत॒-श्शुच॑यो॒ याः पा॑व॒कास्ता न॒ आप॒श्शᳺ स्यो॒ना भ॑वन्तु ॥ 77a

यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षय्या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।

याः पृ॑थि॒वीं पय॑सो॒न्दन्ति॑ शु॒क्रास्ता न॒ आप॒श्शᳺ स्यो॒ना भ॑वन्तु ॥

शि॒वेन॑ मा॒ चक्षु॑षा पश्यताप श्शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वचं॑ मे ।

sarvA(gm)# aqgnI(gm) ra#Psuqshado# huve voq mayiq varcoq balaqmojoq nidha#tta ||77b

आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसु र॒ग्नीषो मौ॑ बिभ्र॒त्याप॒ इत्ताः । ती॒व्रो रसो॑ मधु॒प्रृचा॑-मरङ्ग॒म आमा᳚ प्रा॒णेन॑ स॒हवर्च॑ सागन्न् ।

Aditpa#SyA myuqtavA# Srunoqmyamaq Gosho# gacCatiq vA~gna# AsAM | manye# Bejaqno aqmRuta#syaq tarhiq hira#NyavarNAq atRu#paM ~MyaqdA va#H |77c

Expansion 77a appearing in TS 5.6.1.1

Expansion 77b appearing in TS 5.6.1.2

Expansion 77c appearing in TS.5.6.1.4

1.35 नासदासीय सूक्तं

TB 2.8.9.3 to TB 2.8.9.7 for Para 78 to 81

नास॑दासी॒न्नो सदा॑सीत्त॒दानीं᳚ । नासी॒द्रजो॒ नो व्यो॑मा-प॒रोयत् । किमा व॑रीवः॒ कुह॒कस्य॒ शर्मन्न्॑ । अभंः॒ किमा॑सी॒द्-गह॑नं गभी॒रं ॥ 78

न मृ॒त्यु-र॒मृतं॒ तर्.हि॒ न । रात्रि॑या॒ अह्न॑ आसीत् प्रके॒तः । आनी॑द वा॒तᳺ स्व॒धया॒ तदेकं᳚ । तस्मा᳚द्धा॒न्यन् न प॒रः किंच॒नास॑ ।

तम॑ आसी॒-त्तम॑सा गू॒ढमग्रे᳚ प्रके॒तं । स॒लि॒लꣳ सर्व॑ मा इ॒दं । तु॒च्छे ना॒भ्वपि॑हितं॒ ँयदासी᳚त् । तम॑स॒स् तन्म॑हि॒ना जा॑य॒तैकं᳚ ।

काम॒स्तदग्रे॒ सम॑वर्त्त॒ताधि॑ । मन॑सो॒ रेतः॑ प्रथ॒मं ँयदासी᳚त् ॥ 79

स॒ तो बन्धु॒मस॑ति॒ निर॑विन्दन्न् ।

हृ॒दि-प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ।

ति॒र॒श्चीनो॒ वित॑तो र॒श्मि-रे॑षां । अ॒धस्स्वि॑दा॒सी(3) दु॒परि॑स्विदासी(3)त् ।

रे॒तो॒धा आ॑सन् महि॒मान॑ आसन्न् ।

स्व॒धा अ॒वस्ता॒त् प्रय॑तिः प॒रस्ता᳚त् ।

को अ॒द्धा वे॑द॒क इ॒ह प्रवो॑चत् । कुत॒ आजा॑ता॒ कुत॑ इ॒यं ँविसृ॑ष्टिः । अ॒र्वाग् दे॒वा अ॒स्य वि॒सर्ज॑नाय । अथा॒ को वे॑द॒ यत॑ आ ब॒भूव॑ ॥ 80

इ॒यं ँविसृ॑ष्टि॒र् यत॑ आब॒भूव॑ ।

यदि॑ वा द॒धे यदि॑ वा॒ न । यो अ॒स्याद्ध्य॑क्षः पर॒मे व्यो॑मन्न् । सो अ॒ङ्गवे॑द॒ यदि॑ वा॒ न वेद॑ । किᳺस्वि॒द्वनं॒ क उ॒स वृ॒क्ष आ॑सीत् । यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।

मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒तत् । यद॒द्ध्यति॑ष्ठ॒द् भुव॑नानि धा॒रयन्न्॑ ।

ब्रह्म॒वनं॒ ब्रह्म॒ स वृ॒क्ष आ॑सीत् ।

यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ॥

मनी॑षिणो॒ मन॑सा॒ विब्र॑वीमि वः । ब्रह्मा॒द्ध्यति॑ष्ठ॒द् भुव॑नानि धा॒रयन्न्॑ । 81

1.36 भाग्य सूक्तं

TB 2.8.9.7 to TB 2.8.9.9 for Para 82 to 84

प्रा॒तर॒ग्निं प्रा॒तरिन्द्रꣳ॑ हवामहे ।

प्रा॒तर् मि॒त्रा वरु॑णा प्रा॒तर॒श्विना᳚ ।

प्रा॒तर् भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं᳚ । प्रा॒तस्सोम॑ मु॒त रु॒द्रꣳ हु॑वेम ॥

प्र॒त॒र्जितं॒ भग॑मु॒ग्रꣳ हु॑वेम ।

व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्त्ता ।

आ॒ध्रश्चि॒द्यं मन्य॑मान-स्तु॒रश्चि॑त् ।

राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥ 82

भग॒प्रणे॑त॒र्-भग॒सत्य॑राधः ।

भगे॒मां धिय॒मुद॑व॒ दद॑न्नः ।

भग॒प्रणो॑ जनय॒ गोभि॒रश्वैः᳚ ।

भग॒ प्रनृभि॑र् नृ॒वन्त॑स्स्याम ॥

उ॒तेदानीं॒ भग॑वन्तस्स्याम ।

उ॒त प्रपि॒त्व उ॒त मद्ध्ये॒ अह्नां᳚ ।

उ॒तोदि॑ता मघव॒न्थ्-सूर्य॑स्य ।

व॒यं दे॒वानाꣳ॑ सुम॒तौ स्या॑म ॥

भग॑ ए॒व भग॑वाꣳ अस्तु देवाः ।

तेन॑ व॒यं भग॑वन्त स्स्याम । 83

तन्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि । सनो॑ भग पुर ए॒ता भ॑वे॒ह ॥

सम॑ध्व॒रा-यो॒षसो॑ऽनमन्त । द॒धि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ ।

अ॒र्वा॒ची॒नं ँव॑सु॒विदं॒ भग॑न्नः । रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु ॥

अश्वा॑वती॒र् गोम॑तीर् न उ॒षासः॑ ।

वी॒रव॑ती॒-स्सद॑मुच्छन्तु भ॒द्राः ।

घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑नाः ।

यू॒यं पा॑त स्व॒स्तिभि॒-स्सदा॑नः ॥ 84 (25)

1.37 नक्षत्र सूक्तं(वाक्यं)

TB 3.1.1.1 to T.B.3.1.3.3, for para 85 to 112

1.नक्षत्रं - कृत्तिका देवता - अग्निः

अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः । नक्ष॑त्रं दे॒वमि॑न्द्रि॒यं । इ॒दमा॑सां- ँविचक्ष॒णं ।

ह॒विरा॒सन् जु॑होतन । यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ । यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚ । स कृत्ति॑का भिर॒भि-स॒म् ँवसा॑नः ।

अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु ॥ 1

2. नक्षत्रं - रोहिणी देवता - प्रजापतिः

प्र॒जाप॑ते रोहि॒णी वे॑तु॒ पत्नी᳚ । वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः । 85

सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु । यथा॒ जीवे॑म श॒रद॒स्सवी॑राः । रो॒हि॒णी दे॒व्युद॑गात्

पु॒रस्ता᳚त् । विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना ।

प्र॒जाप॑तिꣳ ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒या दे॒वाना॒-मुप॑यातु य॒ज्ञं ॥ 2

3.नक्षत्रं - मृगशीर्.षः देवता - सोमः

सोमो॒ राजा॑ मृगशी॒र॒.षेण॒ आगन्न्॑ । शि॒वं नक्ष॑त्रं प्रि॒यम॑स्य॒ धाम॑ ।

आ॒प्याय॑मानो बहु॒॒धा जने॑षु ।

रेतः॑ प्र॒जां ँयज॑माने दधातु । 86

यत्ते॒ नक्ष॑त्रं मृगशी॒र्॒.षमस्ति॑ ।

प्रि॒यꣳ रा॑जन् प्रि॒यत॑मं प्रि॒याणां᳚ ।

तस्मै॑ ते सोम ह॒विषा॑ विधेम ।

शन्न॑ एधि द्वि॒पदे॒ शंचतु॑ष्पदे ॥ 3

4. नक्षत्रं - आर्द्रा देवता - रुद्रः

आ॒र्द्रया॑ रु॒द्रः प्रथ॑मा न एति । श्रेष्ठो॑ दे॒वानां॒ पति॑रघ्नि॒यानां᳚ ।

नक्ष॑त्रमस्य ह॒विषा॑ विधेम । मा नः॑ प्र॒जाꣳ री॑रिष॒न् मोत वी॒रान् ।

हे॒ती रु॒द्रस्य॒ परि॑णो वृणक्तु ।

आ॒र्द्रा नक्ष॑त्रं जुषताꣳ ह॒विर्नः॑ । 87

प्र॒मु॒ञ्चमा॑नौ दुरि॒तानि॒ विश्वा᳚ । अपा॒घशꣳ॑ सन्नु-दता॒मरा॑तिं ॥ 4

5.नक्षत्रं - पुनर्वसु देवता - अदितिः

पुन॑र्नो दे॒व्यदि॑तिः स्पृणोतु । पुन॑र्वसू नः॒ पुन॒रेतां᳚ ँय॒ज्ञं । पुन॑र्नो दे॒वा अ॒भिय॑न्तु॒ सर्वे᳚ । पुनः॑ पुनर्वो ह॒विषा॑ यजामः । ए॒वा न दे॒व्यदि॑तिरन॒र्वा । विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा । पुन॑र्वसू ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒यं दे॒वाना॒-मप्ये॑तु॒ पाथः॑ ॥ 5 (88)

6.नक्षत्रं - पुष्यः देवता - बृहस्पतिः

बृह॒स्पतिः॑ प्रथ॒मञ्जाय॑मानः ।

ति॒ष्यं॑ नक्ष॑त्रम॒भि संब॑भूव ।

श्रेष्ठो॑ दे॒वानां॒ पृत॑नासु जि॒ष्णुः ।

दिशो नु॒ सर्वा॒ अभ॑यन्नो अस्तु ।

ति॒ष्यः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॑ । बृह॒स्पति॑र् नः॒ परि॑पातु प॒श्चात् ।

बाधे॑ ता॒न् द्वेषो॒ अभ॑यं कृणुतां । सु॒वीर्य॑स्य॒ पत॑यस् स्याम ॥ 6

7. नक्षत्रं -आश्रेषं देवता - सर्पाः

इ॒दꣳ स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्टं᳚ । आ॒श्रे॒षा येषा॑ मनु॒यन्ति॒ चेतः॑ । 89

ये अ॒न्तरि॑क्षं पृथि॒वीं-क्षि॒यन्ति॑ ।

तेन॑ स्स॒र्पासो॒ हव॒माग॑मिष्ठाः ।

ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः । ये दिवं॑ दे॒वी-मनु॑स॒ञ्चर॑न्ति । येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ कामं᳚ । तेभ्य॑-स्स॒र्पेभ्यो॒ मधु॑-मज्जुहोमि ॥ 7

8.नक्षत्रं - मघा देवता - पितरः

उप॑हूताः पि॒तरो॒ ये म॒घासु॑ । मनो॑जवस-स्सु॒कृत॑-स्सुकृ॒त्याः । ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मिष्ठाः । स्व॒धाभि॑र् य॒ज्ञं प्रय॑तं जुषन्तां । 90

ये अ॑ग्निद॒ग्धा येऽन॑ग्नि-दग्धाः । ये॑ऽमुं ँलो॒कं पि॒तरः॑ क्षि॒यन्ति॑ ।

याᳺश्च॑ वि॒द्मयाꣳ उ॑ च॒ न प्र॑वि॒द्म । म॒घासु॑ य॒ज्ञꣳ सुकृ॑तं जुषन्तां ॥ 8

9.नक्षत्रं - पूर्वफल्गु॑नी देवता - अर्यमा

गवां॒ पतिः॒ फल्गु॑नी-नामसि॒ त्वं । तद॑र्‌यमन् वरुण मित्र॒ चारु॑ । तंत्वा॑ व॒यꣳ स॑नि॒तारꣳ॑ सनी॒नां । जी॒वा जीव॑न्त॒मुप॒ सम् ँवि॑शेम । येने॒मा विश्वा॒ भुव॑नानि॒

सञ्जि॑ता । यस्य॑ दे॒वा अ॑नुस॒ ँय्यन्ति॒ चेतः॑ । 91

अ॒र्य॒मा राजा॒ऽजर॒स्तु वि॑ष्मान् । फल्गु॑नीना-मृष॒भो रो॑रवीति ॥ 9

10.नक्षत्रं - उत्तर फ॑ल्गुनी देवता - भगः

श्रेष्ठो॑ दे॒वानां᳚ भगवो भगासि । तत्त्वा॑ विदुः॒ फल्गु॑नी॒-स्तस्य॑ वित्तात् ।

अ॒स्मभ्यं॑-क्ष॒त्रम॒जरꣳ॑ सु॒वीर्यं᳚ । गोम॒दश्व॑-व॒दुप॒सन्नु॑-दे॒ह ।

भगो॑ह दा॒ता भग॒ इत्प्र॑दा॒ता । भगो॑ दे॒वीः फल्गु॑नी॒-रावि॑वेश । भग॒स्येत्तं प्र॑स॒वं ग॑मेम । यत्र॑ दे॒वै-स्स॑ध॒मादं॑ मदेम । ॥ 10/ 92

11.नक्षत्रं - हस्तः देवता - सवित

आया॑तु दे॒व-स्स॑वि॒तो प॑यातु । हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न । वह॒न॒. हस्तꣳ॑ सु॒भगं॑ ँविद्म॒नाप॑सं । प्र॒यच्छ॑न्तं॒ पपु॑रिं॒ पुण्य॒मच्छ॑ । हस्तः॒ प्रय॑च्छ त्व॒मृतं॒ ँवसी॑यः । दक्षि॑णेन॒ प्रति॑गृभ्णीम एनत् ।

दा॒तार॑-म॒द्य स॑वि॒ता वि॑देय । यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञं ॥ 11

12. नक्षत्रं - चित्रा देवता - त्वष्टा

त्वष्टा॒ नक्ष॑त्र-म॒भ्ये॑ति चि॒त्रां । सु॒भꣳ स॑सं- ँयुव॒तिꣳ रोच॑मानां । 93

नि॒वे॒शय॑न्न॒-मृता॒न् मर्त्याᳺ॑श्च ।

रू॒पाणि॑ पि॒ꣳ॒शन् भुव॑नानि॒ विश्वा᳚ ।

तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टां । तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यं᳚ ।

तन्नः॑ प्र॒जां ँवी॒रव॑तीꣳ सनोतु ।

गोभि॑र्नो॒ अश्वै॒-स्सम॑नक्तु य॒ज्ञं ॥ 12

13.नक्षत्रं - स्वाती देवता - वायुः

वा॒युर् नक्ष॑त्र-म॒भ्ये॑ति॒ निष्ट्यां᳚ । ति॒ग्मशृं॑गो वृष॒भो रोरु॑वाणः ।

स॒मी॒रय॒न् भुव॑ना मात॒रिश्वा᳚ । अप॒ द्वेषाꣳ॑सि नुदता॒मरा॑तीः । 94

तन्नो॑ वा॒युस्तदु॒ निष्ट्या॑ श्रृणोतु । तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यं᳚ ।

तन्नो॑ दे॒वासो॒ अनु॑ जानन्तु॒ कामं᳚ ।

यथा॒ तरे॑म दुरि॒तानि॒ विश्वा᳚ ॥ 13

14.नक्षत्रं - विशाखा देवता - इन्द्राग्नीः

दू॒र-म॒स्मच्छत्र॑वो यन्तु भी॒ताः । तदि॑न्द्रा॒ग्नी कृ॑णुतां॒ तद् विशा॑खे । तन्नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञं । प॒श्चात् पु॒रस्ता॒-दभ॑यन्नो अस्तु ।

नक्ष॑त्राणा॒-मधि॑पत्नी॒ विशा॑खे ।

श्रेष्ठा॑-विन्द्रा॒ग्नी भुव॑नस्य गो॒पौ । 95

विषू॑च॒-श्शत्रू॑नप॒बाध॑मानौ । अप॒क्षुध॑-न्नुदता॒मरा॑तिं । ॥ 14

15. पौर्णमासि

पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता᳚त् । उन्म॑ध्य॒तः पौ᳚र्णमा॒सी जि॑गाय ।

तस्यां᳚ दे॒वा अधि॑ स॒म् ँवस॑न्तः ।

उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्तां ।

पृ॒थ्वी सु॒वर्चा॑ युव॒ति-स्स॒जोषाः᳚ । पौ॒र्ण॒मा॒स्युद॑गा॒-च्छोभ॑माना ।

आ॒प्या॒य-य॑न्ती दुरि॒तानि॒ विश्वा᳚ । उ॒रुं दुहां॒ य ँज॑मानाय य॒ज्ञं ॥ 15/96 (26)

16.नक्षत्रं - अनूराधा देवता - मित्रः

ऋ॒द्ध्यास्म॑ ह॒व्यैर् नम॑सोप॒सद्य॑ ।

मि॒त्रं दे॒वं मि॑त्र॒धेय॑न्नो अस्तु ।

अ॒नू॒रा॒धान्. ह॒विषा॑ व॒र्द्धय॑न्तः ।

श॒तं जी॑वेम श॒रद॒स्सवी॑राः ।

चि॒त्रं-नक्ष॑त्र॒-मुद॑गात् पु॒रस्ता᳚त् । अ॒नू॒रा॒धास॒ इति॒ यद् वद॑न्ति ।

तन्मि॒त्र ए॑ति प॒थिभि॑र् देव॒यानैः᳚ ।

हि॒र॒ण्ययै॒र् वित॑तै-र॒न्तरि॑क्षे ॥ 16

17.नक्षत्रं - ज्येष्ठा देवता - इन्द्रः

इन्द्रो᳚ ज्ये॒ष्ठा मनु॒ नक्ष॑त्रमेति । यस्मि॑न् वृ॒त्रं ँवृ॑त्र॒ तूर्ये॑ त॒तार॑ । 97

तस्मि॑न् व॒य-म॒मृतं॒ दुहा॑नाः । क्षुध॑न्तरेम॒ दुरि॑तिं॒ दुरि॑ष्टिं ।

पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे᳚ । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ ।

इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द्दुहा॑ना ।

उ॒रुं कृ॑णोतु॒ यज॑मानाय लो॒कं ॥ 17

18.नक्षत्रं - मूलं देवता - प्रजापतिः

मूलं॑ प्र॒जां ँवी॒रव॑तीं ँविदेय । परा᳚च्येतु॒ निर्.ऋ॑तिः परा॒चा । गोभि॒र् नक्ष॑त्रं प॒शुभि॒-स्सम॑क्तं । अह॑र् भूया॒द् यज॑मानाय॒ मह्यं᳚ । 98

अह॑र्नो अ॒द्य सु॑वि॒ते द॑धातु ।

मूलं॒ नक्ष॑त्र॒मिति॒ यद् वद॑न्ति ।

परा॑चीं ँवा॒चा निर्.ऋ॑तिं नुदामि ।

शि॒वं प्र॒जायै॑ शि॒वम॑स्तु॒ मह्यं᳚ ॥ 18

19.नक्षत्रं - पूर्वाषाढा देवता - आपः

या दि॒व्या आपः॒ पय॑सा संबभू॒वुः । या अ॒न्तरि॑क्ष उ॒त पार्त्थि॑वी॒र्याः ।

यासा॑मषा॒ढा अ॑नु॒यन्ति॒ कामं᳚ । ता न॒ आपः॒ शᳺ स्यो॒ना भ॑वन्तु । याश्च॒ कूप्या॒ याश्च॑ ना॒द्या᳚-स्समु॒द्रियाः᳚ । याश्च॑ वैश॒न्तीरु॒त प्रा॑स॒चीर्याः । 99

यासा॑मषा॒ढा मधु॑ भ॒क्षय॑न्ति ।

ता न॒ आपः॒ शᳺ स्यो॒ना भ॑वन्तु ॥ 19

20.नक्षत्रं - उत्तराषाढा देवता - विश्वेदेवः

तन्नो॒ विश्वे॒ उप॑ शृण्वन्तु दे॒वाः । तद॑षा॒ढा अ॒भि सम् ँय॑न्तु य॒ज्ञं ।

तन्नक्ष॑त्रं प्रथतां प॒शुभ्यः॑ ।

कृ॒षिर् वृ॒ष्टिर् यज॑मानाय कल्पतां ।

शु॒भ्राः क॒न्या॑ युव॒तय॑-स्सु॒पेश॑सः । क॒र्म॒कृत॑-स्सु॒कृतो॑ वी॒र्या॑वतीः ।

विश्वा᳚न् दे॒वान्. ह॒विषा॑ व॒र्द्धय॑न्तीः । अ॒षा॒ढाः काम॒ मुप॑यान्तु य॒ज्ञं ॥ 20/100

21.नक्षत्रं - अभिजिद देवता - ब्रह्मा

यस्मि॒न् ब्रह्मा॒ऽभ्यज॑य॒थ् सर्व॑मे॒तत् । अ॒मुञ्च॑ लो॒क मि॒दमू॑च॒ सर्वं᳚।

तन्नो॒ नक्ष॑त्र-मभि॒जिद् वि॒जित्य॑ । श्रियं॑ दधा॒त्वहृ॑णीयमानं । उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ । तन्नो॒ नक्ष॑त्र-मभि॒जिद् विच॑ष्टां । तस्मि॑न् व॒यं पृत॑ना॒ स्संज॑येम ।

तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ कामं᳚ ॥ 21

22.नक्षत्रं - श्रवणं देवता - विष्णुः

शृ॒ण्वन्ति॑ श्रो॒णा-म॒मृत॑स्य गो॒पां । पुण्या॑मस्या॒ उप॑शृणोमि॒ वाचं᳚ । 101

म॒हीं दे॒वीं ँविष्णु॑पत्नी मजू॒र्यां ।

प्र॒तीची॑ मेनाꣳ ह॒विषा॑ यजामः ।

त्रे॒धा विष्णु॑-रुरुगा॒यो विच॑क्रमे ।

म॒हीं दिवं॑ पृथि॒वी-म॒न्तरि॑क्षं ।

तच्छ्रो॒णैति॒ श्रव॑-इ॒च्छमा॑ना । पुण्य॒ᳺ॒ श्लोकं॒ ँयज॑मानाय कृण्व॒ती ॥ 22

23.नक्षत्रं - श्रविष्टा देवता - वसवः

अ॒ष्टौ दे॒वा वस॑वस्सो॒म्यासः॑ ।

चत॑स्रो दे॒वी र॒जराः॒ श्रवि॑ष्ठाः ।

ते य॒ज्ञं पा᳚न्तु॒ रज॑सः प॒रस्ता᳚त् । स॒म् ँव॒थ्स॒रीण॑-म॒मृतᳺ॑ स्व॒स्ति । 102

य॒ज्ञं नः॑ पान्तु॒ वस॑वः पु॒रस्ता᳚त् । द॒क्षि॒ण॒तो॑-ऽभिय॑न्तु॒ श्रवि॑ष्ठाः ।

पुण्य॒न्नक्ष॑त्रम॒भि सम् ँवि॑शाम ।

मा नो॒ अरा॑ति-र॒घश॒ꣳ॒ सागन्न्॑ ॥ 23

24.नक्षत्रं - शतभिषक् देवता - वरुणः

क्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः । नक्ष॑त्राणाꣳ श॒तभि॑ष॒ग् वसि॑ष्ठः ।

तौ दे॒वेभ्यः॑ कृणुतो दी॒र्घमायुः॑ । श॒तꣳ स॒हस्रा॑ भेष॒जानि॑ धत्तः ।

य॒ज्ञन्नो॒ राजा॒ वरु॑ण॒ उप॑यातु ।

तन्नो॒ विश्वे॑ अ॒भिसम् ँय॑न्तु दे॒वाः । 103

तन्नो॒ नक्ष॑त्रꣳ श॒तभि॑षग् जुषा॒णं । दी॒र्घमायुः॒ प्रति॑रद् भेष॒जानि॑ ॥ 24

25.नक्षत्रं - पूर्वप्रोष्ठपदा देवता - अजयेकपादः

अ॒ज एक॑पा॒-दुद॑गात् पु॒रस्ता᳚त् ।

विश्वा॑ भू॒तानि॑ प्रति॒ मोद॑मानः ।

तस्य॑ दे॒वाः प्र॑स॒वं ँय॑न्ति॒ सर्वे᳚ । प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः ।

वि॒भ्राज॑मान-स्समिधा॒न उ॒ग्रः ।

आऽन्तरि॑क्ष-मरुह॒द-ग॒न्द्यां ।

तꣳ सूर्यं॑ दे॒व-म॒जमेक॑पादं । प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे᳚ ॥ 25 / 104

26.नक्षत्रं - उत्तरप्रोष्ठपदा देवता - अहिर्बुद्ध्नियः

अहि॑ र्बु॒द्ध्नियः॒ प्रथ॑मान एति ।

श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणां ।

तं ब्रा᳚ह्म॒णा-स्सो॑म॒पा-स्सो॒म्यासः॑ । प्रो॒ष्ठ॒प॒दासो॑ अ॒भिर॑क्षन्ति॒ सर्वे᳚ ।

च॒त्वार॒ एक॑म॒भि कर्म॑ दे॒वाः । प्रो॒ष्ठ॒प॒दास॒ इति॒ यान्. वद॑न्ति ।

ते बु॒द्धनियं॑ परि॒षद्यᳺ॑ स्तु॒वन्तः॑ । अहिꣳ॑ रक्षन्ति॒ नम॑सोप॒सद्य॑ ॥ 26

27.नक्षत्रं - रेवती देवता - पूषा

पू॒षा रे॒वत्यन्वे॑ति॒ पन्थां᳚ । पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ । 105

इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा ।

सु॒गैर्नो॒ यानै॒रुप॑यातां ँय॒ज्ञं ।

क्षु॒द्रान् प॒शून् र॑क्षतु रे॒वती॑ नः ।

गावो॑ नो॒ अश्वा॒ꣳ॒ अन्वे॑तु पू॒षा ।

अन्न॒ꣳ॒ रक्ष॑न्तौ बहु॒॒धा विरू॑पं । वाजꣳ॑ सनुतां॒ ँयज॑मानाय य॒ज्ञं ॥ 27

28 नक्षत्रं - अश्विनी देवता - अश्विनी देव

तद॒श्विना॑-वश्व॒युजोप॑यातां । शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ ।

स्वन्नक्ष॑त्रꣳ ह॒विषा॒ यज॑न्तौ ।

मध्वा॒ संपृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ । 106

यौ दे॒वानां᳚ भि॒षजौ॑ हव्यवा॒हौ ।

विश्व॑स्य दू॒ता-व॒मृत॑स्य गो॒पौ ।

तौ नक्ष॑त्रं-जुजुषा॒णो-प॑यातां । नमो॒ऽश्विभ्यां᳚ कृणुमो-ऽश्व॒युग्भ्यां᳚ ॥ 28

29.नक्षत्रं - अपभरणी देवता - यमः

अप॑ पा॒प्मानं॒ भर॑णीर् भरन्तु । तद् य॒मो राजा॒ भग॑वा॒न्॒. विच॑ष्टां । लो॒कस्य॒ राजा॑ मह॒तो म॒हान्. हि । सु॒गन्नः॒ पन्था॒मभ॑यं कृणोतु ।

यस्मि॒न् नक्ष॑त्रे य॒म एति॒ राजा᳚ । यस्मि॑न्नेन-म॒भ्यषिं॑चन्त दे॒वाः । तद॑स्य चि॒त्रꣳ ह॒विषा॑ यजाम । अप॑ पा॒प्मानं॒ भर॑णीर् भरन्तु ॥ 29

30.अमावासि

नि॒वेश॑नी॒ यत्ते॑ दे॒वा अद॑धुः ।

Below is the full text o the concised Mantra given in “italics” above.

This concised Mantra is formed by adding the First word/part from the first part of the first para , 2nd word /part from first part of Second para of Full Mantra which is given below. Add the Underlined words of the full Mantra to arrive at the above concised Mantra. It is more appropriate to chant the full version as given below. Please refer to your Guru for any clarifications/Explanations.

नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑नां॒ ँविश्वा॑ रू॒पाणि॒ वसू᳚न्या-वे॒शय॑न्ती ।

स॒ह॒स्र॒पो॒षꣳ सु॒भगा॒ ररा॑णा॒ सा न॒ आग॒न् वर्च॑सा सम ँविदा॒ना ।

यत्ते॑ दे॒वा अद॑धुर् भाग॒धेय॒-ममा॑वास्ये स॒म् ँवस॑न्तो महि॒त्वा ।

सा नो॑ य॒ज्ञं पि॑पृहि विश्ववारे र॒यिन्नो॑ धेहि सुभगे सु॒वीरं᳚ ॥ 30/107 (27)

This Expansion is appearing in TS 3.5.1.1

31.चन्द्रमा

नवो॑ नवो भवति॒ जाय॑मानो॒ यमा॑दि॒त्या अ॒ꣳ॒शुमा᳚-प्या॒यय॑न्ति ।

Below is the full text o the concised Mantra given in “italics” above.

This concised Mantra is formed by adding the First word/part from the first part of the first para , 2nd word /part from first part of Second para of Full Mantra which is given below. Add the Underlined words of the full Mantra to arrive at the above concised Mantra. It is more appropriate to chant the full version as given below. Please refer to your Guru for any clarifications/Explanations.

नवो॑ नवो भवति॒ जाय॑मा॒नाऽह्नां᳚ के॒तु-रु॒षसा॑ मे॒त्यग्रे᳚ ।

भा॒गं दे॒वेभ्यो॒ विद॑धात्या॒यन् प्रच॒न्द्रमा᳚स्तिरति दी॒र्घमायुः॑ ।

यमा॑दि॒त्या अ॒ꣳ॒शुमा᳚प्या॒यय॑न्ति॒ यमक्षि॑त॒-मक्षि॑तयः॒ पिब॑न्ति ।

तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒ राप्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ।

This Expansion is appearing in TS 2.4.14.1

32. अहो रात्र

ये विरू॑पे॒ सम॑नसा स॒म् ँव्यय॑न्ती ।

स॒मा॒नं तन्तुं॑ परिता-त॒नाते᳚ ।

वि॒भू प्र॒भू अ॑नु॒भू वि॒श्वतो॑ हुवे ।

ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मेतं ।

व॒यं दे॒वी ब्रह्म॑णा सम् ँविदा॒नाः । सु॒रत्ना॑सो दे॒ववी॑तिं॒ दधा॑नाः । 108

अ॒हो॒रा॒त्रे ह॒विषा॑ व॒र्द्धय॑न्तः ।

अति॑ पा॒प्मान॒-मति॑मुक्त्या गमेम ॥

33. उषा

प्रत्यु॑व दृश्याय॒ती । व्यु॒च्छन्ती॑ दुहि॒ता दि॒वः ।

अ॒पो म॒ही वृ॑णुते॒ चक्षु॑षा । तमो॒ ज्योति॑ष्-कृणोति सू॒नरी᳚ । उदु॒स्रिया᳚ स्सचते॒ सूर्यः॑ । स चा॑ उ॒द्यन्नक्ष॑त्र मर्चि॒मत् । तवे दु॑षो॒ व्युषि॒ सूर्य॑स्य च । संभ॒क्तेन॑ गमेमहि ॥ 109

34. नक्षत्रः

तन्नो॒ नक्ष॑त्र मर्चि॒मत् । भा॒नु॒मत्तेज॑ उ॒च्चर॑त् । उप॑ य॒ज्ञमि॒हाग॑मत् । प्रनक्ष॑त्राय दे॒वाय॑ । इन्द्रा॒येन्दुꣳ॑ हवामहे ।

स न॑ स्सवि॒ता सु॑वथ् स॒निं । पु॒ष्टि॒दां ँवी॒रव॑त्तमं ॥

35. सूर्यः

उदु॒त्यं चि॒त्रं ॥

Below is the full text o the concised Mantra given in “italics” above. This concised Mantra is formed by adding the First word/part from the first part of the first para , 2nd word /part from first part of Second para of Full Mantra which is given below. Add the Underlined words of the full Mantra to arrive at the above concised Mantra. It is more appropriate to chant the full version as given below. Please refer to your Guru for any clarifications/Explanations.

उदु॒त्यं जा॒तवे॑दसं दे॒वं ँव॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्यं᳚ ।

चि॒त्रं दे॒वाना॒ मुद॑गा॒दनी॑कं॒ चक्षु॑र् मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । 110

आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥

This Expansion is appearing in T.S.1.4.43.1

36. अदितिः

अदि॑तिर्न उरुष्यतु म॒हीमू॒षु मा॒तरं᳚ ॥

Below is the full text of the concised Mantra given in “italics” above. See notes above.

अदि॑तिर्न उरुष्य॒-त्वदि॑तिः॒ शर्म॑ यच्छतु । अदि॑तिः पा॒त्वꣳ ह॑सः ॥

म॒हीमू॒षु मा॒तरꣳ॑ सुव्र॒ताना॑-मृ॒तस्य॒ पत्नी॒ मव॑से हुवेम । तु॒वि॒क्ष॒त्रा-म॒जर॑न्ती मुरू॒चीꣳ सु॒शर्मा॑ण॒-मदि॑तिꣳ सु॒प्रणी॑तिं ।

This Expansion is appearing in T.S.1.5.11.5

37. विष्णुः

इ॒दं ँविष्णु॒ प्रतद्विष्णुः॑ ॥

Below is the full text of the concised Mantra given in “italics” above. See notes above

इ॒दं ँविष्णु॒र् विच॑क्रमे त्रे॒धा निद॑धे प॒दं । समू॑ढमस्य पाꣳ सु॒रे ॥

प्रतद्विष्णु॑स् स्तवते वी॒र्या॑य । मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः।

यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु । अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ ॥ 111

This Expansion is appearing in TS 1.2.13.1

This Expansion is appearing in TB 2.4.3.4

38. अग्निः

अ॒ग्निर् मू॒र्धा भुवः॑ ॥

Below is the full text of the concised Mantra given in “italics” above. See notes above

अ॒ग्निर् मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यं ।

अ॒पाꣳ रेताꣳ॑सि जिन्वति ॥

भुवा॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ ।

दि॒वि मू॒र्धानं॑ दधिषे सुव॒र्॒.षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाहं᳚ ।

This Expansion is appearing in T.S.4.4.4.1

39. अनुमती

अनु॑नो॒-ऽद्यानु॑मति॒-रन्विद॑नुमते॒ त्वं ॥

Below is the full text of the concised Mantra given in “italics” above. See notes above

अनु॑नो॒ऽद्यानु॑मति र्य॒ज्ञं दे॒वेषु॑ मन्यतां ।

अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तां दा॒शुषे॒ मयः॑ ।

अन्विद॑नुमते॒ त्वं मन्या॑सै॒ शंच॑ नः कृधि ।

क्रत्वे॒ दक्षा॑य नो हिनु॒ प्रण॒ आयूꣳ॑षि तारिषः ।

This Expansion is appearing in TS 3.3.11.3

40. हव्यवाहः (अग्निः)

ह॒व्य॒वाह॒ᳺ॒ स्वि॑ष्टं ॥

Below is the full text of the concised Mantra given in “italics” above. See notes above

ह॒व्य॒वाह॑मभि-माति॒षाहं᳚ ।

र॒क्षो॒हणं॒ पृत॑नासु जि॒ष्णुं ।

ज्योति॑ष्मन्तं॒ दीद्य॑तं॒ पुर॑न्धिं ।

अ॒ग्निᳺ स्वि॑ष्ट॒ कृत॒मा हु॑वेम ।

स्विव॑ष्ट मग्ने अ॒भितत् पृ॑णाहि ।

विश्वा॑ देव॒ पृत॑ना अ॒भिष्य ।

उ॒रुन्नः॒ पन्थां᳚ प्रदि॒शन् विभा॑हि ।

ज्योति॑ष्मद्धेह्य॒ जर॑न्न॒ आयुः॑ ॥ 112/28

This Expansion is appearing in TB 2.4.1.4

1.38 नक्षत्र उपहोम मन्त्राः

TB 3.1.4.1 to T.B.3.1.5.15 for full item No.1.38

1. कृत्तिका

अ॒ग्नये॒ स्वाहा॒ कृत्ति॑काभ्य॒ स्स्वाहा᳚ ।

अ॒बांयै॒ स्वाहा॑ दु॒लायै॒ स्वाहा᳚ ।

नि॒त॒त्न्यै स्वाहा॒ ऽभ्रय॑न्त्यै॒ स्वाहा᳚ ।

मे॒घय॑न्त्यै॒ स्वाहा॑ व॒र्॒.षय॑न्त्यै॒ स्वाहा᳚ ।

चु॒पु॒णीका॑यै॒ स्वाहा᳚ ॥

2. रोहिणी

प्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा᳚ ।

रोच॑मानायै॒ स्वाहा᳚ प्र॒जाभ्य॒स् स्वाहा᳚ ॥

3.मृगशी.र्‌षः

सोमा॑य॒ स्वाहा॑ मृगशी॒र्॒.षाय॒ स्वाहा᳚ ।

इ॒न्व॒काभ्य॒ स्स्वाहौष॑धीभ्य॒ स्स्वाहा᳚ ।

रा॒ज्याय॒ स्वाहा॒-ऽभिजि॑त्यै॒ स्वाहा᳚ ॥ 113

4. आर्द्रा

रु॒द्राय॒ स्वाहा॒ऽऽर्द्रायै॒ स्वाहा᳚ ।

पिन्व॑मानायै॒ स्वाहा॑ प॒शुभ्य॒ स्स्वाहा᳚ ॥

5. पुनर्वसु

अदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्यां ।

स्वाहा भू᳚त्यै॒ स्वाहा॒ प्रजा᳚त्यै॒ स्वाहा᳚ ॥

6.पुष्यः‌

बृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वाहा᳚ । ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहा᳚ ॥

7. आश्रेष

स॒र्पेभ्य॒ स्स्वाहा᳚ ऽऽश्रे॒षाभ्य॒ स्स्वाहा᳚ ।

द॒न्द॒शूके᳚भ्य॒ स्स्वाहा᳚ ॥

8. मघा

पि॒तृभ्य॒ स्स्वाहा॑ म॒घाभ्यः॑ ।

स्वाहा॑ ऽन॒घाभ्य॒ स्स्वाहा॑ ऽग॒दाभ्यः॑ ।

स्वाहा॑रुन्ध॒तीभ्य॒ स्स्वाहा᳚ ॥ 114

9.पूर्व फ॑ल्गुनी

अ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्या॒ᳺ॒ स्वाहा᳚ ।

प॒शुभ्य॒ स्स्वाहा᳚ ॥

10. उत्तर फ॑ल्गुनी

भगा॑य॒ स्वाहा॒ फल्गु॑नीभ्या॒ᳺ॒ स्वाहा᳚ ।

श्रैष्ठ्या॑य॒ स्वाहा᳚ ॥

11. हस्तः

स॒वि॒त्रे स्वाहा॒ हस्ता॑य ।

स्वाहा॑ दद॒ते स्वाहा॑ पृण॒ते ।

स्वाहा᳚ प्र॒यच्छ॑ते॒ स्वाहा᳚ प्रतिगृभ्ण॒ते स्वाहा᳚ ॥

12. चित्रा

त्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा᳚ ।

चैत्रा॑य॒ स्वाहा᳚ प्र॒जायै॒ स्वाहा᳚ ॥

13. स्वाति

वा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा᳚ ।

का॒म॒चारा॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥

14. विशाखा

इ॒न्द्रा॒ग्निभ्या॒ᳺ॒ स्वाहा॒ विशा॑खाभ्या॒ᳺ॒

स्वाहा᳚ । श्रैष्ठ्या॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥

15. पौर्णमासि

पौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहा ग॑त्यै॒ स्वाहा᳚ ॥ 115 (29)

16. अनूराधा

मि॒त्राय॒ स्वाहा॑-ऽनूरा॒धेभ्य॒ स्स्वाहा᳚ ।

मि॒त्र॒धेया॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ ॥

17. ज्येष्ठा

इन्द्रा॑य॒ स्वाहा᳚ ज्ये॒ष्ठायै॒ स्वाहा᳚ ।

ज्यैष्ठ्या॑य॒ स्वाहा॒-ऽभिजि॑त्यै॒ स्वाहा᳚ ॥

18. मूलं

प्र॒जाप॑तये॒ स्वाहा॒ मूला॑य॒ स्वाहा᳚ । प्र॒जायै॒ स्वाहा᳚ ॥

19. पूर्वाषाढा

अ॒द्भ्य स्स्वाहा॑ ऽषा॒ढाभ्य॒ स्स्वाहा᳚ ।

स॒मु॒द्राय॒ स्वाहा॒ कामा॑य॒ स्वाहा᳚ ।

अ॒भिजि॑त्यै॒ स्वाहा᳚ ॥

20. उत्तराषाढा

विश्वे᳚भ्यो दे॒वेभ्य॒ स्स्वाहा॑ ऽषा॒ढाभ्य॒ स्स्वाहा᳚ ।

अ॒न॒प॒ज॒य्याय॒ स्वाहा॒ जित्यै॒ स्वाहा᳚ ॥ 116

21. अभिजित्

ब्रह्म॑णे॒ स्वाहा॑ ऽभि॒जिते॒ स्वाहा᳚ ।

ब्र॒ह्म॒लो॒काय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥

22. श्रवणं

विष्ण॑वे॒ स्वाहा᳚ श्रो॒णायै॒ स्वाहा᳚ ।

श्लोका॑य॒ स्वाहा᳚ शृ॒ताय॒ स्वाहा᳚ ॥

23. श्रविष्ठा

वसु॑भ्य॒ स्स्वाहा॒ श्रवि॑ष्ठाभ्य॒ स्स्वाहा᳚ ।

अग्रा॑य॒ स्वाहा॒ परी᳚त्यै॒ स्वाहा᳚ ॥

24. शतभिषक्

वरु॑णाय॒ स्वाहा॑ श॒तभि॑षजे॒ स्वाहा᳚ ।

भे॒ष॒जेभ्य॒ स्स्वाहा᳚ ॥

25. पूर्व प्रोष्ठपदा

अ॒जायैक॑पदे॒ स्वाहा᳚ प्रोष्ठप॒देभ्य॒

स्स्वाहा᳚ । 117

तेज॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहा᳚ ॥

26. उत्तर प्रोष्ठपदा

अह॑ये बु॒ध्निया॑य॒ स्वाहा᳚ प्रोष्ठप॒देभ्य॒ स्स्वाहा᳚ ।

प॒ति॒ष्ठायै॒ स्वाहा᳚ ॥

27. रेवति

पू॒ष्णे स्वाहा॑ रे॒वत्यै॒ स्वाहा᳚ ।

प॒शुभ्य॒ स्स्वाहा᳚ ॥

28. अश्विनी

अ॒श्विभ्या॒ᳺ॒ स्वाहा᳚ ऽश्व॒युग्भ्या॒ᳺ॒ स्वाहा᳚।

श्रोत्रा॑य॒ स्वाहा॒ शृत्यै॒ स्वाहा᳚ ॥

29. अपभरणि

य॒माय॒ स्वाहा॑ ऽप॒भर॑णीभ्य॒ स्स्वाहा᳚ ।

रा॒ज्याय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥

30. अमावासि

अ॒म॒वा॒स्या॑यै॒ स्वाहा॒ कामा॑य॒ स्वाहा ऽऽग॑त्यै॒ स्वाहा᳚ ॥ 118 (30)

31. चन्द्रमा

च॒न्द्रम॑से॒ स्वाहा᳚ प्रती॒दृश्या॑यै॒ स्वाहा᳚ ।

अ॒हो॒रा॒त्रेभ्य॒ स्स्वाहा᳚-ऽर्द्धमा॒सेभ्य॒

स्स्वाहा᳚ ।

मासे᳚भ्य॒ स्स्वाह॒र्तुभ्य॒ स्स्वाहा᳚ । सं॒ ँवं॒थ्स॒राय॒ स्वाहा᳚ ॥

32. अहो रात्री

अह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाहा᳚ ।

अति॑मुक्त्यै॒ स्वाहा᳚ ॥

33. उषा

उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहा᳚ ।

व्यू॒षुष्यै॒ स्वाहा᳚ व्यु॒च्छन्त्यै॒ स्वाहा᳚ ।

व्यु॑ष्टायै॒ स्वाहा᳚ ॥

34. नक्षत्रः

नक्ष॑त्राय॒ स्वाहो॑देष्य॒ते स्वाहा᳚ । 119

उ॒द्य॒ते स्वाहो-दि॑ताय॒ स्वाहा᳚ ।

हर॑से॒ स्वाहा॒ भर॑से॒ स्वाहा᳚ ।

भ्राज॑से॒ स्वाहा॒ तेज॑से॒ स्वाहा᳚ ।

तप॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहा᳚ ॥

35. सूर्यः

सूर्या॑य॒ स्वाहा॒ नक्ष॑त्रेभ्य॒ स्स्वाहा᳚ ।

प्र॒ति॒ष्ठायै॒ स्वाहा᳚ ॥

36. अदितिः

अदि॑त्यै॒ स्वाहा᳚ प्रति॒ष्ठायै॒ स्वाहा᳚ ॥

37. विष्णुः

विष्ण॑वे॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहा᳚ ॥ 120

द॒धि॒क्राव्ण्णो॑ अकारिषं

TS 7.4.19.4 for para 121

द॒धि॒क्राव्ण्णो॑ अकारिषं जि॒ष्णो रश्व॑स्य वा॒जिनः॑ । सु॒र॒भि नो॒ मुखा॑ कर॒त् प्रण॒ आयूꣳ॑षि तारिषत् ।

आपो॒हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से । यो व॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ 121 (32)

1.39 वरुण सूक्तं

(TS 1.5.11.3)

उदु॑त्त॒मं ँव॑रुण॒ पाश॑म॒स्म-दवा॑ध॒मं ँविम॑ध्य॒मᳺ श्र॑थाय ।

अथा॑व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥

(TS 1.2.8.1 )

अस्त॑भ्ना॒द्या-मृ॑ष॒भो अ॒न्तरि॑क्ष॒-ममि॑मीत-वरि॒माणं॑ पृथि॒व्या

आऽसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड् विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥

(TS 3.4.11.6)

यत्किञ्चे॒दं ँ व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या᳚-श्चरा॑मसि ।

अचि॑त्ती॒-यत्तव॒-धर्मा॑ युयोपि॒म-मान॒स्तस्मा॒ देन॑सो देव रीरिषः ॥

(TS 3.4.11.6)

कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्य-मु॒तयन्न वि॒द्म ।

सर्वा॒ताविष्य॑ शिथि॒रेव॑ दे॒वाथा॑ते-स्याम वरुण प्रि॒यासः॑ ॥

(TS 1.5.11.3)

अव॑ते॒हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञे-भि॑रीमहे ह॒विर्भिः॑ ।

क्षय॑न्न॒ स्मभ्य॑ मसुर-प्रचेतो॒ राज॒न्नेनाꣳ॑सि शिश्रथः कृ॒तानि॑ ॥

(T.S. 2.1.11.6)

तत्वा॑यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒ स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ ।

अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शꣳ स॒ मा न॒ आयुः॒ प्रमो॑षीः ॥ 122 (33)

1.40 पवमान सूक्तं

TS 5,6.1.1

हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निं ँया गर्भं॑दधि॒रे विरू॑पा॒स्ता न॒ आप॒श्शᳺ

स्यो॒ना भ॑वन्तु ॥

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नां ।

म॒धु॒श्चुत॒-श्शुच॑यो॒याः पा॑व॒कास्ता न॒ आप॒श्शᳺ स्यो॒ना भ॑वन्तु ॥

यासां᳚ दे॒वादि॒वि कृ॒ण्वन्ति॑ भ॒क्षं ँया अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।

याः पृ॑थि॒वीं पय॑सो॒न्दन्ति॑ शु॒क्रास्ता न॒ आप॒श्शᳺ स्यो॒ना भ॑वन्तु ॥

शि॒वेन॑ मा॒ चक्षु॑षा पश्यताप श्शि॒वया॑ त॒नुवो-प॑स्पृशत॒ त्वच॑में ।

सर्वाꣳ॑ अ॒ग्नीꣳ र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ निध॑त्त ॥ 123 (34)

TB 1.4.8.1 (for item NO. 124 to 129)

पव॑मान॒-स्सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्.षणिः । यः पोता॒ स पु॑नातु मा ।

पु॒नन्तु॑ मा देवज॒नाः । पु॒नन्तु॒ मन॑ वोधि॒या । पु॒नन्तु॒ विश्व॑ आ॒यवः॑ । जात॑वेदः प॒वित्र॑वत् । प॒वित्रे॑ण पुनाहि मा । शु॒क्रेण॑ देव॒ दीद्य॑त् ।

अग्ने॒ क्रत्वा॒-क्रतू॒ꣳ॒ रनु॑ ॥ 124

यत्ते॑ प॒वित्र॑-म॒र्चिषि॑ । अग्ने॒ वित॑त-मन्त॒रा । ब्रह्म॒ तेन॑ पुनीमहे । उ॒भाभ्यां᳚ देव सवितः । प॒वित्रे॑ण स॒वेन॑ च । इ॒दं ब्रह्म॑ पुनीमहे ।

वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा᳚त् । यस्यै॑ ब॒ह्वी-स्त॒नुवो॑ वी॒तपृ॑ष्ठाः । तया॒ मद॑न्त-स्सध॒माद्ये॑षु । व॒यᳺ स्या॑म॒ पत॑योरयी॒णां ॥ 125

वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु ।

वातः॑ प्रा॒णेने॑ षि॒रो म॑यो॒ भूः ।

द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः ।

ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीतां ।

बृ॒हद्भि॑-स्सवि त॒स्तृभिः॑ । वर्.षि॑ष्ठैर् -देव॒मन्म॑भिः । अग्ने॒ दक्षैः᳚ पुनाहिमा ।

येन॑ दे॒वा अपु॑नत । ये नापो॑ दि॒व्यङ्कशः॑ । तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥ 126

इ॒दं ब्रह्म॑ पुनीमहे । यः पा॑वमा॒नी-र॒द्धयेति॑ । ऋषि॑भि॒-स्संभृ॑त॒ꣳ॒ रसं᳚ । सर्व॒ꣳ॒ स पू॒तम॑श्नाति । स्व॒दि॒तं मा॑त॒रिश्व॑ना । पा॒व॒मा॒नीर्यो अ॒॒द्धयेति॑ ।

ऋषि॑भि॒-स्संभृ॑त॒ꣳ॒ रसं᳚ । तस्मै॒ सर॑स्वती दुहे । क्षी॒रꣳ स॒र्पि र्मधू॑द॒कं । पा॒व॒मा॒नी-स्स्व॒स्त्यय॑नीः ॥ 127

सु॒दुघा॒हि पय॑स्वतीः । ऋषि॑भि॒-स्संभृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒-मृतꣳ॑ हि॒तं । पा॒व॒मा॒नीर् दि॑शन्तु नः । इ॒मंं ँलो॒कमथो॑ अ॒मुं । कामा॒न्थ्-सम॑र्द्धयन्तु नः ।

दे॒वीर्दे॒वैः स॒मा भृ॑ताः । पा॒व॒मा॒नी-स्स्व॒स्त्यय॑नीः । सु॒दुघा॒हि घृ॑त॒श्चुतः॑ । ऋषि॑भि॒-स्संभृ॑तो॒ रसः॑ ॥ 128

ब्रा॒ह्म॒णेष्व॒-मृतꣳ॑ हि॒तं । येन॑ दे॒वाः प॒वित्रे॑ण । आ॒त्मानं॑ पु॒नते॒ सदा᳚ ।

तेन॑ स॒हस्र॑ धारेण । पा॒व॒मा॒न्यः

पु॑नन्तु मा । प्रा॒जा॒प॒त्यं प॒वित्रं᳚ ।

श॒तोद्या॑मꣳ हिर॒ण्मयं᳚ । तेन॑ ब्रह्म॒ विदो॑ व॒यं । पू॒तं ब्रह्म॑ पुनीमहे । इन्द्र॑-स्सुनी॒ती स॒ह मा॑ पुनातु । सोम॑-स्स्व॒स्त्या वरु॑ण-स्स॒मीच्या᳚ । य॒मो राजा᳚ प्रमृ॒णाभिः॑ पुनातुमा ।

जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु । ॐ भूर्भुव॒स्सुवः॑ ॥ 129

TB 3.5.11.1

तच्छं॒ ँयोरा वृ॑णीमहे । गा॒तुं य~ं॒ज्ञाय॑ । गा॒तुं ँय॒ज्ञप॑तये ।

दैवी᳚स्व॒स्ति-र॑स्तुनः । स्व॒स्तिर्-मानु॑षेभ्यः ।

ऊ॒द्‌र्ध्वं जि॑गातु भेष॒जं ।

शन्नो॑ अस्तु द्वि॒पदे᳚ । शंचतु॑ष्पदे ॥ 130 (36)

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

( उदकशान्ति समाप्तं )

1.41 नक्षत्र सूक्तं (नक्षत्र जप मन्त्राः)

1.नक्षत्रं - कृत्तिका

अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः । नक्ष॑त्रं दे॒वमि॑न्द्रि॒यं । इ॒दमा॑सां- ँविचक्ष॒णं ।

ह॒विरा॒सन् जु॑होतन । यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ । यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚ । स कृत्ति॑का भिर॒भि-स॒म् ँवसा॑नः ।

अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु ॥

अ॒ग्नये॒ स्वाहा॒ कृत्ति॑काभ्य॒ स्स्वाहा᳚ ।

अ॒बांयै॒ स्वाहा॑ दु॒लायै॒ स्वाहा᳚ ।

नि॒त॒त्न्यै स्वाहा॒ ऽभ्रय॑न्त्यै॒ स्वाहा᳚ ।

मे॒घय॑न्त्यै॒ स्वाहा॑ व॒र्॒.षय॑न्त्यै॒ स्वाहा᳚ ।

चु॒पु॒णीका॑यै॒ स्वाहा᳚ ॥ 1

(कृत्तिका नक्षत्र देवतायै अग्नये नमः)

2. नक्षत्रं - रोहिणी

प्र॒जाप॑ते रोहि॒णी वे॑तु॒ पत्नी᳚ । वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः । सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु । यथा॒ जीवे॑म श॒रद॒स्सवी॑राः ।

रो॒हि॒णी दे॒व्युद॑गात् पु॒रस्ता᳚त् । विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना । प्र॒जाप॑तिꣳ ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒या दे॒वाना॒-मुप॑यातु य॒ज्ञं ॥

प्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा᳚ ।

रोच॑मानायै॒ स्वाहा᳚ प्र॒जाभ्य॒ स्वाहा᳚ ॥ 2

(रोहिणी नक्षत्र देवातायै प्रजापतये नमः)

3.नक्षत्रं - मृगशीर्.षः

सोमो॒ राजा॑ मृगशी॒र॒.षेण॒ आगन्न्॑ ।

शि॒वं नक्ष॑त्रं प्रि॒यम॑स्य॒ धाम॑ ।

आ॒प्याय॑मानो बहु॒॒धा जने॑षु । रेतः॑ प्र॒जां ँयज॑माने दधातु । यत्ते॒ नक्ष॑त्रं मृगशी॒र्॒.षमस्ति॑ । प्रि॒यꣳ रा॑जन् प्रि॒यत॑मं प्रि॒याणां᳚ । तस्मै॑ ते सोम ह॒विषा॑ विधेम । शन्न॑ एधि द्वि॒पदे॒ शंचतु॑ष्पदे ॥

सोमा॑य॒ स्वाहा॑ मृगशी॒र्॒.षाय॒ स्वाहा᳚ ।

इ॒न्व॒काभ्य॒ स्स्वाहौष॑धीभ्य॒ स्स्वाहा᳚ ।

रा॒ज्याय॒ स्वाहा॒-ऽभिजि॑त्यै॒ स्वाहा᳚ ॥ 3

(मृगशीर्.ष नक्षत्र देवतायै सोमाय नमः)

4. नक्षत्रं - आर्द्रा

आ॒र्द्रया॑ रु॒द्रः प्रथ॑मा न एति ।

श्रेष्ठो॑ दे॒वानां॒ पति॑रघ्नि॒यानां᳚ ।

नक्ष॑त्रमस्य ह॒विषा॑ विधेम ।

मा नः॑ प्र॒जाꣳ री॑रिष॒न् मोत वी॒रान् ।

हे॒ती रु॒द्रस्य॒ परि॑णो वृणक्तु । आ॒र्द्रा नक्ष॑त्रं जुषताꣳ ह॒विर्नः॑ ।

प्र॒मु॒ञ्चमा॑नौ दुरि॒तानि॒ विश्वा᳚ । अपा॒घशꣳ॑ सन्नु-दता॒मरा॑तिं ॥

रु॒द्राय॒ स्वाहा॒ऽऽर्द्रायै॒ स्वाहा᳚ ।

पिन्व॑मानायै॒ स्वाहा॑ प॒शुभ्य॒ स्स्वाहा᳚ ॥ 4

(आर्द्रा नक्षत्र देवतायै रुद्राय नमः)

5.नक्षत्रं - पुनर्वसु

पुन॑र्नो दे॒व्यदि॑तिः स्पृणोतु । पुन॑र्वसू नः॒ पुन॒रेतां᳚ ँय॒ज्ञं । पुन॑र्नो दे॒वा अ॒भिय॑न्तु॒ सर्वे᳚ । पुनः॑ पुनर्वो ह॒विषा॑ यजामः । ए॒वा न दे॒व्यदि॑तिरन॒र्वा । विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा ।

पुन॑र्वसू ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒यं दे॒वाना॒-मप्ये॑तु॒ पाथः॑ ॥

अदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्यां ।

स्वाहा भू᳚त्यै॒ स्वाहा॒ प्रजा᳚त्यै॒ स्वाहा᳚ ॥ 5

(पुनर्वसु नक्षत्र देवतायै अदित्यै नमः)

6.नक्षत्रं - पुष्यः

बृह॒स्पतिः॑ प्रथ॒मञ्जाय॑मानः । ति॒ष्यं॑ नक्ष॑त्रम॒भि संब॑भूव । श्रेष्ठो॑ दे॒वानां॒ पृत॑नासु जि॒ष्णुः । दिशो नु॒ सर्वा॒ अभ॑यन्नो अस्तु । ति॒ष्यः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॑ । बृह॒स्पति॑र् नः॒ परि॑पातु प॒श्चात् । बाधे॑ ता॒न् द्वेषो॒ अभ॑यं कृणुतां । सु॒वीर्य॑स्य॒ पत॑यस् स्याम ॥

बृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वाहा᳚ ।

ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहा᳚ ॥ 6 (पुष्य नक्षत्र देवतायै बृहस्पतये नमः)

7. नक्षत्रं -आश्रेषं

इ॒दꣳ स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्टं᳚ । आ॒श्रे॒षा येषा॑ मनु॒यन्ति॒ चेतः॑ ।

ये अ॒न्तरि॑क्षं पृथि॒वीं-क्षि॒यन्ति॑ ।

तेन॑ स्स॒र्पासो॒ हव॒माग॑मिष्ठाः ।

ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः । ये दिवं॑ दे॒वी-मनु॑स॒ञ्चर॑न्ति । येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ कामं᳚ । तेभ्य॑-स्स॒र्पेभ्यो॒ मधु॑-मज्जुहोमि ॥

स॒र्पेभ्य॒ स्स्वाहा᳚ ऽऽश्रे॒षाभ्य॒ स्स्वाहा᳚ ।

द॒न्द॒शूके᳚भ्य॒ स्स्वाहा᳚ ॥ 7

(आश्रेषा नक्षत्र देवतायै सर्पेभ्यो नमः)

8.नक्षत्रं - मघा

उप॑हूताः पि॒तरो॒ ये म॒घासु॑ । मनो॑जवस-स्सु॒कृत॑-स्सुकृ॒त्याः । ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मिष्ठाः । स्व॒धाभि॑र् य॒ज्ञं प्रय॑तं जुषन्तां । ये अ॑ग्निद॒ग्धा येऽन॑ग्नि-दग्धाः । ये॑ऽमु ँल्लो॒कं पि॒तरः॑ क्षि॒यन्ति॑ ।

याᳺश्च॑ वि॒द्मयाꣳ उ॑ च॒ न प्र॑वि॒द्म । म॒घासु॑ य॒ज्ञꣳ सुकृ॑तं जुषन्तां ॥

पि॒तृभ्य॒ स्स्वाहा॑ म॒घाभ्यः॑ ।

स्वाहा॑ ऽन॒घाभ्य॒ स्स्वाहा॑ ऽग॒दाभ्यः॑ ।

स्वाहा॑रुन्ध॒तीभ्य॒ स्स्वाहा᳚ ॥ 8

(मघा नक्षत्र देवतायै पितृभ्यो नमः)

9.नक्षत्रं - पूर्वफल्गु॑नी

गवां॒ पतिः॒ फल्गु॑नी-नामसि॒ त्वं । तद॑र्‌यमन् वरुण मित्र॒ चारु॑ । तंत्वा॑ व॒यꣳ स॑नि॒तारꣳ॑ सनी॒नां । जी॒वा जीव॑न्त॒मुप॒ सम् ँवि॑शेम । येने॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता । यस्य॑ दे॒वा अ॑नुस॒ ँय्यन्ति॒ चेतः॑ ।

अ॒र्य॒मा राजा॒ऽजर॒स्तु वि॑ष्मान् ।

फल्गु॑नीना-मृष॒भो रो॑रवीति ॥

अ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्या॒ᳺ॒ स्वाहा᳚ । प॒शुभ्य॒ स्स्वाहा᳚ ॥ 9

(पूर्वफल्गु॑नी नक्षत्र देवतायै अर्यम्णे नमः)

10.नक्षत्रं - उत्तर फ॑ल्गुनी

श्रेष्ठो॑ दे॒वानां᳚ भगवो भगासि । तत्त्वा॑ विदुः॒ फल्गु॑नी॒-स्तस्य॑ वित्तात् । अ॒स्मभ्यं॑-क्ष॒त्रम॒जरꣳ॑ सु॒वीर्यं᳚ ।

गोम॒दश्व॑-व॒दुप॒सन्नु॑-दे॒ह ।

भगो॑ह दा॒ता भग॒ इत्प्र॑दा॒ता ।

भगो॑ दे॒वीः फल्गु॑नी॒-रावि॑वेश ।

भग॒स्येत्तं प्र॑स॒वं ग॑मेम ।

यत्र॑ दे॒वै-स्स॑ध॒मादं॑ मदेम । ॥

भगा॑य॒ स्वाहा॒ फल्गु॑नीभ्या॒ᳺ॒ स्वाहा᳚ ।

श्रैष्ठया॑य॒ स्वाहा᳚ ॥ 10

(उत्तरफ॑ल्गुनी नक्षत्र देवतायै भगाय नमः)

11.नक्षत्रं - हस्तः

आया॑तु दे॒व-स्स॑वि॒तो प॑यातु । हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न । वह॒न॒. हस्तꣳ॑ सु॒भगं॑ ँविद्म॒नाप॑सं । प्र॒यच्छ॑न्तं॒ पपु॑रिं॒ पुण्य॒मच्छ॑ । हस्तः॒ प्रय॑च्छ त्व॒मृतं॒ ँवसी॑यः । दक्षि॑णेन॒ प्रति॑गृभ्णीम एनत् ।

दा॒तार॑-म॒द्य स॑वि॒ता वि॑देय । यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञं ॥ स॒वि॒त्रे स्वाहा॒ हस्ता॑य । स्वाहा॑ दद॒ते स्वाहा॑ पृण॒ते ।

स्वाहा᳚ प्र॒यच्छ॑ते॒ स्वाहा᳚ प्रतिगृभ्ण॒ते

स्वाहा᳚ ॥

(हस्त नक्षत्र देवतायै सवित्रे नमः) 11

12. नक्षत्रं - चित्रा

त्वष्टा॒ नक्ष॑त्र-म॒भ्ये॑ति चि॒त्रां । सु॒भꣳ स॑सं- ँयुव॒तिꣳ रोच॑मानां ।

नि॒वे॒शय॑न्न॒-मृता॒न् मर्त्याᳺ॑श्च ।

रू॒पाणि॑ पि॒ꣳ॒शन् भुव॑नानि॒ विश्वा᳚ ।

तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टां । तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यं᳚ ।

तन्नः॑ प्र॒जां ँवी॒रव॑तीꣳ सनोतु ।

गोभि॑र्नो॒ अश्वै॒-स्सम॑नक्तु य॒ज्ञं ॥

त्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा᳚ ।

चै॒त्रा॑य॒ स्वाहा᳚ प्र॒जायै॒ स्वाहा᳚ ॥ 12

(चित्रा नक्षत्र देवतायै त्वष्ट्रे नमः)

13.नक्षत्रं - स्वाती

वा॒युर् नक्ष॑त्र-म॒भ्ये॑ति॒ निष्ट्यां᳚ । ति॒ग्मशृं॑गो वृष॒भो रोरु॑वाणः ।

स॒मी॒रय॒न् भुव॑ना मात॒रिश्वा᳚ । अप॒ द्वेषाꣳ॑सि नुदता॒मरा॑तीः ।

तन्नो॑ वा॒युस्तदु॒ निष्ट्या॑ श्रृणोतु । तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यं᳚ ।

तन्नो॑ दे॒वासो॒ अनु॑ जानन्तु॒ कामं᳚ ।

यथा॒ तरे॑म दुरि॒तानि॒ विश्वा᳚ ॥

वा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा᳚ ।

का॒म॒चारा॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥ 13

(स्वाती नक्षत्र देवतायै वायवे नमः)

14.नक्षत्रं - विशाखा

दू॒र-म॒स्मच्छत्र॑वो यन्तु भी॒ताः । तदि॑न्द्रा॒ग्नी कृ॑णुतां॒ तद् विशा॑खे । तन्नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञं । प॒श्चात् पु॒रस्ता॒-दभ॑यन्नो अस्तु ।

नक्ष॑त्राणा॒-मधि॑पत्नी॒ विशा॑खे ।

श्रेष्ठा॑-विन्द्रा॒ग्नी भुव॑नस्य गो॒पौ ।

विषू॑च॒-श्शत्रू॑नप॒बाध॑मानौ । अप॒क्षुध॑-न्नुदता॒मरा॑तिं ॥

इ॒न्द्रा॒ग्निभ्या॒ᳺ॒ स्वाहा॒ विशा॑खाभ्या॒ᳺ॒ स्वाहा᳚ । श्रैष्ठ्या॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥ 14

(विशाखा नक्षत्र देवतायै इन्द्राग्निभ्यां नमः)

15. पौर्णमासि

पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता᳚त् । उन्म॑ध्य॒तः पौ᳚र्णमा॒सी जि॑गाय ।

तस्यां᳚ दे॒वा अधि॑ स॒म् ँवस॑न्तः ।

उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्तां ।

पृ॒थ्वी सु॒वर्चा॑ युव॒ति-स्स॒जोषाः᳚ । पौ॒र्ण॒मा॒स्युद॑गा॒-च्छोभ॑माना ।

आ॒प्या॒य-य॑न्ती दुरि॒तानि॒ विश्वा᳚ । उ॒रुं दुहां॒ य ँज॑मानाय य॒ज्ञं ॥

पौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहा ग॑त्यै॒ स्वाहा᳚ ॥ 15

(पौर्ण्यमास्यै नमः)

16.नक्षत्रं - अनूराधा

ऋ॒द्ध्यास्म॑ ह॒व्यैर् नम॑सोप॒सद्य॑ ।

मि॒त्रं दे॒वं मि॑त्र॒धेय॑न्नो अस्तु ।

अ॒नू॒रा॒धान्. ह॒विषा॑ व॒र्द्धय॑न्तः ।

श॒तं जी॑वेम श॒रद॒स्सवी॑राः ।

चि॒त्रं-नक्ष॑त्र॒-मुद॑गात् पु॒रस्ता᳚त् । अ॒नू॒रा॒धास॒ इति॒ यद् वद॑न्ति ।

तन्मि॒त्र ए॑ति प॒थिभि॑र् देव॒यानैः᳚ ।

हि॒र॒ण्ययै॒र् वित॑तै-र॒न्तरि॑क्षे ॥

मि॒त्राय॒ स्वाहा॑-ऽनूरा॒धेभ्य॒ स्स्वाहा᳚ ।

मि॒त्र॒धेया॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ ॥ 16

( अनूराधा नक्षत्र देवतायै मित्राय नमः)

17.नक्षत्रं - ज्येष्ठा

इन्द्रो᳚ ज्ये॒ष्ठा मनु॒ नक्ष॑त्रमेति । यस्मि॑न् वृ॒त्रं ँवृ॑त्र॒ तूर्ये॑ त॒तार॑ ।

तस्मि॑न् व॒य-म॒मृतं॒ दुहा॑नाः । क्षुध॑न्तरेम॒ दुरि॑तिं॒ दुरि॑ष्टिं ।

पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे᳚ । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ ।

इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द्दुहा॑ना । उ॒रुं कृ॑णोतु॒ यज॑मानाय लो॒कं ॥

इन्द्रा॑य॒ स्वाहा᳚ ज्ये॒ष्ठायै॒ स्वाहा᳚ ।

ज्यैष्ठ्या॑य॒ स्वाहा॒-ऽभिजि॑त्यै॒ स्वाहा᳚ ॥

(ज्येष्ठा नक्षत्र देवतायै इन्द्राय नमः) 17

18.नक्षत्रं - मूलं

मूलं॑ प्र॒जां ँवी॒रव॑तीं ँविदेय । परा᳚च्येतु॒ निर्.ऋ॑तिः परा॒चा । गोभि॒र् नक्ष॑त्रं प॒शुभि॒-स्सम॑क्तं । अह॑र् भूया॒द् यज॑मानाय॒ मह्यं᳚ ।

अह॑र्नो अ॒द्य सु॑वि॒ते द॑धातु ।

मूलं॒ नक्ष॑त्र॒मिति॒ यद् वद॑न्ति ।

परा॑चीं ँवा॒चा निर्.ऋ॑तिं नुदामि ।

शि॒वं प्र॒जायै॑ शि॒वम॑स्तु॒ मह्यं᳚ ॥

प्र॒जाप॑तये॒ स्वाहा॒ मूला॑य॒ स्वाहा᳚ ।

प्र॒जायै॒ स्वाहा᳚ ॥

(मूला नक्षत्र देवतायै प्रजापतये नमः) 18

19.नक्षत्रं - पूर्वाषाढा

या दि॒व्या आपः॒ पय॑सा संबभू॒वुः ।

या अ॒न्तरि॑क्ष उ॒त पार्त्थि॑वी॒र्याः ।

यासा॑मषा॒ढा अ॑नु॒यन्ति॒ कामं᳚ ।

ता न॒ आपः॒ शᳺ स्यो॒ना भ॑वन्तु ।

याश्च॒ कूप्या॒ याश्च॑ ना॒द्या᳚-स्समु॒द्रियाः᳚ । याश्च॑ वैश॒न्तीरु॒त प्रा॑स॒चीर्याः ।

यासा॑मषा॒ढा मधु॑ भ॒क्षय॑न्ति ।

ता न॒ आपः॒ शᳺ स्यो॒ना भ॑वन्तु ॥

अ॒द्भ्य स्स्वाहा॑ ऽषा॒ढाभ्य॒ स्स्वाहा᳚ ।

स॒मु॒द्राय॒ स्वाहा॒ कामा॑य॒ स्वाहा᳚ ।

अ॒भिजि॑त्यै॒ स्वाहा᳚ ॥ 19

(पूर्वाषाढा नक्षत्र देवतायै अद्भ्यो नमः)

20.नक्षत्रं - उत्तराषाढा

तन्नो॒ विश्वे॒ उप॑ शृण्वन्तु दे॒वाः । तद॑षा॒ढा अ॒भि सम् ँय॑न्तु य॒ज्ञं ।

तन्नक्ष॑त्रं प्रथतां प॒शुभ्यः॑ ।

कृ॒षिर् वृ॒ष्टिर् यज॑मानाय कल्पतां ।

शु॒भ्राः क॒न्या॑ युव॒तय॑-स्सु॒पेश॑सः । क॒र्म॒कृत॑-स्सु॒कृतो॑ वी॒र्या॑वतीः ।

विश्वा᳚न् दे॒वान्. ह॒विषा॑ व॒र्द्धय॑न्तीः ।

अ॒षा॒ढाः काम॒ मुप॑यान्तु य॒ज्ञं ॥

विश्वे᳚भ्यो दे॒वेभ्य॒ स्स्वाहा॑ ऽषा॒ढाभ्य॒ स्स्वाहा᳚ । अ॒न॒प॒ज॒य्याय॒ स्वाहा॒ जित्यै॒ स्वाहा᳚ ॥ 20 (उत्तराषाढा नक्षत्र देवतायै विश्वेभ्यो देवेभ्यो नमः)

21.नक्षत्रं - अभिजित्

यस्मि॒न् ब्रह्मा॒ऽभ्यज॑य॒थ् सर्व॑मे॒तत् । अ॒मुञ्च॑ लो॒क मि॒दमू॑च॒ सर्वं᳚ ।

तन्नो॒ नक्ष॑त्र-मभि॒जिद् वि॒जित्य॑ । श्रियं॑ दधा॒त्वहृ॑णीयमानं ।

उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ ।

तन्नो॒ नक्ष॑त्र-मभि॒जिद् विच॑ष्टां ।

तस्मि॑न् व॒यं पृत॑ना॒ स्संज॑येम ।

तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ कामं᳚ ॥

ब्रह्म॑णे॒ स्वाहा॑ ऽभि॒जिते॒ स्वाहा᳚ ।

ब्र॒ह्म॒लो॒काय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥ 21

(अभिजित् नक्षत्र देवतायै ब्रह्मणे नमः)

22.नक्षत्रं - श्रवणं

शृ॒ण्वन्ति॑ श्रो॒णा-म॒मृत॑स्य गो॒पां । पुण्या॑मस्या॒ उप॑शृणोमि॒ वाचं᳚ ।

म॒हीं दे॒वीं ँविष्णु॑पत्नी मजू॒र्यां ।

प्र॒तीची॑ मेनाꣳ ह॒विषा॑ यजामः ।

त्रे॒धा विष्णु॑-रुरुगा॒यो विच॑क्रमे ।

म॒हीं दिवं॑ पृथि॒वी-म॒न्तरि॑क्षं ।

तच्छ्रो॒णैति॒ श्रव॑-इ॒च्छमा॑ना ।

पुण्य॒ᳺ॒ श्लोकं॒ ँयज॑मानाय कृण्व॒ती ॥

विष्ण॑वे॒ स्वाहा᳚ श्रो॒णायै॒ स्वाहा᳚ ।

श्लोका॑य॒ स्वाहा᳚ शृ॒ताय॒ स्वाहा᳚ ॥ 22

(श्रवण नक्षत्र देवतायै विष्णवे नमः)

23.नक्षत्रं - श्रविष्टा

अ॒ष्टौ दे॒वा वस॑वस्सो॒म्यासः॑ ।

चत॑स्रो दे॒वी र॒जराः॒ श्रवि॑ष्ठाः ।

ते य॒ज्ञं पा᳚न्तु॒ रज॑सः प॒रस्ता᳚त् । स॒म् ँव॒थ्स॒रीण॑-म॒मृतᳺ॑ स्व॒स्ति ।

य॒ज्ञं नः॑ पान्तु॒ वस॑वः पु॒रस्ता᳚त् । द॒क्षि॒ण॒तो॑-ऽभिय॑न्तु॒ श्रवि॑ष्ठाः ।

पुण्य॒न्नक्ष॑त्रम॒भि सम् ँवि॑शाम ।

मा नो॒ अरा॑ति-र॒घश॒ꣳ॒ सागन्न्॑ ॥

वसु॑भ्य॒ स्स्वाहा॒ श्रवि॑ष्ठाभ्य॒ स्स्वाहा᳚ ।

अग्रा॑य॒ स्वाहा॒ परी᳚त्यै॒ स्वाहा᳚ ॥ 23

(श्रविष्टा नक्षत्र देवतायै वसुभ्यो नमः)

24.नक्षत्रं - शतभिषक्

क्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः । नक्ष॑त्राणाꣳ श॒तभि॑ष॒ग् वसि॑ष्ठः ।

तौ दे॒वेभ्यः॑ कृणुतो दी॒र्घमायुः॑ ।

श॒तꣳ स॒हस्रा॑ भेष॒जानि॑ धत्तः ।

य॒ज्ञन्नो॒ राजा॒ वरु॑ण॒ उप॑यातु ।

तन्नो॒ विश्वे॑ अ॒भिसम् ँय॑न्तु दे॒वाः ।

तन्नो॒ नक्ष॑त्रꣳ श॒तभि॑षग् जुषा॒णं । दी॒र्घमायुः॒ प्रति॑रद् भेष॒जानि॑ ॥

वरु॑णाय॒ स्वाहा॑ श॒तभि॑षजे॒ स्वाहा᳚ ।

भे॒ष॒जेभ्य॒ स्स्वाहा᳚ ॥ 24

(शतभिषक् नक्षत्र देवतायै वरुणाय नमः)

25.नक्षत्रं - पूर्वप्रोष्ठपदा

अ॒ज एक॑पा॒-दुद॑गात् पु॒रस्ता᳚त् ।

विश्वा॑ भू॒तानि॑ प्रति॒ मोद॑मानः ।

तस्य॑ दे॒वाः प्र॑स॒वं ँय॑न्ति॒ सर्वे᳚ । प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः ।

वि॒भ्राज॑मान-स्समिधा॒न उ॒ग्रः । आऽन्तरि॑क्ष-मरुह॒द-ग॒न्द्यां ।

तꣳ सूर्यं॑ दे॒व-म॒जमेक॑पादं । प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे᳚ ॥

अ॒जायैक॑पदे॒ स्वाहा᳚ प्रोष्ठप॒देभ्य॒

स्स्वाहा᳚ ।

तेज॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहा᳚ ॥ 25

(पूर्वप्रोष्ठपदा नक्षत्र देवतायै अजाय एकपदे नमः)

26.नक्षत्रं - उत्तरप्रोष्ठपदा

अहि॑ र्बु॒द्ध्नियः॒ प्रथ॑मान एति ।

श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणां ।

तं ब्रा᳚ह्म॒णा-स्सो॑म॒पा-स्सो॒म्यासः॑ । प्रो॒ष्ठ॒प॒दासो॑ अ॒भिर॑क्षन्ति॒ सर्वे᳚ ।

च॒त्वार॒ एक॑म॒भि कर्म॑ दे॒वाः । प्रो॒ष्ठ॒प॒दास॒ इति॒ यान्. वद॑न्ति ।

ते बु॒द्धनियं॑ परि॒षद्यᳺ॑ स्तु॒वन्तः॑ । अहिꣳ॑ रक्षन्ति॒ नम॑सोप॒सद्य॑ ॥

अह॑ये बु॒ध्निया॑य॒ स्वाहा᳚ प्रोष्ठप॒देभ्य॒ स्स्वाहा᳚ । प॒ति॒ष्ठायै॒ स्वाहा᳚ ॥ 26

(उत्तरप्रोष्ठपदा नक्षत्र देवतायै अहये बुध्नियाय नमः)

27.नक्षत्रं - रेवती

पू॒षा रे॒वत्यन्वे॑ति॒ पन्थां᳚ । पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ । इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा । सु॒गैर्नो॒ यानै॒रुप॑यातां ँय॒ज्ञं ।

क्षु॒द्रान् प॒शून् र॑क्षतु रे॒वती॑ नः । गावो॑ नो॒ अश्वा॒ꣳ॒ अन्वे॑तु पू॒षा । अन्न॒ꣳ॒ रक्ष॑न्तौ बहु॒॒धा विरू॑पं । वाजꣳ॑ सनुतां॒ ँयज॑मानाय य॒ज्ञं ॥

पू॒ष्णे स्वाहा॑ रे॒वत्यै॒ स्वाहा᳚ ।

प॒शुभ्य॒ स्स्वाहा᳚ ॥ 27

(रेवती नक्षत्र देवतायै पूष्णे नमः)

28 नक्षत्रं - अश्विनी

तद॒श्विना॑-वश्व॒युजोप॑यातां । शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ ।

स्वन्नक्ष॑त्रꣳ ह॒विषा॒ यज॑न्तौ । मध्वा॒ संपृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ ।

यौ दे॒वानां᳚ भि॒षजौ॑ हव्यवा॒हौ । विश्व॑स्य दू॒ता-व॒मृत॑स्य गो॒पौ ।

तौ नक्ष॑त्रं-जुजुषा॒णो-प॑यातां । नमो॒ऽश्विभ्यां᳚ कृणुमो-ऽश्व॒युग्भ्यां᳚ ॥

अ॒श्विभ्या॒ᳺ॒ स्वाहा᳚ ऽश्व॒युग्भ्या॒ᳺ॒ स्वाहा᳚।

श्रोत्रा॑य॒ स्वाहा॒ शृत्यै॒ स्वाहा᳚ ॥ 28

(अश्विनी नक्षत्र देवतायै अश्विभ्यां नमः)

29.नक्षत्रं - अपभरणी

अप॑ पा॒प्मानं॒ भर॑णीर् भरन्तु । तद् य॒मो राजा॒ भग॑वा॒न्॒. विच॑ष्टां । लो॒कस्य॒ राजा॑ मह॒तो म॒हान्. हि । सु॒गन्नः॒ पन्था॒मभ॑यं कृणोतु ।

यस्मि॒न् नक्ष॑त्रे य॒म एति॒ राजा᳚ । यस्मि॑न्नेन-म॒भ्यषिं॑चन्त दे॒वाः ।

तद॑स्य चि॒त्रꣳ ह॒विषा॑ यजाम ।

अप॑ पा॒प्मानं॒ भर॑णीर् भरन्तु ॥

य॒माय॒ स्वाहा॑ ऽप॒भर॑णीभ्य॒ स्स्वाहा᳚ ।

रा॒ज्याय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥ 29

(अपभरणी नक्षत्र देवतायै यमाय नमः)

30.अमावासि

नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑नां॒

ँविश्वा॑ रू॒पाणि॒ वसू᳚न्या-वे॒शय॑न्ती ।

स॒ह॒स्र॒पो॒षꣳ सु॒भगा॒ ररा॑णा॒ सा न॒ आग॒न् वर्च॑सा सम् ँविदा॒ना । यत्ते॑ दे॒वा अद॑धुर् भाग॒धेय॒-ममा॑वास्ये स॒म् ँवस॑न्तो महि॒त्वा । सा नो॑ य॒ज्ञं पि॑पृहि विश्ववारे र॒यिन्नो॑ धेहि सुभगे सु॒वीरं᳚ ॥ अ॒म॒वा॒स्या॑यै॒ स्वाहा॒ कामा॑य॒ स्वाहा ऽऽग॑त्यै॒ स्वाहा᳚ ॥ 30

(अमावास्यै नमः)

31.चन्द्रमा

नवो॑ नवो भवति॒ जाय॑मा॒नोऽह्नां᳚ के॒तु-रु॒षसा॑ मे॒त्यग्रे᳚ ।भा॒गं दे॒वेभ्यो॒ विद॑धात्या॒यन् प्रच॒न्द्रमा᳚स्तिरिति दी॒र्घमायुः॑ ।

यमा॑दि॒त्या अ॒ꣳ॒शुमा᳚प्या॒यय॑न्ति॒ यमक्षि॑त॒-मक्षि॑तयः॒ पिब॑न्ति ।

तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒ राप्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ॥

च॒न्द्रम॑से॒ स्वाहा᳚ प्रती॒दृश्या॑यै॒ स्वाहा᳚ ।

अ॒हो॒रा॒त्रेभ्य॒ स्स्वाहा᳚-ऽर्द्धमा॒सेभ्य॒

स्स्वाहा᳚ । मासे᳚भ्य॒ स्स्वाह॒र्तुभ्य॒ स्स्वाहा᳚ । स॒वं~ं॒थ्स॒राय॒ स्वाहा᳚ ॥ 31

(चन्द्रमसे नमः)

32. अहो रात्र

ये विरू॑पे॒ सम॑नसा स॒म् ँव्यय॑न्ती । स॒मा॒नं तन्तुं॑ परिता-त॒नाते᳚ । वि॒भू प्र॒भू अ॑नु॒भू वि॒श्वतो॑ हुवे । ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मेतं । व॒यं दे॒वी ब्रह्म॑णा सम् ँविदा॒नाः । सु॒रत्ना॑सो दे॒ववी॑तिं॒ द॑धानाः । अ॒हो॒रा॒त्रे ह॒विषा॑ व॒र्द्धय॑न्तः । अति॑ पा॒प्मान॒-मति॑मुक्त्या गमेम ॥

अह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाहा᳚ ।

अति॑मुक्त्यै॒ स्वाहा᳚ ॥ 32

(अहो रात्राभ्यां नमः)

33. उषा

प्रत्यु॑व दृश्याय॒ती । व्यु॒च्छन्ती॑ दुहि॒ता दि॒वः ।

अ॒पो म॒ही वृ॑णुते॒ चक्षु॑षा । तमो॒ ज्योति॑ष्-कृणोति सू॒नरी᳚ । उदु॒स्रिया᳚ स्सचते॒ सूर्यः॑ । स चा॑ उ॒द्यन्नक्ष॑त्र मर्चि॒मत् ।

तवे दु॑षो॒ व्युषि॒ सूर्य॑स्य च । संभ॒क्तेन॑ गमेमहि ॥

उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहा᳚ ।

व्यू॒षुष्यै॒ स्वाहा᳚ व्यु॒च्छन्त्यै॒ स्वाहा᳚ ।

व्यु॑ष्टायै॒ स्वाहा᳚ ॥ 33 (उषसे नमः)

34. नक्षत्रः

तन्नो॒ नक्ष॑त्र मर्चि॒मत् । भा॒नु॒मत्तेज॑ उ॒च्चर॑त् । उप॑ य॒ज्ञमि॒हाग॑मत् । प्रनक्ष॑त्राय दे॒वाय॑ । इन्द्रा॒येन्दुꣳ॑ हवामहे ।

स न॑ स्सवि॒ता सु॑वथ् स॒निं ।

पु॒ष्टि॒दां ँवी॒रव॑त्तमं ॥

नक्ष॑त्राय॒ स्वाहो॑देष्य॒ते स्वाहा᳚ ।

उ॒द्य॒ते स्वाहो-दि॑ताय॒ स्वाहा᳚ ।

हर॑से॒ स्वाहा॒ भर॑से॒ स्वाहा᳚ ।

भ्राज॑से॒ स्वाहा॒ तेज॑से॒ स्वाहा᳚ ।

तप॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहा᳚ ॥ 34 (नक्षत्राय नमः)

35. सूर्यः

उदु॒त्यं जा॒तवे॑दसं दे॒वं ँव॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्यं᳚ ।

चि॒त्रं दे॒वाना॒ मुद॑गा॒दनी॑कं॒ चक्षु॑र् मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।

आऽप्रा॒ द्यावा॑पृ॒थिवी अ॒न्तरि॑क्ष॒॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥

सूर्या॑य॒ स्वाहा॒ नक्ष॑त्रेभ्य॒ स्स्वाहा᳚ ।

प्र॒ति॒ष्ठायै॒ स्वाहा᳚ ॥ 35 (सूर्याय नमः)

36. अदितिः

अदि॑तिर्न उरुष्य॒-त्वदि॑तिः॒ शर्म॑ यच्छतु ।

अदि॑तिः पा॒त्वꣳ ह॑सः ।

म॒हीमू॒षु मा॒तरꣳ॑ सुव्र॒ताना॑-मृ॒तस्य॒ पत्नी॒ मव॑से हुवेम ।

तु॒वि॒क्ष॒त्रा-म॒जर॑न्ती मुरू॒चीꣳ सु॒शर्मा॑ण॒-मदि॑तिꣳ सु॒प्रणी॑तिं ॥

अदि॑त्यै॒ स्वाहा᳚ प्रति॒ष्ठायै॒ स्वाहा᳚ ॥ 36

(अदित्यै नमः)

37. विष्णुः

इ॒दं ँविष्णु॒र् विच॑क्रमे त्रे॒धा निद॑धे प॒दं । समू॑ढमस्य पाꣳ सु॒रे ।

प्रतद्विष्णु॑स् स्तवते वी॒र्या॑य ।

मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः।

यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु । अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ ॥

विष्ण॑वे॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा᳚ ।

प्र॒ति॒ष्ठायै॒ स्वाहा᳚ ॥ 37

(विष्णवे नमः)

38. अग्निः

अ॒ग्निर् मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यं ।

अ॒पाꣳ रेताꣳ॑सि जिन्वति । भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से

शि॒वाभिः॑ । दि॒वि मू॒र्धानं॑ दधिषे सुव॒र्॒.षां जि॒ह्वाम॑ग्ने चकृषे

हव्य॒वाहं᳚ ॥ (अग्नये नमः) 38

39. अनुमती

अनु॑नो॒ऽद्यानु॑मति र्य॒ज्ञं दे॒वेषु॑ मन्यतां ।

अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तां दा॒शुषे॒ मयः॑ । अन्विद॑नुमते॒ त्वं मन्या॑सै॒ शंच॑ नः कृधि । क्रत्वे॒ दक्षा॑य नो हिनु॒ प्रण॒ आयूꣳ॑षि तारिषः ॥

(अनुमत्यै नमः) 39

40. हव्यवाहः (अग्निः)

ह॒व्य॒वाह॑मभि-माति॒षाहं᳚ ।

र॒क्षो॒हणं॒ पृत॑नासु जि॒ष्णुं ।

ज्योति॑ष्मन्तं॒ दीद्य॑तं॒ पुर॑न्धिं ।

अ॒ग्निᳺ स्वि॑ष्ट॒ कृत॒मा हु॑वेम ।

स्वि॑ष्ट मग्ने अ॒भितत् पृ॑णाहि ।

विश्वा॑ देव॒ पृत॑ना अ॒भिष्य ।

उ॒रुन्नः॒ पन्थां᳚ प्रदि॒शन् विभा॑हि ।

ज्योति॑ष्मद्धेह्य॒ जर॑न्न॒ आयुः॑ ॥

(अग्नये नमः) 40

नक्षत्रदेवताभ्यो नमः

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑